संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
शिलाविन्यासविधानम्

अध्याय ९४ - शिलाविन्यासविधानम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


ईश्वर उवाच
ईशादिषु चरक्याद्याः पूर्ववत् पूजयेद्वहिः ।
आहुतित्रितयं दद्यात् प्रतिदेवमनुक्रमात् ॥१॥

दत्वा भूतबलिं लग्ने शिलान्यासमनुक्रमात् ।
मध्यशूत्रे न्यसेच्छक्तिं कुम्भञ्चानन्तमुत्तमं । २॥

नकारारूढमूलेन कुम्भेऽस्मिन् धारयेच्छिलां ।
कुम्भानष्टौ सुभद्रादीन् दिक्षु पूर्वादिषु क्रमात् ॥३॥

लोकपालाणुभिर्न्यस्य श्वभ्रेषु न्यस्तशक्तिषु ।
शिलास्तेष्वथ नन्दाद्याः क्रमेण विनिवेशयेत् ॥४॥

शम्बरैर्मूर्त्तिनाथानां यथा स्युर्भित्तिमध्यतः ।
तासु धर्म्मादिकानष्टौ कोणात् कोणं विबागशः ॥५॥

सुभद्रादिषु नन्दाद्याश्चतस्रोऽगन्यादिकोणगाः ।
अजिताद्यास्च पूर्वादिजयादिष्वथ विन्यसेत् ॥६॥

ब्रह्माणं चोपरि नस्य व्यापकं च महेश्वरं ।
चिन्तयेदेषु चाधानं व्योमप्रासादमध्यगं ॥७॥

बलिन्दत्त्वा जपेदस्त्रं विघ्नदोषनिवारणं ।
शिलापञ्चकपक्षेऽपि मनागुद्दिश्यते यथा ॥८॥

मध्ये पूर्णशिलान्यासः सूभद्रकलशेऽर्द्धतः ।
पद्मादिषु च नन्दाद्याः कोणेष्वगन्यादिषु क्रमात् ॥९॥

मध्यभावे चतस्रोऽपि मातृवद्भावसम्मताः ।
ओं पूर्णे त्वं महावद्ये सर्वसन्दोहलक्षणे ॥१०॥

सर्वसम्पूर्णमेवात्र कुरुष्वाङिगिरसः सुते ।
ओं नन्दे त्वं नन्दिनी पुंसां त्वामत्र स्थापयाम्यहं ॥११॥

प्रासादे तिष्ठ सन्तृप्ता यावच्चन्द्रार्कतारकं ।
आयुः कामं श्रियन्नन्दे देहि वासिष्ठि देहिनां ॥१२॥

अस्मिन् रक्षा सदा कार्य्या प्रासादे यत्नतस्त्वया ।
ओं भद्रे त्वं सर्वदा भद्रं लोकानां कुरु काश्यपि ॥१३॥

आयुर्दा कामदा देवि श्रीप्रदा च सदा भव ।
ओं जयेऽत्र सर्वदा देवि श्रीदाऽऽयुर्दा सदा भव ॥१४॥

ओं जयेऽत्र सर्वदा देवि तिष्ठ त्वं स्थापितामय ।
नित्यञ्जयाय भूत्यै च स्वामिनी भव भार्गवि ॥१५॥

ओं रिक्तेऽतिरिक्तदोषघ्ने सिद्धिमुक्तिप्रदे शुभे ।
सर्वदा सर्वदेशस्थे तिष्ठास्मिन् विश्वरूपिणि ॥१६॥

गगनायतनन्ध्यात्वा तत्र तत्त्वात्रयं न्यसेत् ।
प्रायश्चित्तन्ततो हुत्वा विधिना विसृजेन्मखं ॥१७॥

इत्यादिमहापुराणे आग्नेये शिलान्यासकथनं नाम चतुर्णवतितमोऽध्यायः ।

N/A

References : N/A
Last Updated : September 16, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP