संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
गयामाहात्म्यम्

अध्याय ११४ - गयामाहात्म्यम्

भगवान् अग्निदेवांनी या अग्नि पुराणात चौसष्ट योगनींचे का सविस्तार वर्णन केले आहे.


अग्निरुवाच
गयामाहात्म्यमाख्यास्ये गयातीर्थोत्तमोत्तमं ॥१॥
गयासुरस्तपस्तेपे तत्तपस्तापिभिः(२) सुरैः ॥१॥
उक्तः क्षीराब्धिगो विष्णुः पालयास्मान् गयासुरात् ॥२॥
तथेत्युक्त्वा हरिर्दैत्यं वरं ब्रूहीति चाब्रवीत् ॥२॥
दैत्योऽब्रवीत्पवित्रोऽहं भवेयं सर्वतीर्थतः ॥३॥
तथेत्युक्त्वा गतो विष्णुर्दैत्यं दृष्ट्वा न वा हरिं ॥३॥
गताः शून्या मही स्वर्गे देवा ब्रह्मादयः सुराः(३) ॥४॥
- - - - -- -- - - -- - - -- - - -- - -- - -- - - - - -
टिप्पणी
१ सिद्धिमाप्नुयुरिति झ..
२ तत्तपस्तापितैरिति ग.. , घ.. , झ.. च
३ ब्रह्मादयः पुनः इति ख.. , ग.. , घ.. , ङ.. , छ.. , ज. झ.. च
- - - - -- -- - - -- - - -- - - -- - -- - -- - - - - -
गता ऊचुर्हरिं देवाः शून्या भूस्त्रिदिवं हरे ॥४॥
दैत्यस्य दर्शनादेव ब्रह्मणञ्चाब्रवीद्धरिः ॥५॥
यागार्थं दैत्यदेहं त्वं प्रार्थय त्रिदशैः सह ॥५॥
तच्छ्रुत्वा ससुरो ब्रह्मा(१) गयासुरमथाब्रवीत् ॥६॥
अतिथिः प्रार्थयामि त्वान्देहं यागाय पावनं ॥६॥
गयासुरस्तथेत्युक्त्वापतत्तस्य शिरस्यथ(२) ॥७॥
यागं चकार चलिते देहि पूर्णाहुतिं(३) विभुः ॥७॥
पुनर्ब्रह्माब्रवीद्विष्णुं पूर्णकालेऽसुरोऽचलत् ॥८॥
विष्णुर्धर्ममथाहूय प्राह देवमयीं शिलाम् ॥८॥
धारयध्वं सुराः सर्वे यस्यामुपरि सन्तु ते ॥९॥
गदाधरो मदीयाथ मूर्तिः स्थास्यति सामरैः ॥९॥
धर्मः शिलां देवमयीं(४) तच्छ्रुत्वाधारयत्परां ॥१०॥
या धर्माद्धर्मवत्याञ्च जाता धर्मव्रता सुता ॥१०॥
मरीचिर्ब्रह्मणः पुत्रस्तामुवाह तपोन्वितां(५) ॥११॥
यथा हरिः श्रिया रेमे गौर्या शम्भुस्तथा तया ॥११॥
कुशपुष्पाद्यरण्याच्च आनीयातिश्रमान्वितः(६) ॥१२॥
भुक्त्वा धर्मव्रतां प्राह पादसंवाहनं कुरु ॥१२॥
विश्रान्तस्य मुनेः पादौ तथेत्युक्त्वा प्रियाकरोत् ॥१३॥
एतस्मिन्नन्तरे ब्रह्मा मुनौ सुप्ते तथागतः(७) ॥१३॥
धर्मव्रताचिन्तयञ्च किं ब्रह्माणं समर्चये ॥१४॥
पादसंवाहनं कुर्वे ब्रह्मा पूज्यो गुरोर्गुरुः(८) ॥१४॥
- - - - -- -- - - -- - - -- - - -- - -- - -- - - - - -
टिप्पणी
१ तच्छ्रुत्वा सत्वरो ब्रह्मेति ङ..
२ शिरस्तथेति झ..
३ देहे पूर्णाहुतिमिति ख.. , छ.. , ज.. च
४ देहमयीमिति ग.. , छ.. , ज.. च
५ तपश्चितामिति झ..
६ समानीय श्रमान्वित इति ज..
७ सुप्ते समागत इति घ.. , ङ.. , ज.. , झ.. च
८ धर्मव्रतेत्यादिः, गुरोर्गुरुरित्यन्तः पाठः छ.. पुस्तके नास्ति
- - - - -- -- - - -- - - -- - - -- - -- - -- - - - - -
विचिन्त्य पूजयामास ब्रह्माणं चार्हणादिभिः ॥१५॥
मरीचिस्तामपश्यत्स(१) शशापोक्तिव्यतिक्रमात् ॥१५॥
शिला भविष्यसि क्रोधाद्धर्मव्रताब्रवीच्च तं(२) ॥१६॥
पादाभ्यङ्गं परित्यज्य त्वद्गुरुः पूजितो मया ॥१६॥
अदोषाहं यतस्त्वं हि शापं प्राप्स्यसि शङ्करात् ॥१७॥
धर्मव्रता पृथक्शापं धारयित्वाग्रिमध्यगात् ॥१७॥
तपश्चचार वर्षाणां सहस्राण्ययुतानि च ॥१८॥
ततो विष्ण्वादयो देवा वरं ब्रूहीति चाब्रुवन् ॥१८॥
धर्मव्रताब्रवीद्देवान् शापन्निर्वर्तयन्तु मे ॥१९॥

देवा ऊचुः
दत्तो मरीचिना शापो भविष्यति न चान्यथा ॥१९॥
शिला पवित्रा देवाङ्घ्रिलक्षिता त्वं(३) भविष्यसि ॥२०॥
देवव्रता देवशिला सर्वदेवादिरूपिणी ॥२०॥
सर्वदेवमयी(४) पुण्या निश्चलायारसुस्य हि ॥२१॥

देवव्रतोवाच
यदि तुष्टास्थ मे सर्वे मयि तिष्ठन्तु सर्वदा ॥२१॥
ब्रह्मा विष्णुश्च रुद्राद्या गौरीलक्ष्मीमुखाः सुराः ॥२२॥

अग्निरुवाच
देवव्रतावचः श्रुत्वा तथेत्युक्त्वा दिवङ्गताः ॥२२॥
सा धर्मणासुरस्यास्य धृता देवमयी शिला ॥२३॥
सशिलश्चलितो दैत्यः स्थिता रुद्रादयस्ततः ॥२३॥
सदेवश्चलितो दैत्यस्ततो देवैः(५) प्रसादितः ॥२४॥
क्षीराब्धिगो हरिः प्रादात्स्वमूर्तिं श्रीगदाधरं ॥२४॥
गच्छन्तु भोः स्वयं यास्यं(६) मूर्त्या वै देवगम्यया(७) ॥२५॥
- - - - -- -- - - -- - - -- - - -- - -- - -- - - - - -
टिप्पणी
१ मरीचिस्तामपश्यद्वै इति घ..
२ धर्मव्रताब्रवीद्वच इति ज..
३ पवित्रा देवानां वन्दिता त्वमिति घ..
४ सर्वतीर्थमयी इति घ.. , झ.. च
५ तदा देवैरिति ज..
६ गच्छेत्युक्त्वा स्वयं गच्छेदिति झ.. । गच्छन्तूक्त्वा स्वयं यास्ये इति ख.. , छ.. च
७ मूर्त्या देवैकगम्यया इति घ.. , ङ.. च
- - - - -- -- - - -- - - -- - - -- - -- - -- - - - - -
स्थितो गदाधरो देवो व्यक्ताव्यक्तोभयात्मकः ॥२५॥
निश्चलार्थं स्वयं देवः स्थित आदिगदाधरः ॥२६॥
गदो नामासुरो दैत्यः(१) स हतो विष्णुना पुरा ॥२६॥
तदस्थिनिर्मिता(२) चाद्या गदा या विश्वकर्मणा ॥२७॥
आद्यया गदया हेतिप्रमुखा राक्षसा हताः ॥२७॥
गदाधरेण विधिवत्(३) तस्मादादिगदाधरः(४) ॥२८॥
देवमय्यां शिलायां च(५) स्थिते चादिगदाधरे ॥२८॥
गयासुरे निश्चलेय ब्रह्मा पूर्णाहुतिं ददौ ॥२९॥
गयासुरोऽब्रवीद्देवान् किमर्थं वञ्चितो ह्यहं(६) ॥२९॥
विष्णोर्वचनमात्रेण किन्नस्यान्निश्चलोह्यहं ॥३०॥
आक्रान्तो यद्यहं देवा दातुमर्हत(७) मे वरं ॥३०॥

देवा ऊचुः
तीर्थस्य करणे यत्(८) त्वमस्माभिर्निश्चलीकृतः ॥३१॥
विष्णोः शम्भोर्ब्रह्मणश्च क्षेत्रं तव भविष्यति ॥३१॥
प्रसिद्धं सर्वतीर्थेभ्यः पित्रादेर्ब्रह्मलोकदं ॥३२॥
इत्युक्त्वा ते स्थिता देवा देव्यस्तीर्थादयः स्थिताः ॥३२॥
यागं कृत्वा ददौ ब्रह्मा ऋत्विग्भ्यो दक्षिणां तदा ॥३३॥
पञ्चक्रोशं गयाक्षेत्रं पञ्चाशत्पञ्च चार्पयेत् ॥३३॥
ग्रामान् स्वर्णगिरीन्(९) कृत्वा नदीर्दुग्धमधुश्रवाः ॥३४॥
सरोवराणि दध्याज्यैर्बहूनन्नादिपर्वतान्(१०) ॥३४॥
- - - - -- -- - - -- - - -- - - -- - -- - -- - - - - -
टिप्पणी
१ नामासुरो रौद्र इति घ.. , झ.. च
२ तदङ्गान्निर्मिता इति झ.. । तदर्था निर्मिता इति छ..
३ गदावरेण देवेनेति झ..
४ गदो नामासुर इत्यादिः, तस्मादादिगदाधर इत्यन्तः पाठो ज.. पुस्तके नास्ति
५ शिलायान्तु इति ज..
६ वाञ्छितो ह्यहमिति ख.. , छ.. च
७ दातुमर्हथेति ङ..
८ तीर्थस्य कारणायेति घ.. , झ.. च
९ ग्रामान् पुण्यगिरीनिति ङ..
१० दध्याद्यैर्बहूनन्नादिपर्वतानिति ज..
- - - - -- -- - - -- - - -- - - -- - -- - -- - - - - -
कामधेनुं कल्पतरुं स्वर्णरूप्यगृहाणि च ॥३५॥
न याचयन्तु विप्रेन्द्रा अल्पानुक्त्वा(१) ददौ प्रभुः ॥३५॥
धर्मयागे प्रलोभात्तु प्रतिगृह्य धनादिकं ॥३६॥
स्थिता यदा गयायान्ते शप्ताते ब्रह्मणा तदा ॥३६॥
विद्याविवर्जिता(२) यूयं तृष्णायुक्ता भविष्यथ ॥३७॥
दुग्धादिवर्जिता नद्यः शैलाः पाषाणरूपिणः ॥३७॥
ब्रह्माणं ब्राह्मणश्चोचुर्नष्टं शापेन शाखिलं ॥३८॥
जीवनाय प्रसादन्नः कुरु विप्रांश्च सोऽब्रवीत् ॥३८॥
तीर्थोपजीविका यूयं सचन्द्रार्कं(३) भविष्यथ ॥३९॥
ये युष्मान् पूजयिष्यन्ति गयायामागता नराः ॥३९॥
हव्यकव्यैर्धनैः श्रद्धैस्तेषां कुलशतं व्रजेत्(४) ॥४०॥
नरकात्स्वर्गलोकाय(५) स्वर्गलोकात्पराङ्गतिं ॥४०॥
गयोपि चाकरोद्यागं बह्वन्नं(६) बहुदक्षिणं ॥४१॥
गया पुरी तेन नाम्ना पाण्डवा ईजिरे हरिं ॥४१॥
- - - - -- -- - - -- - - -- - - -- - -- - -- - - - - -
टिप्पणी
१ अन्यानथेति झ.. । क्षपानुक्त्वा इति छ..
२ गन्धादिवर्जिता इति घ..
३ तीर्थोपजीवका यूयमाचन्द्रार्कमिति ख.. , ग.. , घ.. , ङ.. च
४ कुलशतं महदिति ज..
५ स्वर्गलोकं चेति घ.. , ज.. , झ.. च
६ वह्नथेमिति ख.. , छ.. च । बहुलमिति झ..
- - - - -- -- - - -- - - -- - - -- - -- - -- - - - - -

इत्याग्नेये महापुराणे गयामाहात्म्यं नाम चतुर्दशाधिकशततमोऽध्यायः

N/A

References : N/A
Last Updated : September 17, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP