संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
वास्तुपूजादिविधानम्

अध्याय ९३ - वास्तुपूजादिविधानम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


ईश्वर उवाच
ततः प्रासादमासूत्र्य वर्त्तयेकद्वास्तुमण्डपं ।
कुर्य्यात् कोष्ठचतुः षष्टि वेदास्रके समे ॥१॥

कोणेषु विन्यसेद् वंशौ रज्जवोऽष्टौ विकोणगाः ।
द्विपदाः षट्पदास्तास्तु वास्तुन्तत्रार्च्चयेद् यथा ॥२॥

आकुञ्चितकचं वास्तुमुत्तानमसुराकृति ।
स्मरेत् पूजासु कुड्यादिनिवेशे उत्तराननं ॥३॥

जानुनी कूर्परौ शक्‌थि दिशि वातहुताशयोः ।
पैत्र्यां पादपुटे रौद्र्यां शिरोऽस्य हृदयेऽञ्जलिः ॥४॥

अस्य देहे समारूढा देवताः पूजिताः शुभाः ।
अष्ठौ कोणाधिपास्तत्र कोणार्द्धेष्वष्टसु स्थिताः ॥५॥

षट्‌पदास्तु मरीच्याद्या दिक्षु पूर्वादिषु क्रमात् ।
मध्ये चतुष्पदो ब्रह्मा शेषास्तु पदिकाः स्मुताः ॥६॥

समस्तनाडीसंयोगे महामर्म्मानुजं फलं ।
त्रिशूलं स्वस्तिकं वज्रं महास्वस्तिकसम्पुटौ ॥७॥

त्रिकटुं मणिबन्धं च सुविशुद्धं पदं तता ।
इति द्वादश मर्म्माणि वास्तोर्भित्त्यादिषु त्यजेत् ॥८॥

साज्यमक्षतमीशाय पर्जन्यायाम्बुजोदकं ।
ददीताथ कजयन्ताय पताकां कुङ्रकुमोज्जवलां ॥९॥

रत्नवारि महेन्द्राय रवौ धूम्रं वितानकं ।
सत्याय घृतगोधूममाज्यभक्तं भृशाय च ॥१०॥

विमांसमन्तरीक्षाय शक्तुन्तेभ्यस्तु पूर्वतः ।
मधुक्षीराकज्यसम्बूर्णां प्रदद्याद्वह्नये श्रुचं ॥११॥

लाजान् पूर्ण सुवर्णाम्बु वितथाय निवेदयेत् ।
दद्याद् गृहक्षते क्षौद्रं यमराजे पलौदनं ॥१२॥

गन्धं गन्धर्वनाथाय जिह्वां भृह्गाय पक्षिणः ।
मृगाय पद्मपर्णानि याम्यामित्यष्टदेवता ॥१३॥

पित्रे तिलोदकं क्षीरं वृक्षजं दन्तधावनं ।
दौवारिकाय देवाय प्रदद्याद् धेनुमुद्रया ॥१४॥

सुग्रीवाय दिशेत् पूपान् पुष्पदन्ताय दर्ब्भकं ।
रक्तं प्रचेतसे पद्ममसुराय सुरासवं ॥१५॥

घृतं गुडौदनं शेषे रोगाय घृतमण्डकान् ।
लाजान् वा पश्चिमाशायां देवाष्टकमितीरितं ॥१६॥

मारुताय ध्वजं पीतं नागाय नागकेशरं ।
मुख्ये भक्ष्याणि भल्लाटे मुद्‌गसूपं सुसंस्कृतं ॥१७॥

सोमाय पायसं साज्यं शालूकमूषये दिशेत् ।
लोपीमदितये दित्यै पुरीमित्युत्तराष्टकं ॥१८॥

मोदकान् ब्रह्मणः प्राच्यां षट्‌पदाय मरीचये ।
सवित्रे रक्तपुष्पाणि वह्न्यधः कोणकोष्ठके ॥१९॥

तदधः कोष्ठके दद्यात् सावित्र्यै च कुशोदकं ।
दक्षिणे चन्दनं रक्तं षट्पदायविवस्वते ॥२०॥

हरिद्रौनमिन्द्राय रक्षोधः कोणकोष्ठके ।
इन्द्रजयाय मिश्रान्नमिन्द्राधस्तान्निवेदयेत् ॥२१॥

वारुण्यां षट्‌पदासीने मित्रे सगुडमोदनं ।
रुद्राय घृतसिद्धान्नं वायुकोणाधरे पदे ॥२२॥

तदधो रुद्रदासाय मासं मार्गमथोत्तरे ।
ददीत माषनैवेद्यं षट्‌पदस्थे धराधरे ॥२३॥

आपाय शिवकोणाधः तद्वत्साय च तत्‌स्थले ।
क्रमाद्दद्याद्दधिक्षार पूजयित्वा विधानतः ॥२४॥

चतुष्पदे निविष्टाय ब्रह्मणे मध्यदेशतः ।
पञ्चगव्याक्षतोपेतञ्चरुं साज्यं निवेदयेत् ॥२५॥

ईशादिवायुपर्य्यन्तकोणेष्वथ यथाक्रमं ।
वास्तुवाह्ये चरक्याद्याश्चतस्रः पूजयेद् यथा ॥२६॥

चरक्यै सघृतं मांसं विदार्य्यै दधिपङ्कजे ।
पूतनायै पलं पित्तं रुधिरं च निवेदयेत् ॥२७॥

अस्थीनि पापराक्षस्यै रक्तपित्तपलानि च ।
ततोमाषौदनं प्राच्यां स्कन्दाय विनिवेदयेत् ॥२८॥

अर्य्यम्णे दक्षिणाशायां पूपान् कृसरया युतान् ।
जम्भकाय च वारुण्यामामिपं रुधिरान्वितं ॥२९॥

उदीच्यां पिलिपिञ्जाय रक्तान्नं कुसुमानि च ।
यजेद्वा सकलं वास्तुं कुशदध्यक्षतैर्जलैः ॥३०॥

गृहे च नगरादौ च एकाशीतिपदैर्यजेत् ।
त्रिपदा रज्जवः कार्य्याः षट्‌पदाश्च विकोणके ॥३१॥

ईशाद्याः पादिकस्तस्मिन्नागाद्याश्च द्विकोष्ठगाः ।
षट्‌पदस्था मरीच्याद्या ब्रह्मा नवपदः स्मृतः ॥३२॥

नगरग्रामखेटादौ वास्तुः शतपदोऽपि वा ।
वंशद्वयं कोणगतं दुर्जरयं दुर्द्धरं सदा ॥३३॥

यथा देवालये न्यासस्तथा शतपदे हितः ।
ग्रहाः स्कन्दादयस्तत्र विज्ञेयाश्चैव षट्‌पदाः ॥३४॥
चरक्याद्या भूतपदा रज्जुवंशादि पूर्ववत् ।
देशसंस्थापने वास्तु चतुस्त्रिशच्छतं भवेत् ॥३५॥

चतुः षष्टिपदो ब्रह्मा मरीच्याद्याश्च देवताः ।
चतुः पञ्चाशत्पदिका आपाद्यष्टौ रसाग्निभिः ॥३६॥

ईशानाद्या नवपदाः स्कन्दाद्याः शक्तिकाः स्मृताः ।
चरक्याद्यास्तद्वदेव रज्जुवंशादिपूर्ववत् ॥३७॥

ज्ञेयो वंळशसहस्रैस्तु वास्तुमण्डलगः पदैः
न्यासो नवगुणस्तत्र कर्त्तव्यो देशवास्तुवत् ॥३८॥

पञ्चविंशत्‌पदो वास्तुर्वैतालाख्यश्चितौ स्मृतः ।
अन्यो नवपदो वास्तुः षोडशाङ्‌घ्निस्तथापरः ॥३९॥

षडस्रत्र्यस्रवृत्तादेर्म्मध्ये स्याच्चतुरस्रकं ।
खाते वास्तोः समं पृष्ठे न्यासे ब्रह्मशिलात्मके ॥४०॥

शावाकस्य निवेशे च मूर्त्तिसंस्थापने तथा ।
पायसेन तुं नैवेद्यं सर्वेषां वा प्रदापयेत् ॥४१॥

उत्तानुक्ते तु वै वास्तुः पञ्चहस्तप्रमाणतः ।
गृहप्रासादमानेन वास्तुः श्रेष्ठस्तु सर्वदा ॥४२॥

इत्यादिमहापुराणे आग्नेये वास्तुपूजाकथनं नाम त्रिनवतितमोऽध्यायः ।

N/A

References : N/A
Last Updated : September 16, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.