संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
पिण्डिकालक्षणकथनम्

अध्याय ५५ - पिण्डिकालक्षणकथनम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


भगवानुवाच
अतः परं प्रवक्ष्यामि प्रतिमानान्तु पिण्डिकाम् ।
दैर्घ्येण प्रतिमातुल्या तदर्द्धेन तु विस्तृता ॥१॥

उच्छितायामतोर्द्धेन सुविस्तारार्द्धभागतः ।
तृतीयेन तु वा तुल्यं तत्त्रिभागेण मेखला ॥२॥

खातं च तत्‌प्रमाणं तु किञ्चिदुत्तरतो नतम् ।
विस्तारस्य चतुर्थेन प्रणालस्य विनिर्गमः ॥३॥

सममूलस्य विस्तारमग्ने कुर्य्यात्तदर्द्धतः ।
विस्तारस्य तृतीयेन तोयमार्गन्तु कारयेत् ॥४॥

पिण्डिकार्द्धेन वा तुल्यं दैर्घ्यमीशस्य कीर्तितम् ।
ईशं वा तुल्यदीर्घञ्च ज्ञात्वा सूत्रं प्रकल्पयेत् ॥४॥

उच्छायं पूर्ववत् कुर्य्याद्भागषोडशसङ्‌ख्यया ।
अधः षट्कं द्विभागन्तु कण्ठं कुर्यात्त्रिभागकम् ॥५॥

शेषास्त्वेकैकशः कार्याः प्रतिष्ठानिर्गमास्तथा ।
पट्टिका पिण्डिका चेयं सामान्यप्रतिमासु च ॥६॥

प्रासादद्वारमानेन प्रतिमाद्वारमुच्यते ।
गजव्यालकसंयुक्ता प्रभा स्यात् प्रतिमासु च॥७॥
पिण्डिकापि यथाशोभं कर्त्तव्या सततं हरेः ।

सर्वेषामेव देवानां विष्णूक्तं मानमुच्यते ।
देवीनामपि सर्वासं लक्ष्म्युक्तं मानमुच्यते ॥८॥

इत्यादिमहापुराणे आग्नेये पिण्डिकालक्षणं नाम इति पञ्चपञ्चाशत्तमोऽध्यायः

N/A

References : N/A
Last Updated : September 16, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP