संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|

अध्याय २४२ - राजनीतिः

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


राम उवाच
पड्‌विधन्तु बलं व्यूह्य देवान् प्रार्च्य रिपुं व्रजेत् ।
मौलं भूतं श्रेणिसुहृद्‌द्विषदटविकं बलं ॥१॥

पूर्वं पूर्वं गरीयस्तु बलानां व्यसनं तथा ।
षडङ्गं मन्त्रकोषाभ्यां पदात्यश्वरथद्विपैः ॥२॥

नद्यद्रिवनदुर्गेषु यत्र यत्र भयं भवेत् ।
सेनापतिस्तत्र तत्र गच्छेद्‌व्यूहीकृतैर्बलैः ॥३॥

नायकः पुरतो यायात् प्रवीरपुरुषावृतः ।
मध्येकलत्रं स्वामी च कोषः फल्गु च यद्बलं ॥४॥

पार्श्वयोरुभयोरश्वा वाजिनां पार्श्वयो रथाः ।
रथानां पार्श्वयोर्नागा नागानां चाटवीबलं ॥५॥

पश्चात् सेनापतिः सर्वं पुरस्कृत्य कृती स्वयं ।
यायात्सन्नाद्ध्सैन्यौघः खिन्नानाश्वासयञ्च्छनैः ॥६॥

यायाद्‌व्यूहेन महाता मकरेण पुरोभये ।
श्येनेनोद्‌धृतपक्षेण सूक्ष्या वा वीरवक्त्त्रया ॥७॥

पश्चाद्भ्ये तु शकटं पार्श्वयोर्वज्रसञ्ज्ञितं ।
सर्व्वतः सर्वतोभद्रं भये व्यूहं प्रकल्पयेत् ॥८॥

कन्दरे शैलगहने निम्नगावनसङ्कटे।
दीर्घाध्वनि परिश्रान्तं क्षुत्पिपासाहितक्लमं ॥९॥

व्याधिदुर्भिक्षमरकपीड़ितं दस्युविद्रुतं ।
पङ्कपांशुजलस्कन्धं व्यस्तं पुञ्जीकृतं पथि ॥१०॥

प्रसुप्तं भोजनव्यग्रमभूमिष्ठमसुस्थितं ।
चौराग्निभयवित्रस्तं वृष्टिवातसमाहतं ॥११॥

इत्यादौ स्वचमूं रक्षेत् परसैन्यं च घातयेत् ।
विशिष्टो देशकालाभ्यां भिन्नविप्रकृतिर्बली ॥१२॥

कुर्यात् प्रकाशपुद्धं हि कूटयुद्धं विपर्य्यये ।
तेष्ववस्कन्दकालेषु परं हन्यात्समाकुलं ॥१३॥

अभूमिष्ठं स्वभूमिष्ठः स्वभूमौ चोपजापतः ।
प्रकृतिप्रग्रहाकृष्टं पाशैर्वनचरादिभिः ॥१४॥

हन्यात् प्रवीरपुरुषैर्भङ्गदानापकर्षणैः ।
पुरस्ताद्दर्शनं दत्वा तल्लक्षकृतनिश्चयान् ॥१५॥

हन्यात्पश्चात् प्रवीरेण बलेनोपेत्य वेगिना ।
पश्चाद्वा सङ्कुलीकृत्य हन्याच्छूरेण पूर्वतः ॥१६॥

आभ्यां पार्श्वाभिघातौ तु व्याख्यातौ कृटयोधने ।
पुरस्ताद्विषमे देशे पश्चाद्धन्यात्तु वेगवान् ॥१७॥

पुरः पश्चात्तु विषमे एवमेव तु रार्श्वयोः।
प्रथमं योधयित्वा तु दूष्यामित्राटवीबलैः ॥१८॥

श्रान्तं मन्दन्निराक्रन्दं हन्यादश्रान्तवाहनं ।
दूष्यामित्रबलैर्व्वापि भङ्गन्दत्वा प्रयत्नवान् ॥१९॥

जितमित्येव विश्वस्तं हन्यान्मन्त्रव्यपाश्रयः ।
स्कन्धावरपुरग्रामशस्यस्वामिप्रजादिषु ॥२०॥

विश्रम्यन्तं परानीकमप्रमत्तो विनशयेत् ।
अथवा गोग्रहकृष्ष्टं तल्लक्ष्यं मार्गबन्धनात् ॥२१॥

अवस्कन्दभयाद्रात्रिप्र्जागरकृतश्रमं ।
दिवासुप्तं समाहन्यान्निद्राव्याकुलसैनिकं ॥२२॥

निशि विब्धसंसुप्तं नागैर्व्वा खड्‌गपाणिभिः ।
प्रयाणे पूर्वयायित्वं वनदुर्गप्रवेशनं ॥२३॥

अबिन्नानामनीकानां भेदनं भिन्नसङ्‌ग्रहः ।
विभीषिकाद्वारघातं कोषरक्षेभकर्म्म च ॥२४॥

अभिन्नभेदनं मित्रसन्धानं रथकर्म्म च ।
वनदिङ्‌मार्गविचये वीवधासारलक्षणं ॥२५॥

अनुयानापसरणे शीघ्रकार्य्योपपादनं ।
दीनानुसरणं घातः कोटीनां जघनस्य च ॥२६॥

अश्वकर्म्मध पत्तेश्च सर्वदा शस्त्रधारणं ।
शिविरस्य च मार्गादेः शोधनं वस्तिकर्म्म च ॥२७॥

संस्थूलस्थाणुवल्मीकवृक्षगुल्मापकण्टकं ।
सापसारा पदातीनां भूर्नातिविषमा मता ॥२८॥

स्वल्पवृक्षोपला क्षिप्रलङ्घनीयनगा स्थिरा ।
निःशर्करा विपङ्का च सापसारा च वाजिभूः ॥२९ ।

निस्थाणुवृक्षकेदारा रथभूमिरकर्द्दमा ।
मर्दनीयतरुच्छेद्यव्रततीपङ्कवर्जिता ॥३०॥

निर्झरागम्यशैला च विषमा गजमेदिनी ।
उरस्यादीनि भिन्नानि प्रतिगृह्णन् बलानि हि ॥३१॥

प्रतिग्रह इति ख्यातो राजकार्य्यान्तरक्षभः ।
तेन शून्यस्तु यो व्यूहः स भिन्न इव लक्ष्येते ॥३२॥

जयार्थोन च युद्धयेत मतिमानप्रतिग्र्हः ।
यत्र राजा तत्र कोषः कोषाधीना हि राजता ॥३३॥

योधेभ्यस्तु ततो दद्यात् किंचिद्दातुं न युज्यते ।
द्रव्यलक्षं राजवाते तदर्द्धं तत्‌सुतार्दने ॥३४॥

सेनापतिबधे तद्वद्दद्याद्वस्त्यादिमर्द्दने ।
अथवा खलु युध्येरन् पत्यश्वरथदन्तिनः ॥३५॥

यथा भवेदसम्बाधो व्यायामविनिवर्त्तने ।
असङ्करेण युद्वरन् सङ्करः सङ्कुलावहः ॥३६॥

महासङ्कुलयुद्धेषु संश्रयेरन्मतङ्गजं ।
अश्वस्य प्रतियोद्धारो भवेयुः पुरुषास्त्रयः ॥३७॥

इति कल्प्यास्त्रयश्चाश्वा विधेयाः कुञ्जरस्य तु ।
पादगोपा भवेयुश्च पुरुषा दश पञ्च च ॥३८॥

विधानमिति नागस्य विहितं स्यन्दनस्य च ।
अनीकमिति विज्ञेयमिति कल्प्या नव द्विपाः ॥३९॥

तथानीकस्य रन्ध्रन्तु पञ्चधा च प्रचक्षते ।
इत्यनीकविभागेन स्थापयेद् व्यूहसम्पदः ॥४०॥

उरस्यकक्षपक्षांस्तु कल्प्यानेतान् प्रचक्षते ।
उरःकक्षौ च पक्षौ च मध्यं पृष्ठं प्रतिग्रहः ॥४१॥

कोटी च व्यूहशास्त्रज्ञैः सप्ताङ्गो व्यूह उच्यते ।
उरस्यकक्षपक्षास्तु व्यूहोऽयं सप्रतिग्रहः ॥४२॥

गुरोरेष च शुक्रस्य कक्षाभ्यां परिवर्जितः ।
तिष्ठेयुः सेनापप्तयः ग्रवीरैः पुरुषैर्वृताः ॥४३॥

अभेदेन च युध्येरन् रक्षेयुश्च परस्परं ।
मध्यव्यूहे फल्‌गु सैन्यं युद्धवस्तु जघन्यतः ॥४४॥

युद्धं हि नायकप्राणं हन्यते तदनायकं ।
उरसि स्थापयेन्नागान् प्रचण्डान् कक्षयो रथान् ॥४५॥

हयाश्च पक्षयोर्व्यूहो मध्यभेदी प्रकीर्त्तितः ।
मध्यदेशे हयानीकं रथानीकञ्च कक्षयोः ॥४६

पक्षयोश्च गकजानीकं व्यूहोन्तर्भेद्ययं स्मृनः ।
रथस्थाने हयान् दद्यात् पदातींश्च हयाश्रये ॥४७॥

रथाभावे तु द्विरदान् व्यूहे सर्वत्र दापयेत् ।
यदि स्याद्दण्डबाक्हुल्यमाबाधः सम्मकीर्त्तितः ॥४८॥

मण्डलासंहतो भोगो दण्डस्ते बहुदा श्रृणु ।
तिर्य्यग्वृत्तिस्तु दण्डः स्याद् भोगोऽन्यावृत्तिरेव च ॥४९॥

मण्डलः सर्वतोवृत्तिः पृथग्वृत्तिरसंहतः ।
प्रदशे दृढ कोऽसह्यः चापो वै कुक्षिरेव च ॥५०॥

प्रतिष्ठः सुप्रतिष्ठस्च श्येनो विजयसञ्जयौ ।
विशालो विजयः शूची स्थूणाकर्ण चमू मुखौ ॥५१॥

सर्पास्यो वलयश्चैव दण्डभेदाश्च दुर्जयाः ।
अतिक्रान्तः प्रतिक्रान्तः कक्षाभ्याञ्चैकक्षपक्षतः ॥५२॥

अतिक्रान्तस्तु पक्षाभ्यां त्रयोऽन्ये तद्विपर्य्यये ।
पक्षोरस्यैरतिक्रान्तः प्रतिष्ठोऽन्यो निपर्य्ययः ॥५३॥

स्थूणापक्षो धनुःपक्षो द्विस्थूणो दण्ड उद्‌र्ध्वगः ।
द्विगुणोन्तस्त्वतिक्रान्तपक्षोऽन्यस्य विपर्ययः ॥५४॥

द्विचतुर्द्दण्ड इत्येते ज्ञेया लक्षणतः क्रमात् ।
गोमूत्रिकाहिसञ्चारीशकटो मकरस्तथा ॥५५॥

भोगभेदाः समाख्यातास्तथा पारिप्लवङ्गकः ।
दण्डपक्षौ युगोरस्यः शकटस्तद्विपर्य्यये ॥५६॥

मकरी व्यतिरीर्णश्च शेषः कुञ्जरराजिभिः ।
मण्डलव्यूहभेदौ तु सर्वतोबद्रदुर्जयौ ॥५७॥

अष्टानीको द्वितायस्तु प्रथमः सर्वतोमूखः ।
अर्द्धचन्द्रक ऊद्‌र्ध्वाङ्गो वज्रभेदास्तु संहतेः ॥५८॥

तथा कर्क्कटश्रृङ्गी च काकपादी च गोधिका ।
त्रिचतुःपञ्च्सैन्यानां ज्ञेया आकारभेदतः ॥५९॥

दण्डस्य स्युः सप्तदश व्यूहा द्वौ मणअडलस्य च ।
असङ्घातस्य षट् पञ्च भोगस्यैव तु सङ्गरे ॥६०॥

पक्षादीनामथैकेन हत्वा शेषैः परिक्षिपेत् ।
उरसा वा समाहत्य कोटिभ्यां परिवेष्टयेत् ॥६१॥

परे कोटी समाक्रम्य पक्षाम्यामप्रतिग्रहात् ।
कोटिभ्याञ्जघनं हन्यादुरसा च प्रणीडयेत् ॥६२॥

यतः फल्गु यतो भिन्नं यतश्चान्यैरधिष्ठितं ।
ततश्चारिबलं हन्यादात्मनश्चोपवृंहयेत् ॥६३॥

सारं द्विगुणसारेण फल्गुसारेण पीडयेत् ।
संहतञ्च गजानीकैः प्रचण्डैर्दारयेद्बलं ॥६४॥

स्यात् कक्षपक्षोरस्यैश्च वर्त्तमानस्तु दण्डकः ।
तत्र प्रयोगो दण्डस्य स्थानन्तुर्य्येण दर्शयेत् ॥६५॥

स्याद्दण्डसमपक्षाभ्यामतिक्रान्तः प्रदारकः ।
भवेत्स पक्षकक्षाभ्यामतिक्रान्तो दृढः स्मृतः ॥६६॥

कक्षाभ्याञ्च प्रतिक्रान्त व्यूहोऽसह्यः स्मृतोयथा ।
कक्षपक्षावधः स्थाप्योरस्यैः क्रान्तश्च खातकः ॥६७॥

द्वौ दण्डौ बलयः प्रोक्तो व्यूहो रिपुविदारणः ।
दुर्जयश्चतुर्वलयः शत्रोर्बलविमर्दनः ॥६८॥

कक्षपक्षौरस्यैर्भोगो विषयं वरिवर्त्तयन् ।
सर्पचारी गोमूत्रिका शकटः शकटाकृतिः ॥६९॥

विपर्य्ययोऽमरः प्रोक्तः सर्वशत्रुविभर्दकः ।
स्यात् कक्षपक्षोरस्यानामेकीभावस्तु मण्डलः ॥७०॥

च क्रपद्मादयो भेदा मण्डलस्य प्रभेदकाः ।
एवञ्च सर्वतोभद्रो वज्राक्षवरकाकवत् ॥७१॥

अर्द्धचन्द्रश्च श्रृङ्गाटो ह्यचलो नामरूपतः ।
व्यूहा यथासुखं कार्य्याः शत्रूणां बलवारणाः ॥७२॥

अग्निरुवाच ।
रामस्तु रावणं हत्वा अयोध्यां प्राप्तवान् द्विज ।
रोमोक्तनीत्येन्द्रदितं हतवांल्लक्ष्मणः पुरा ॥७३॥

इत्यादिमहापुराणे आग्नेये रामोक्तराजनीतिर्नाम द्विचत्वारिंशदधिकद्विशततमोऽध्यायः ।

N/A

References : N/A
Last Updated : September 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP