संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
मासोपवासव्रतं

अध्याय २०४ - मासोपवासव्रतं

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
व्रतं मासोपवासञ्च(१) सर्वोत्कृष्टं वदामि ते ॥१॥
कृत्वा तु वैष्णवं यज्ञं गुरोराज्ञामवाप्य च ॥१॥
कृच्छ्राद्यैः स्वबलं बुद्ध्वा कुर्यान्मासोपवासकं ॥२॥
वानप्रस्थो यतिर्वाथ नारी वा विधवा मुने ॥२॥
आश्विनस्यामले पक्षे एकादश्यामुपोषितः ॥३॥
व्रतमेतत्तु गृह्णीयाद्यावत्त्रिंशद्दिनानि तु ॥३॥
अद्यप्रभृत्यहं विष्णो यावदुत्थानकन्तव ॥४॥
अर्चये त्वामनश्नन् हि यावत्त्रिंशद्दिनानि तु ॥४॥
कार्त्तिकाश्विनयोर्विष्णोर्यावदुत्थानकन्तव ॥५॥
म्रिये यद्यन्तरालेऽहं व्रतभङ्गो न मे भवेत् ॥५॥
त्रिकालं पूजयेद्विष्णुं त्रिःस्नातो गन्धपुष्पकैः ॥६॥
विष्णोर्गीतादिकं जप्यन्ध्यानं कुर्याद्व्रती नरः ॥६॥
वृथावादम्परिहरेदर्थाकाङ्क्षां विवर्जयेत्(२) ॥७॥
नाव्रतस्थं स्पृशेत्कञ्चिद्विकर्मस्थान्न चालयेत् ॥७॥
टिप्पणी
१ व्रतं मासोपवासाख्यमिति घ.. , ज.. च
२ अन्नाकाङ्क्षां विवर्जयेदिति घ.. , ङ.. च
देवतायतने तिष्ठेद्यावत्त्रिंशद्दिनानि तु ॥८॥
द्वादश्यां पूजयित्वा तु भोजयित्वा द्विजान्व्रती ॥८॥
समाप्य दक्षिणां दत्त्वा पारणन्तु समाचरेत् ॥९॥
भुक्तिमुक्तिमवाप्नोति कल्पांश्चैव त्रयोदश ॥९॥
कारयेद्वैष्णवं यज्ञं यजेद्विप्रांस्त्रयोदश ॥१०॥
तावन्ति वस्त्रयुग्मानि भाजनान्यासनानि च ॥१०॥
छत्राणि सपवित्राणि तथोपानद्युगानि च(१) ॥११॥
योगपट्टोपवीतानि दद्याद्विप्राय तैर्मतः(२) ॥११॥
अन्यविप्राय शय्यायां हैमं विष्णुं प्रपूज्य च ॥१२॥
आत्मनश्च तथामूर्तिं वस्त्राद्यैश्च प्रपूजयेत् ॥१२॥
सर्वपापविनिर्मुक्तो विप्रो विष्णुप्रसादतः ॥१३॥
विष्णुलोकं गमिष्यामि विष्णुरेव भवाम्यहं ॥१३॥
व्रज व्रज देवबुद्धे विष्णोः स्थानमनामयं ॥१४॥
विमानेनामलस्तत्र तिष्ठेद्विष्णुस्वरूपधृक् ॥१४॥
द्विजानुक्त्वाथ(३) तां शय्यां गुरवेऽथ निवेदयेत् ॥१५॥
कुलानां शतमुद्धृत्य विष्णुलोकन्नयेद्व्रती ॥१५॥
मासोपवासी यद्देशे स देशो निर्मलो भवेत् ॥१६॥
किं पुनस्तत्कुलं सर्वं यत्र मासोपवासकृत् ॥१६॥
व्रतस्थं मूर्छितं दृष्ट्वा क्षीराज्यञ्चैव पाययेत् ॥१७॥
नैते व्रतं विनिघ्रन्ति हविर्विप्रानुमोदितं ॥१७॥
टिप्पणी
१ ततः पानयुतानि चेति ख..
२ वै नत इति घ..
३ द्विजान्नत्वाथेति ङ..
क्षीरं गुरोर्हितौषध्य आपो मूलफलानि च ॥१८
विष्णुर्महौषधं कर्ता व्रतमस्मात्समुद्धरेत् ॥१८

इत्याग्नेये महापुराणे मासोपवासव्रतं नाम चतुरधिकद्विशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP