संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
शालग्रामादिपूजनकथनम्

अध्याय ४७ - शालग्रामादिपूजनकथनम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


भगवानुवाच
शालग्रामादिचक्राङ्कपूजाः सिद्ध्यैवदामि ते ।
त्रिविधास्याद्धरेः पूजा काम्याकाम्योभयात्मिका ॥१॥

मीनादीनान्त पञ्चानां काम्याथो वोभयात्मिका
वराहस्प नृसिंहस्य वामनस्य चमुक्तये ॥२॥

चक्रादीनां त्रयाणान्तु शालग्रामार्च्चनं श्रृणु ।
उत्तमा निष्फला पूजा कनिष्ठा सफलार्चना ॥३॥

मध्यमा मूर्त्तिपूजा स्याच्चक्राव्जे चतुरस्रके ।
प्रणवं हृदि विन्यस्य षडङ्गङ्करदेहयोः ॥४॥

कृतमुद्रात्रयश्चक्राद् बहिः पूर्वे गुरुं यजेत् ।
आप्ये गणं वायवे च धातारं नैर्ऋते यजेत् ॥५॥

विधातारञ्च कर्त्तारं हर्त्तारं दक्षसौम्ययोः ।
विष्वकसेनं यजेदीशे आग्नेये क्षेत्रपालकम् ॥६॥

ऋगादिवेदान् प्रागादौ आधारानन्तकं भुवम् ।
पीठं पद्मं चार्क वन्द्रवह्व्याख्यं मण्डलत्रयम् ॥७॥

आसनं द्वादशार्णेन तत्र स्थाप्य शिलां यजेत् ।
व्यस्तेन च समस्तेन स्वबीजेन यजेत् क्रमात् ॥८॥

पूर्वादावथ वेदाद्यैर्गायत्रीभ्यां जितादिना ।
प्रणवेनार्च्चयेत् पञ्चान्मुद्रास्तिस्रः प्रदर्शयेत् ॥९॥

विष्वक्‌सेनस्य चक्रस्य क्षेत्रपालस्य दर्शयेत् ।
शालग्रामस्य प्रथमा पूजाथो निष्फलोच्यते ॥१०॥

पूर्ववत् षोडशारञ्च सपद्मं मण्डलं लिखेत् ।
शङ्खचक्रगदाखड्‌गैर्गुर्वाद्यं पूर्वंवद्यजेत् ॥११॥

पूर्वे सौम्ये धनुर्बाणान् वेदाद्यैरासनं ददेत् ।
शिलां न्यसेद् द्वादशार्णैस्तृतीयं पूजनं श्रृणु ॥१२॥

अष्टारमब्जं विलिखेत् गुर्वाद्यं पूर्ववद्यजेत् ।
अष्टर्णेनासनं दत्त्वा तेनैव च शिलां न्यसेत् ॥१३॥

पूजयेद्दशधा तेन गायत्रीभ्यां जितं तथा ॥१४॥

इत्यादिमहापुराणे आग्नेये शालग्रामादिपूजाकथनं नाम सप्तचत्वारिंशोऽध्यायः ।

N/A

References : N/A
Last Updated : September 15, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP