संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
मार्जनविधानम्

अध्याय ३१ - मार्जनविधानम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
रक्षां स्वस्य परेषाञ्च वक्ष्ये तां मार्जनाह्वयाम् ।
यया विमुच्यते दुः खैः सुखञ्च प्राप्नुयान्रः ॥१॥

ओ नमः परमार्थय पुरुषाय महात्मने ।
अरूपबहुरूपाय व्यापिने परमात्मने ॥२॥

निष्कल्मषाय शुद्धाय ध्यानयोगरताय च ।
नमस्कृत्य प्रवक्ष्यामि यत् तत्सिध्यतु मे वचः ॥३॥

वराहय नृसिंहाय वामनाय महामुने ।
नमस्कृत्य प्रक्ष्यामि यत्तत्सिध्यतु मे वचः ॥४॥

त्रिविक्रमाय रामाय वैकुष्ठाय नराय च ।
नमस्कृत्य प्रवक्ष्यामि यत्तत् सिध्यतु मे वचः ॥५॥

वराह नरसिंहेश वामनेश त्रिविक्रम ।
हयग्रीवेश सर्वेश हृषीकेश हरासुभम् ॥६॥

अपराजितचक्राद्यैश्चतुर्भिः परमायुधैः ।
अखण्डितानुभावैस्त्वं सर्वदुष्टहरो भव ॥७॥

हरामुकस्य हुरितं सर्वञ्च सुशलं कुरु ।
मृत्युबन्धार्त्तिभयदं दुरितस्य च यत् फलम् ॥८॥

पराभिध्यानसहितैः प्रयुक्तञ्चाभिचारकाम् ।
गदस्पर्शमहारोगप्रयोगं जरया जर ॥९॥

ओं नमो वासुदेवाय नमः कृष्णाय खङ्गिने ।
नमः पुष्करनेत्राय केशवायादिचक्रिणे ॥१०॥

नमः कमलकिञ्चल्कपीतनिर्म्मलवाससे ।
महाहररिपुस्कन्धसृष्टचक्राय चक्रिणे ॥११॥

दंष्ट्रोद्‌धृतक्षितिभृते त्रयीमूर्त्तिमते नमः ।
महायज्ञवराहाय शेषभोगाङ्कशायिने ॥१२॥

तप्तहाटककेशाग्नज्वलत्पावकलोचन ।
वज्राधिकनखस्पर्श दिव्यसिंह नमोस्तु ते ॥१३॥

काश्यपायातिह्रस्वाय ऋग्यजुः सामभूषित ।
तुभ्यं धामनरूपायाक्रमते गां नमो नमः ॥१४॥

वराहाशेषदुष्टानि सर्वपापफलानि वै ।
मर्द्द मर्द्द महादंष्ट्र मर्द मर्द च यत्फलम् ॥१५॥

नरसिंह करालास्य दन्तप्रान्तानलोज्जवल ।
भञ्ज भञ्च निनादेन दुष्टान्यस्यातिंनाशन ॥१६॥

ऋग्यजुः सामगर्भाभिर्वाग्भिर्वामनरूपधृक् ।
प्रशमं सर्वदुः खानि नयत्त्वस्य जनार्द्दनः ॥१७॥

ऐकाहिकं द्व्याहिकञ्च तथा त्रिदिवसं ज्वरम् ।
चातुर्थकन्तथात्युग्रन्तथैव सततज्वरम् ॥१८॥

दोषोत्थं सन्निपातोत्थं तथैवागन्तुकं ज्वरम् ।
शमं नयाशु गोविन्द च्छिन्धि च्छिन्ध्यस्य वेदनाम् ॥१९॥

नेत्रदुः खं शिरोदुः खं दुःख ञ्चोदरसम्भवम् ।
अन्तः श्वासमतिश्वासं परितापं सवेपथुम् ॥२०॥

गुदघ्राणाङ्‌घ्रिरोगांश्च कुष्ठरोगांस्तथा क्षयम् ।
कामलादींस्तथा रोगान् प्रमेहांश्चातिदारुणान् ॥२१॥

भगन्दरातिसारांश्च मुखरोगाँश्च वल्गुलीम् ।
अश्मरीं मूत्रकृच्छ्रांश्च रोगानन्यांश्च दारुणान् ॥२२॥

ये वातप्रभवा रोगा ये च पित्तसमुद्भवाः ।
कफोद्भवाश्च ये केचित् ये चान्ये सान्निपातिकाः ॥२३॥

आगन्तुकाश्च ये रोगा लूता विस्फोटकादयः ।
ते सर्वे प्रशमं यान्तु वासुदेवापमार्जिताः ॥२४॥

विलयं यान्तु ते सर्वे विष्णोरुच्चारणेन च ।
क्षयं गच्छन्तु चाशेपास्ते चत्राभिहता हरेः ॥२५॥

अच्युतानन्तगोविन्दनामोच्चारणभीषिताः ।
नश्यन्ति सकला होगाः सत्यं स्त्यं वदाम्यहम् ॥२६॥

स्थावरं जछङ्गमं वापि कृत्रिम् चापि यद्विषम् ।
दन्तोद्भवं नखभवमाकशप्रभवं विषम् ॥२७॥

लूतादिप्रभवं यच्च विषमन्यत्तु दुः खदम् ।
शमं नयतु तत् सर्वं कीर्त्तितोस्य जनार्द्दनः ॥२८॥

ग्रहान् प्रेतग्रहांश्चापि तथा वै डाकिनीग्रहान् ।
वेतालांश्च पिशाचांश्च गन्धर्वान् यक्षासान् ॥२९॥

शकुनीपूतनाद्याश्च तथा वैनायकान् ग्रहन् ।
मुखमण्डीं तथा क्रूरां रेवतीं वृद्धरेवतीम् ॥३०॥

वृद्धकाख्यान् ग्रहां श्चोग्रांस्तथा मातृग्रहानपि ।
बालस्य विष्णोश्चरितं हम्तु बालग्रहानिमान् ॥३१॥

वृद्दाश्च ये ग्रहाः केचिद्ये च बालग्रहाः क्कचित् ।
नरसिंहस्य ते हृष्ट्या दग्धा ये चापि यौवने ॥३२॥

सदा करालवदनो नरसिंहो महाबलः ।
ग्रहानशेषान्निःशेषान् करोतु जगतो हितः ॥३३॥

नरसिंह महासिंह ज्वालामालोज्ज्वलानन ।
ग्रहानशेषान् सर्वेश खाद खादाग्निलोचन ॥३४॥

ये रोगा ये महोत्पाता यद्विषं ये महाग्रहाः ।
यानि च क्रूरभूतानि ग्रहपीडाश्च दारुणाः ॥३५॥

शस्त्रकतेषु ये दोषा ज्वालागर्द्दभकादयः ।
तानि सर्वाणि सर्वात्मा परमात्मा जनार्द्दनः ॥३६॥

किञ्चिद्रूपं समास्थाय वासुदेवास्य नाशय ॥३७॥

क्षिप्त्वा सूदर्शनञ्चक्रं ज्वालामालातिभीषणम् ।
सर्वदुष्टोपशमनं सुरु देववराच्युत् ॥३८॥

सुदर्शन महाज्वाल च्छिन्धि च्छिन्धि महारव ।
सर्व्वदुष्टानि सक्षांसि क्षयं यान्तु विभीषण ॥३९॥

प्राच्यां प्रतीच्यां च दिशि दक्षिणोत्तरतस्तथा ।
रक्षाङ्करोत् सर्वात्मा नरसिंहः सुगर्ज्जितः ॥४०॥

दिवि भुव्यन्तरीक्षे च पृष्ठतः पार्श्वतोग्रतः ।
रक्षाङ्करोत् भगवान् बहुरूपी जनार्द्दनः ॥४१॥

यथा विष्णुर्ज्जगत्सर्वं सदेवासुरमानुषम् ।
तेन सत्येन दुष्टानि सममस्य ब्रजन्तु वै ॥४२॥

यथा विष्णौ स्मृते सद्यः सङ्क्षयं यान्ति पातकाः ।
सत्येन तेन सकलं दुष्टमस्य प्रशाम्यतु ॥४३॥

षरमात्मा यथा विष्णुर्वेदान्तेषु च गीयते ।
तेन सत्येन सकलं दुष्टमस्य प्रशाम्यतु ॥४४॥

यथा यक्षेश्वरो विष्णुर्द्देवेष्वपि हि गीयते ।
सत्येन तेन सकल यन्मयोक्तं यथास्तु तत् ॥४५॥

शान्तिरस्तु शिवञ्चास्तु दुष्टमस्य प्रशाम्यतु ।
वासुदेवशरीरोत्थैः कुशैर्न्निर्म्मथितं मया ॥४६॥

अपमार्जनकं शस्त्रं सर्वरोगादिवारणम् ।
अहं हरिः कुशो विष्णुर्हता रोगा मया तव ॥४७॥

इत्यादिमहापुराणे आग्नेये कुशापमार्जनं नाम एकत्रिंशोऽध्यायः ।

N/A


References : N/A
Last Updated : September 15, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.