संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
यतिधर्मः

अध्याय १६१ - यतिधर्मः

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


पुष्कर उवाच
यतिर्धर्मं प्रवक्ष्यामि ज्ञानमोक्षादिदर्शकं ॥१॥
चतुर्धमायुषो भागं प्राप्य सङ्गात्परिवर्जयेत्(४) ॥१॥
यदह्नि विरजेद्धीरस्तदह्नि(५) च परिव्रजेत् ॥२॥
प्रजापत्यां निरूप्येष्टिं सर्वदेवसदक्षिणां ॥२॥
आत्मन्यग्नीन् समारोप्य प्रव्रजेद्ब्राह्मणो गृहात् ॥३॥

टिप्पणी

एक एव चरेन्नित्यं ग्रासमन्नाथमाश्रयेत् ॥३॥
उपेक्षकोऽसिञ्चयिको मुनिर्ज्ञानसमन्वितः ॥४॥
कपालं वृक्षमूलञ्च(१) कुचेलमसहायाता ॥४॥
समता चैव सर्वस्मिन्नेतन्मुक्तस्य(२) लक्षणं ॥५॥
नाभिनन्देन मरणं नाभिनन्देत जीवनं(३) ॥५॥
कालमेव प्रतीक्षेत निदेशं भृतको यथा ॥६॥
दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिवेत् ॥६॥
सत्यपूतां वदेद्वाचं मनःपूतं समाचरेत् ॥७॥
अलावुदारुपत्राणि मृण्मयं वैष्णवं यतेः ॥७॥
विधूमे न्यस्तमुषले व्यङ्गारे भुक्तवज्जने ॥८॥
वृत्ते शरावसम्पाते भिक्षां नित्यं यतिश्चरेत् ॥८॥
मधूकरमसङ्क्लिप्तं प्राक्प्रणीतमयाचितं ॥९॥
तात्कालिकञ्चोपपन्नं भैक्षं पञ्चविधं स्मृतं ॥९॥
पाणिपात्री भवेद्वापि पात्रे पात्रात्समाचरेत् ॥१०॥
अवेक्षेत गतिं नॄणां कर्मदोषसमुद्भवां ॥१०॥
शुद्धभावश्चरेद्भर्मं यत्र तत्राश्रमे रतः ।॥११॥
समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणं ॥११॥
फलं कतकवृक्षस्य यद्यप्यम्बुप्रसादकं ॥१२॥
न नामग्रहणादेव तस्य वारि प्रसीदति ॥१२॥

टिप्पणी

अजिह्मः पण्डकः पङ्गुरन्धो बधिर एव च ॥१३॥
सद्भिश्च मुच्यते मद्भिरज्ञानात्संसृतो द्विजः ॥१३॥
अह्नि रात्र्याञ्च यान् जन्तून् हिनस्त्यज्ञानतो यतिः ॥१४॥
तेषां स्नात्वा विशुद्ध्यर्थं प्राणायामान् षडाचरेत्(१) ॥१४॥
अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनं ॥१५॥
चर्मावनद्धं दुर्गन्धं पूर्णं मूत्रपुरीषयोः ॥१५॥
जराशोकसमाविष्टं रोगायतनमातुरं ॥१६॥
रजस्वलमनित्यञ्च भूतावासमिमन्त्यजेत् ॥१६॥
धृतिः क्षमा दमोऽस्तेयं(२) शौचमिन्द्रियनिग्रहः ॥१७॥
ह्रीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणं ॥१७॥
चतुर्विधं भैक्षवस्तु कुटीरकवहूदके ।१८॥
हंसः परमहंसश्च यो यः पश्चात्स उत्तमः ॥१८॥
एकदण्डी त्रिदण्डी वा(३) योगी मुच्यते बन्धनात् ॥१९॥
अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ ॥१९॥
यमाः पञ्चाथ नियमाः शौचं सन्तोषणन्तपः ॥२०॥
स्वाध्यायेश्वरपूजा च पद्मकाद्यासनं यतेः(४) ॥२०॥
प्राणायामस्तु द्विविधः स गर्भोऽगर्भ एव च ॥२१॥
जपध्यानयुतो गर्भो विपरीतस्त्वगर्भकः ॥२१॥
प्रत्येकं त्रिविधं सोपि पूरकुम्भकरेचकैः ॥२२॥
पूरणात्पूरको वायोर्निश्चलत्वाच्च कुम्भकः ॥२२॥

टिप्पणी

रेचनाद्रेचकः प्रोक्तो मात्राभेदेन च त्रिधा ॥२३॥
द्वादशात्तु चतुर्विंशः षट्त्रिंशन्मात्रिकोऽपरः ॥२३॥
तालो लघ्वक्षरो मात्रा प्रणवादि चरेच्छनैः ॥२४॥
प्रत्याहारो जापकानां ध्यानमीश्वरचिन्तनं ॥२४॥
मनोधृतिर्धारणा स्यात्समाधिर्ब्रह्मणि स्थितिः ॥२५॥
अयमात्मा परं ब्रह्म सत्यं ज्ञानमनन्तकं ॥२५
विज्ञानमानन्दं ब्रह्म तत्त्वमस्य.अहमस्मि तत् ॥२६॥
परं ब्रह्म ज्योतिरात्मा वासुदेवो विमुक्त ओं ॥२६॥
देहेन्द्रियमनोबुद्धिप्राणाहङ्कारवर्जितं ॥२७॥
जाग्रत्स्वप्नसुसुप्त्यादिमुक्तं(१) ब्रह्म तुरोयकं ॥२७॥
नित्यशुद्धबुद्धयुक्तसत्यमानन्दमद्वयं(२) ॥२८॥
अहं ब्रह्म परं ज्योतिरक्षरं सर्वगं हरिः ॥२८॥
सोऽसावादित्यपुरुषः सोऽसावहमखण्ड ओं ॥९॥
सर्वारम्भपरित्यागी समदुःखसुखं क्षमी ॥२९॥
भावशुद्धश्च ब्रह्माण्डं भित्त्वा ब्रह्म भवेन्नरः ॥३०॥
आषढ्यां पौर्णमास्याञ्च चातुर्मास्यं व्रतञ्चरेत् ॥३०॥
ततो ज्रजेत्नवम्यादौ ह्यृतुसन्धिषु वापयेत् ॥३१॥
प्रायश्चित्तं यतीनाञ्च ध्यानं वायुयमस्तथा ॥३१॥

टिप्पणी

इत्याग्नेये महापुराणे यतिर्धर्मा नामैकषष्ट्यधिकशततमोऽध्यायः ॥

N/A


References : N/A
Last Updated : September 18, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.