संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण| सिद्धौषधानि अग्निपुराण महत्व ग्रन्थप्रस्तावना मत्स्यावतारवर्णनम् कूर्मावतारवर्णनम् वराहाद्यवतारवर्णनम् श्रीरामावतारवर्णनम् अयोध्याकाण्डवर्णनं आरण्यककाण्डवर्णनं किष्किन्धाकाण्डर्णनं सुन्दरकाण्डवर्णनं युद्धकाण्डवर्णनं उत्तरकाण्डवर्णनं श्रीहरिवंशवर्णनम् कुरुपाण्डवोत्पच्यादिकथनम् कुरुपाण्डवसङ्ग्रामवर्णनम् पाण्डवचरितवर्णनम् बुद्धाद्यतारकथनम् सृष्टिविषयकवर्णनम् स्वायम्भुववंशवर्णनम् कश्यपवंशवर्णनम् सर्गविषयकवर्णनम् सामान्यपूजाकथनम् स्नानविधिकथनम् पूजाविधिकथनम् वासुदेवादिमन्त्रनिरूपणम् मुद्रालक्षणकथनम् अभिषेकविधानम् सर्वतोभद्रमण्डलकथनम् मण्डलविधिः मार्जनविधानम् संस्कारकथनं पवित्रारोहणविधानम् होमादिविधिः पवित्राधिवासनादिविधिः पवित्राशेपणविधानम् सर्वदेवपवित्राशेहणविधिः देवालयनिर्म्माणफलम् भृपरिग्रहविधानम् अर्घ्यदानविधानम् शिलादिन्यासविधानम् प्रासादलक्षणकथनम् प्रासाददेवतास्थापनम् भूतशान्त्यादिकथनम् वासुदेवादिप्रातिमालक्षणविधिः पिण्डिकालक्षणकथनम् शालग्रामादिमूर्त्तिलक्षणकथनम् शालग्रामादिपूजनकथनम् चतुर्विंशतिमूर्त्तिंस्तोत्रकथनम् मत्स्यादिसक्षणवर्णनम् देवीप्रतिमालक्षणकथनम् सूर्यादिप्रतिमालक्षणम् देवीप्रतिमालक्षणम् लिङ्गलक्षणम् लिङ्गमानादिकथनम् पिण्डिकालक्षणकथनम् दिक्पालयागकथनम् कुम्भाधिवासविधिः स्नानादिविधिः अधिवासकथनम् वासुदेवप्रतिष्ठादिविधिः ध्वजारोहणं लक्ष्मीप्रतिष्ठाविधिः सुदर्शनचक्रादिप्रतिष्ठाकथनं कूपादिप्रतिष्ठाकथनं सभास्थापनकथनं साधारणप्रतिष्ठाविधानं जीर्णोद्धारविधानं यात्रोत्सवविधिकथनं स्नानविधानं अध्याय ७० -पादपारामप्रतिष्ठाकथनं अग्नि पुराण अग्नि पुराण सुदर्शनचक्रादिप्रतिष्ठाकथनम् अग्निस्थापनादिप्रतिष्ठाकथनम् अग्निस्थापनादिप्रतिष्ठाकथनम् कपिलादिपूजाविधानम् पवित्रारोहणकथनम् पवित्रारोहणविधि दमनकारोहणावेधिः समयदीक्षाविधानम् संस्कारदीक्षाकथनम् निर्वाणादीक्षाकथनम् निर्वाणदीक्षाविधानम् प्रतिष्ठाकलाशोधनोक्तिः विद्याविशोधनविधानम् शान्तिशोधनकथनम् निर्वाणदीक्षाकथनम् एकतत्त्वदीक्षाकथनम् अभिषेकादिकथनम् विविधमन्त्रादिकथनम् प्रतिष्ठाविधिकथनम् वास्तुपूजादिविधानम् शिलाविन्यासविधानम् प्रतिष्ठासामग्रीविधानम् अधिवासनविधिः शिवप्रतिष्ठाकथनम् गौरीप्रतिष्ठाकथनम् अध्याय ९९- सूर्यप्रतिष्ठाकथनं द्वारप्रतिष्ठा प्रासादप्रतिष्ठा ध्वजारोपणं जीर्णोद्धारः सामान्यप्रासादलक्षणं गृहादिवास्तुर्नामः नगरादिवास्तुः स्वायम्भुवसर्गः भुवनकोषः तीर्थमाहात्म्यम् गङ्गामाहात्म्यं प्रयागमाहात्म्यं वाराणसीमाहात्म्यम् नर्मदादिमाहात्म्यम् गयामाहात्म्यम् गयायात्राविधिः गयायात्राविधिः श्राद्धकल्पः भारतवर्षं महाद्वीपादि भुवनकोषः ज्योतिःशास्त्रं कालगणनं युद्धजयार्णवीयनानायोगाः युद्धजयार्णवीयज्योतिःशास्त्रसारः युद्धजयार्णवीयनानाचक्राणि नक्षत्रनिर्णयः नानाबलानि कोटचक्रम् अर्घकाण्डम् घातचक्रं घातचक्रादि सेवाचक्रम् नानाबलानि त्रैलोक्यविजयविद्या सङ्ग्रामविजयविद्या नक्षत्रचक्रं महामारीविद्या षट्कर्माणि षष्टिसंवत्सराः वश्यादियोगाः षट्त्रिंशत्पदकज्ञानम् मन्त्रौषधादिः कुब्जिकापूजा कुब्जिकापूजा मालिनीनानामन्त्राः अष्टाष्टकदेव्यः त्वरितापूजादिः सङ्ग्रामविजयपूजा लक्षकोटिहोमः मन्वन्तराणि वर्णेतरधर्माः गृहस्थवृत्तिः ब्रह्मचर्याश्रमधर्मः विवाहः आचारः द्रव्यशुद्धिः शावाशौचादिः स्रावाद्याशौचं असंस्कृतादिशौचं वानप्रस्थाश्रमः यतिधर्मः धर्मशास्त्रकथनं श्राद्धकल्पकथनं नवग्रहहोमः नानाधर्माः वर्णधर्मादिकथनं अयुतलक्षकोटिहोमाः महापातकादिकथनम् प्रायश्चित्तानि प्रायश्चित्तानि प्रायश्चित्तानि सर्वपापप्रायश्चित्तानि प्रायश्चित्तं प्रायश्चित्तानि व्रतपरिभाषा प्रतिपद्व्रतानि द्वितीयाव्रतानि तृतीयाव्रतानि चतुर्थीव्रतानि पञ्चमीव्रतानि सप्तमीव्रतानि षष्ठीव्रतानि सप्तमीव्रतानि जयन्त्यष्टमीव्रताणी अष्टमीव्रतानि नवमीव्रतानि दशमीव्रतानि एकादशीव्रताणी नानाद्वादशीव्रतानि श्रवणद्वादशीव्रतम् अखण्डद्वादशीव्रतं त्रयोदशी व्रतानि चतुर्दशीव्रतानि शिवरात्रिव्रतम् अशोकपूर्णिमादिव्रतं वारव्रतानि नक्षत्रव्रतानि दिवसव्रतानि मासव्रतानि नानाव्रतानि दीपदानव्रतं नवव्यूहार्चनं पुष्पाध्यायकथनं नरकस्वरूपम् मासोपवासव्रतं भीष्मपञ्चकव्रतं अगस्त्यार्घ्यदानकथनं कौमुदव्रतं व्रतदानादिसमुच्चयः दानपरिभाषाकथनं महादानानि नानादानानि मेरुदानानि पृथ्वीदानानि मन्त्रमाहात्म्यं सन्ध्याविधिः गायत्रीनिर्वाणं गायत्रीनिर्वाणं राज्यभिषेकः अभिषेकमन्त्राः सहायसम्पत्तिः अनुजीविवृत्तं दुर्गसम्पत्तिः राजधर्माः स्त्रीरक्षादिकामशास्त्रं राकजधर्मो सामाद्युपायो दण्डप्रणयनं युद्धयात्रा स्वप्नाध्यायः शकुनानि शकुनानि शकुनानि यात्रामण्डलचिन्तादिः षाड्गुण्यम् प्रात्यहिकराजकर्म रणदीक्षा श्रीस्तोत्रम् रामोक्तनीतिः राजधर्माः षाड्गुण्यम् सामादिः राजनीतिः पुरुषलक्षणम् स्त्रीलक्षणम् चामरादिलक्षणम् रत्नपरीक्षा वास्तुलक्षणम् पुष्पादिपूजाफलम् धनुर्वेदः धनुर्वेदकथनम् धनुर्वेदकथनम् धनुर्वेदकथनम् व्यवहारकथनम् व्यवहारकथनम् दिव्यानि प्रमाणानि दायविभागकथनम् सीमाविवादादिनिर्णयः वाक्पारुष्यादिप्रकरणम् ऋग्विधानम् यजुर्विधानम् सामविधानम् अथर्ववविधानम् उत्पातशान्तिः देवपूजावैश्वदेवबलिः दिक्पालादिस्नानम् विनायकस्नानम् माहेश्वरस्नानलक्षकोटिहोमादयः नीराजनाविधिः छत्रादिमन्त्रादयः विष्णुपञ्जरम् वेदशाखादिकीर्तनम् दानादिमाहात्म्यम् सूर्य्यवंशकीर्त्तनम् सोमवंशवर्णनम् यदुवंशवर्णनम् द्वादशसङ्ग्रामाः राजवंशवर्णनम् पुरुवंशवर्णनम् सिद्धौषधानि सर्वरोगहराण्यौषधानि रसादिलक्षणम् वृक्षायुर्वेदः नानारोगहराण्यौषधानि मन्त्ररूपौषधकथनम् मृतसञ्जीवनीकरसिद्धयोगः कल्पसागरः गजचिकित्सा अछश्ववाहनसारः अश्वचिकित्सा अश्वशान्तिः गजशान्तिः शान्त्यायुर्वेदः मन्त्रपरिभाषा नागलक्षणानि दष्टचिकित्सा पञ्चाह्गरुद्रविधानम् विषहृन्मन्त्रौषधम् गोनसादिचिकित्सा बालग्रहहरबालतन्त्रम् ग्रहहृन्मन्त्रादिकम् सूर्य्यार्च्चनम् नानामन्त्राः अङ्गाक्षरार्च्चनम् पञ्चाक्षरादिपूजामन्त्राः पञ्चपञ्चाशद्विष्णुनामानि नारसिंहादिमन्त्राः त्रैलोक्य मोहननम्त्राः त्रैलोक्यमोहनीलक्ष्म्यादिपूजा त्वरितापूजा त्वरितामन्त्रादिः त्वरितामूलमन्त्रादिः त्वरिताविद्या नानामन्त्राः त्वरिताज्ञानम् ग्रन्थप्रस्तावना नानामन्त्राः सकलादिमन्त्रोद्धारः गणपूजा वागीश्वरीपूजा मण्डलानि अघोरास्त्रादिशान्तिकल्पः पाशुपतशान्तिः षडङ्गान्यघोरास्त्राणि रुद्रशान्तिः अंशकादिः गौर्य्यादिपूजा देवालयमाहात्म्यम् छन्दःसारः छन्दःसारः छन्दःसारः छन्दोजातिनिरूपणम् विषमकथनम् अर्द्धसमनिरूपणम् समवृत्तनिरूपणम् ग्रन्थप्रस्तावना शिक्षानिरूपणम् काव्यादिलक्षणं नाटकनिरूपणम् शृङ्गारादिरसनिरूपणम् रीतिनिरूपणम् नृत्यादावङ्गकर्म्मनिरूपणम् अभिनयादिनिरूपणम् शब्दालङ्काराः अर्थालङ्गाराः शब्दार्थालङ्काराः काव्यगुणविवेकः काव्यदोषविवेकः एकाक्षराभिधानम् व्याकरणम् सन्धिसिद्धरूपम् सुब्विभक्तिसिद्धरूपम् स्त्रीलिङ्गशब्दसिद्धरूपम् नपुंसकशब्दसिद्धरूपम् कारकम् समासः तद्धितम् उणादिसिद्धरूपम् तिङ्विभक्तिसिद्धरूपम् कृत्सिद्धरूपम् स्वर्गपातालादिवर्गाः अव्ययवर्गानाम नानार्थवर्गा भूमिवनौषध्यादिवर्गाः नृब्रह्मक्षत्रविट्शूद्रवर्गाः ब्रह्मवर्गः क्षत्रविट्शूद्रबर्गाः सामान्यनामलिङ्गानि नित्यनैमित्तिकप्राकृतप्रलयाः नित्यनैमित्तिकप्राकृतप्रलयाः आत्यन्तिकलयगर्भोत्पत्तिनिरूपणम् नरकनिरूपणम् यमनियमाः आसनप्राणायामप्रत्याहाराः ध्यानम् धारणा समाधिः ब्रह्मज्ञानम् ब्रह्मज्ञानम् ब्रह्मज्ञानम् अद्वैतब्रह्मविज्ञानम् गीतासारः यमगीता आग्न्येयपुराणमाहात्म्यम् अध्याय २७९ - सिद्धौषधानि अग्निपुराणात त्रिदेव – ब्रह्मा, विष्णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे. Tags : agnipuranpuransanskritअग्निपुराणपुराणसंस्कृत सिद्धौषधानि Translation - भाषांतर अग्निरुवाचआयुर्वेदं प्रवक्ष्यामि सुश्रुताय यमब्रवीत् ।देवो धन्वन्तरिः सारं मृतसञ्जीवनीकरं ॥१॥सुश्रुत उवाचआयुर्वेदं मम ब्रूहि नराश्वेभरुगर्दनम् ।सिद्धयोगान् सिद्धमन्त्रान् मृतसञ्जीवनीकरान् ॥२॥धन्वन्तरिरुवाचरक्षन् बलं हि ज्वरितं लङ्घितं भोजयेद्भिषक् ।सविश्वं लाजमण्डन्तु तृड्ज्वरान्तं श्रृतं जलम् ॥३॥मुस्तपर्पटकोशीरचन्दनोदीच्यनागरैः ।षड़हे च व्यतिक्रान्ते तिक्तकं पाययेद्ध्रुवम् ॥४॥स्नेहयेत्त्यक्तदोषन्तु ततस्तञ्च विरेचयेत् ।जीर्णाः षष्टिकनीवाररक्तशालिप्रमोदकाः ॥५॥तद्विधास्ते ज्वरेष्विष्टा यवानां विकृतिस्तथा ।मुद्गा मसूराश्चणकाः कुलत्थास्च सकुष्ठकाः ॥६॥आटक्यो नारकाद्याश्च कर्क्कोटककटोल्वकम् ।पटोलं सफलं निम्बं पर्पटं दाडिमं ज्वरे ॥७॥अधोगे वमनं शस्तमूद्र्ध्वगे च विरेचनम् ।रक्तपित्ते तथा पानं षडङ्गं शुण्ठिवर्ज्जितम् ॥८॥शक्रुगोधूमलाजाश्च यवशालिमसूरकाः ।सकुष्ठचणका मुद्गा भक्ष्या गोधूमका हिताः ॥९॥साधिता घृतदुग्धाभ्यां क्षौद्रं वृषरसो मधु ।अतीसारे पुराणानां शालीनां भक्षणं हितं ॥१०॥अनभिष्यन्दि यच्चान्नं लोध्रवल्कलसंयुतम् ।मारुतं वर्ज्जयेद् यत्नः कार्य्यो गुल्मेषु सर्वथा ॥११वाट्यं क्षीरेण चाश्नीयाद्वास्तूकं घृतसाधितं ।गोधूमशालयस्तिक्ता हिता जठरिणामथ ॥१२॥गोधूमशालयो मुद्गा ब्रह्मर्क्षखदिरोऽभया ।पञ्चकोलञ्जाङ्गलाश्च निम्बधात्र्याः पटोलकाः ॥१३॥मातुलङ्गरसाजातिशुष्कमूलकसैन्धवाः ।कुष्ठिनाञ्च तता शस्तं पानार्थे खदिरोदकं ॥१४॥मसूरमुद्गौ पेयार्थे भोज्या जीर्णाश्च शालयः ।निम्बपर्पटकैः शाकैर्ज्जाङ्गलानां तथा रसः ॥१५॥विडङ्गं मरिचं मुस्तं कुष्ठं लोध्रं सुवर्च्चिका ।मनः शिला च वालेयः कुष्ठहा मूत्रपेषितः ॥१६॥अपूपकुष्ठकुल्माषयवाद्या मेहिनां हिताः ।यवान्नविकृतिर्मुद्गा कुलत्था जीर्णशालयः ॥१७॥तिक्तरुक्षाणि शाकानि तिक्तानि हरितानि च ।तैलानि तिलशिग्रुकविभीतकेङ्गुदानि च ॥१८॥मुद्गाः सयवगोधूमा धान्यं वर्षस्थितञ्च यत् ।जाङ्गलस्य रसः शस्तो भोजने राजयक्ष्मिणां ॥१९॥कौलत्थमौद्गको रास्नाशुष्कमूलकजाङ्गलैः ।पूपैर्वा विस्किरैः सिद्धैर्दधिदाड़िमसाधितैः ॥२०॥मातुलङ्गरसक्षौद्रद्राक्षाव्योषादिसंस्कृतैः ।यवगोधूमशाल्यन्नैर्भोज्येच्छ्वासकासिनं ॥२१॥दशमूलवलारास्नाकुलत्थैरुपसाधिताः ।पेयाः पूपरसाः क्काथाः श्वासहिक्कानिवारणा ॥२२॥शुष्कमूलककौलत्थमूलजाह्गलजै रसैः ।यवगोधूमशाल्यन्नं जीर्णं सोशीरमाचरेत् ॥२३॥शोथवान् सगुड़ां पथ्यां खादेद्वा गुड़नागरम् ।तक्रञ्च चित्रकञ्चोभौ ग्रहणीरोगनाशनौ ॥२४॥पुराणयवगोधूमशालयो जाङ्गलो रसः ।मुद्गामलकखर्जूरमृद्वीकावदराणि च ॥२५॥मधु सर्पिः पयः शक्र निम्बपर्पटकौ वृषम् ।तक्रारिष्टाश्च शस्यन्ते सततं वातरोगिणाम् ॥२६॥हृद्रोगिणो विरेच्यास्तु पिप्पल्यो हिक्किनां हिताः ।तक्रावलालसिन्धूनि मुक्तानि शिशिराम्भसा ॥२७॥मुक्ताः सौवर्चलाजादि मद्यं शस्तं मदात्यये ।सक्षोद्रपयसा लाक्षआं पिवेच्च क्षचवान्नरः ॥२८॥क्षयं मांसरसाहारो वह्निसंरक्षणाज्जयेत् ।शालयो भोजने रक्ता नीवारकलमादयः ॥२९ ।यवान्नविकृतिर्म्मांसं शाकं सौवर्चलं शटी ।पथ्या तथैवार्शसां यन्मण्डं तक्रञ्च वारिणा ॥३०॥मुस्ताभ्यासस्तथा लोपश्चित्रकेण हरिद्रया ।यवान्नविकृतिः शालिर्व्वास्तूकं ससुवर्च्चलम् ॥३१॥त्रपुषैर्वारुगोधूमाः क्षीरेक्षुघृतसंयुताः ।मूत्रकृच्छ्रे च शस्ताः स्युः पाने मण्डसुरादयः ॥३२॥लाजाः शक्तुस्तथा क्षौद्रं शूल्यं मांसं परूषकम् ।वार्त्ताकुलावशिखिनश्छर्द्दिघ्नाः पानकानि च ॥३३॥शाल्यन्नन्तोयपयसी केवलोष्णे श्रृतेऽपि वा ।तृष्णाघ्ने मुस्तगुड़योर्गुटिका वा मुखे धृता ॥३४॥यवान्नविकृतिः पूपं शुष्कमूलकजन्तथा ।शाकं पटोलवेत्राग्रमुरुस्तम्भविनाशनम् ॥३५॥मुद्गाढ़कमसूराणां सतिलैर्जाङ्गलै रसैः ।ससैन्धवघृतद्राक्षाशुण्ठ्यामलककोलजैः ॥३६॥यूषैः पुराणगोधूमयवशाल्यन्नमभ्यसेत् ।विसर्पी ससिताक्षौद्रमृद्वीकादाड़िमोदकम् ॥३७॥रक्तयष्टिकगोधूमयवमुद्गादिकं लघु ।काकमारी च वेत्राग्रं वास्तुकञ्च सुवर्च्चला ॥३८॥वातशोणितनाशाय तोयं शस्तं मधु ।नाशारोगेषु च हितं घृतं दुर्व्वाप्रसाधितम् ॥३९॥भृङ्गराजरसे सिद्धं तैलं धात्रीरसेऽपि वा ।नश्यं सर्वामयेष्विष्टं मूर्द्धजन्तूद्भवेषु च ॥४०॥शीततोयान्नपानञ्च तिलानां विप्र भक्षणम् ।द्विजजाढर्यकरं प्रोक्तं तथा तुष्टिकरम्परम् ॥४१॥गण्डूषं तिलतैलेन द्विजजार्ढ्यकरं परं ।विड़ङ्गचूर्णं गोमूत्रं सर्व्वंत्र कृमिनाशने ॥४२॥धात्रीफलान्यथाज्यञ्च शिरोलेपनमुत्तमम् ।शिरोरोगविनाशाय स्रिग्धमुष्णञ्च भोजनम् ॥४३॥तैलं वा वस्तमूत्रञ्च कर्णपूरणमुत्तमम् ।कर्णशूलविनाशाय सर्वशुक्तानि वा द्विज ॥४४॥गिरिमृच्चन्दनं लाक्षा मालती कलिका तथा ।संयोज्या या कृता वर्त्तिः क्षतशुक्रहरी तु सा ॥४५॥व्योषं त्रिफलया युक्तं तुच्छकञ्च तथा जलम् ।सर्वाक्षिरोगशमनं तथा चैव रसाञ्जनम् ॥४६॥आज्यभृष्टं शिलापिष्टं लोध्रकाञ्जीकसैन्धवैः ।आश्च्योतनाविनाशाय सर्वनेत्रामये हितम् ॥४७॥गिरिमृच्चन्दनैर्लेपो वरिर्नेत्रस्य शस्यते ।नेत्रामयविघातार्थं त्रिफलां शीलयेत् सदा ॥४८॥रात्रौ तु मधुसर्पिभ्यां दीर्घमायुर्ज्जिजीविषुः ।शतावरीरसे सिद्धौ वृष्यौ क्षीरघृतौ स्मृतौ ॥४९॥कलम्बिकानि माषाश्च वृष्यौ क्षीरघृतौ तथा ।आयुष्या त्रिफला ज्ञेया पूर्ववन्मधुकान्विता ॥५०॥मधुकादिरसोपेता बलीपलितनाशिनी ।वचासिद्धघृतं विप्रं भूतदोषविनाशनम् ॥५१॥कव्यं बुद्धिप्रदञ्चैव तथा सर्वार्थसाधनम् ।वलाकल्ककषायेण सिद्धमभ्यञ्जने हितम् ॥५२॥रास्नासहचरैर्वापि तैलं वातविकारिणाम् ।अनभिष्यन्दि यच्चान्नं तद्व्रणेषु प्रशस्यते ॥५३॥शक्तुपिण्डी तथैवाम्ला पाचनाय प्रशस्यते ।पक्कस्य च तथा भेदे निम्बचूर्णञ्च रोपणे ॥५४॥तथा शूच्युपचारश्च बलिकर्म विशेषतः ।सूतिका च तथा रक्षा प्राणिनान्तु सदा हिता ॥५५॥भक्षणं निम्बपत्राणां सर्पदष्टस्य भेषजम् ।तालनिम्बदलङ्केश्यं जीर्णन्तैलं यवा घृतम् ॥५६॥धूपो वृश्चिकदष्टस्य शिखिपत्रघृतेन वा ।अर्कक्षीरेण संपिष्टं लोपा वीजं पलाशजं ॥५७॥वृश्चिकार्त्तस्य कृष्णा वा शिवा च फलसंयुता ।अर्कक्षीरं लितं तैल पललञ्च गुड़ं समम् ॥५८॥पानाज्जयति दुर्बारं श्वविषं शीघ्रमेव तु ।पीत्वा मूलं त्रिवृत्तुल्यं तण्डुलीयस्य सर्पिषा ॥५९॥सर्पकीटविषाण्याशु जयत्यतिबलान्यपि ।चन्दनं पद्मकङ्कुष्ठं तलाम्बूशीरपाटलाः ॥६०॥निर्गुण्डी शारिवा सेलुर्लूताविषहरो गदः ।शिरोविरेचनं शस्तं गुड़नागरकं द्विज ॥६१॥स्नेहपाने तथा वस्तौ तैलं घृतमनुत्तमम् ।स्वेदनीयः परो वह्निः शीताम्भः स्तम्भनं परम् ॥६२॥त्रिवृद्धि रेचने श्रेष्ठा वमने मदनं तथा ।वस्तिर्विरेको वमनं तैलं सर्पिस्तथा मधु ॥६३॥वातपित्तबलाशानां क्रमेण परमौषधं ॥६४॥इत्यादिमहापुराणे आग्नेये सिद्धौषधानि नामोनाशीत्यधिकद्विशततमोऽध्यायः॥ N/A References : N/A Last Updated : September 21, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP