संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
प्रायश्चित्तं

अध्याय १७३ - प्रायश्चित्तं

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
प्रायश्चित्तं ब्रह्मणोक्तं वक्ष्ये पापोपशान्तिदं ॥१॥
स्यात्प्राणवियोगफलो व्यापारो हननं स्मृतं ॥१॥
रागाद्द्वेषात्प्रमादाच्च स्वतः परत एव वा ॥२॥
ब्राह्मणं घातयेद्यस्तु स भवेद्ब्रह्मघातकः ॥२॥
बहूनामेककार्याणां सर्वेषां शस्त्रधारिणां ॥३॥
यद्येको घातकस्तत्र सर्वे ते घातकाः स्मृताः ॥३॥
आक्रोशितस्ताडितो वा धनैव्वा परिपीडितः ॥४॥
टिप्पणी
१ ततः कर्माणीति ख.. , ग.. , घ.. , छ.. च
यमुद्दिश्य त्यजेत्प्राणांस्तमाहुर्ब्रह्मघातकं ॥४॥
औषधाद्युपकारे तु न पापं स्यात्कृते मृते ॥५॥
पुत्रं शिष्यन्तथा भार्यां शासते न मृते ह्यघं ॥५॥
देशं कालञ्च यः शक्तिं पापञ्चावेक्ष्य यत्नतः ॥६॥
प्रायश्चित्तं प्रकल्प्यं स्याद्यत्र चोक्ता न निष्कृतिः(१) ॥६॥
गवार्थे ब्राह्मणार्थे वा सद्यः प्राणान् परित्यजेत् ॥७॥
प्रास्येदात्मानमग्नौ वा मुच्यते ब्रह्महत्यया ॥७॥
शिरःकपाली ध्वजवान् भैक्षाशी कर्म वेदयन् ॥८॥
ब्रह्महा द्वादशाब्दानि मितभुक्शुद्धिमाप्नुयात् ॥८॥
षड्भिर्वर्षैः शुद्धचारी ब्रह्महा पूयते नरः ॥९॥
विहितं यदकामा मां कामात्तु द्विगुणं स्मृतं ॥९॥
प्रायश्चित्तं प्रवृत्तस्य वधे स्यात्तु(२) त्रिवार्षिकं ।१०॥
ब्रह्मघ्नि क्षत्रे द्विगुणं विट्च्छूद्रे द्विगुणं त्रिधा ॥१०॥
अन्यत्र विप्रे सकलं पादोनं क्षत्रिये मतं ।११॥
वैश्येऽर्धपादं क्षत्रे स्याद्वृद्धस्त्रीबालरोगिषु ॥११॥
तुरीयो ब्रह्महत्यायाः क्षत्रियस्य बधे स्मृतं ।१२॥
वैश्येऽष्टमांशो वृत्तस्थे शूद्रे ज्ञेयस्तु षोडशः ॥१२॥
अप्रदुष्टां स्त्रियं हत्वा शूद्रहत्याव्रतं चरेत् ।१३॥
पञ्चगव्यं पिवेद्गोघ्नो मासमासीत संयतः ॥१३॥
गोष्ठे शयो गोऽनुगामी गोप्रदानेन शुद्ध्यति ।१४॥
कृच्छ्रञ्चैवातिकृच्छ्रं वा पादह्रासो नृपादिषु ॥१४॥
अतिवृद्धामतिकृशामतिबालाञ्च रोगिणीं ।१५॥
टिप्पणी
१ न संस्कृतिरिति छ..
२ बधेऽस्य तु इति छ..
हत्वा पूर्वविधानेन चरेदर्धव्रतं द्विजः ॥१५॥
ब्राह्मणान् भोजयेच्छक्त्या दद्याद्धेमतिलदिकं ।१६॥
मुष्टिचपेटकीलेन तथा शृङ्गादिमोटने ॥१६॥
लगुडादिप्रहारेण गोवधं तत्र निर्दिशेत् ।१७॥
दमेन दामने चैव शकटादौ च योजने ॥१७॥
स्तम्भशृङ्खलपाशैर्वा मृते पादोनमाचरेत् ।१८॥
काष्ठे शान्तपनं कुर्यात्प्राजापत्यन्तु लोष्ठके ॥१८॥
तप्तकृच्छ्रन्तु पाषाणे शस्त्रे चाप्यतिकृच्छ्रकं ।१९॥
मार्जारगोधानकुलमण्डूकश्वपतत्रिणः ॥१९॥
हत्वा त्र्यहं पिवेत्क्षीरं कृच्छ्रं चान्द्रायणं चरेत् ॥॥
व्रतं रहस्ये रहसि प्रकाशेऽपि प्रकाशकं ॥२०॥
प्राणायामशतं कार्यं सर्वपापापनुत्तये ॥१॥
पानकं द्राक्षमधुकं खार्जरन्तालमैक्षवं ॥२१॥
मध्वीकं टङ्कमाध्वीकं मैरेयं(?) नारिकेलजं ॥२॥
न मद्यान्यपि मद्यानि पैष्टी मुख्या सुरा स्मृता ॥२२॥
त्रैवर्णस्य निषिद्धानि पीत्वा तप्त्वाप्यपः शुचिः ॥३॥
कणान् वा भक्षयेदब्दं पिण्याकं वा सकृन्निशि ॥२३॥
सुरापाणापनुत्यर्थं बालवामा जटी ध्वजी ॥४॥
अज्ञानात्प्राश्य विण्मूत्रं सुरासंस्पृष्टमेव च ॥२४॥
पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः ॥५॥
मद्यमाण्डस्थिता आपः पीत्वा सप्तदिनं व्रती ॥२५॥
चाण्डालस्य तु पानीयं पीत्वा स्यात्षड्दिनं व्रती ॥६॥
चण्डालकूपभाण्डेषु पीत्वा शान्तपनं चरेत् ॥२६॥
पञ्चगव्यं त्रिरान्ते पीत्वा चान्त्यजलं द्विजः ॥७॥
मत्स्यकण्टकशम्बूकशङ्खशुक्तिकपर्दकान् ॥२७॥
पीत्वा नवोदकं चैव पञ्चगव्येन शुद्ध्यति ॥८॥
शवकूपोदकं पीत्वा त्रिरात्रेण विशुद्ध्यति ॥२८॥
अन्त्यावसायिनामन्नं भुक्त्वा चान्द्रायणं चरेत् ॥९॥
आपत्काले शूद्रगृहे मनस्तापेन शुद्ध्यति ॥२९॥
शूद्रभाजनभुक्विप्रः पञ्चगव्यादुपोषितः ॥३०॥
कन्दुपक्वं स्नेहपक्वं स्नेहं च दधिशक्तवः ॥३०॥
शूद्रादनिन्द्यान्येतानि गुडक्षीररसादिकं ॥३१॥
अस्नातभुक्चोपवासी दिनान्ते तु जपाच्छुचिः ॥३१॥
मूत्रोच्चार्यशुचिर्भुक्त्वा त्रिरात्रेण विशुद्ध्यति ॥३२॥
केशकीटावपन्नं च पादस्पृष्टञ्च कामतः ॥३२॥
भ्रूणघ्नावेक्षित्तं चैव सस्पृष्टं वाप्युदक्यया ॥३३॥
काकाद्यैरवलीढं च शुनासंस्पृष्टमेव च ॥३३॥
गवाद्यैरन्नमाघ्रातं भुक्त्वा त्र्यहमुपावसेत् ॥३४॥
रेतोविण्मूत्रभक्षी तु प्राजापत्यं समाचरेत् ॥३४॥
चान्द्रायण नवश्राद्धे पराको मासिके मतः ॥३५॥
पक्षत्रयेऽतिकृच्छ्रं स्यात्षण्मासे कृच्छ्रमेव च ॥३५॥
आब्दिके पादकृच्छ्रं स्यादेकाहः पुनराव्दिके ॥३६॥
पूर्वेद्युर्वार्षिकं श्राद्धं परेद्युः पुनराव्दिकं ॥३६॥
निषिद्धभक्षणे भुक्ते प्रायश्चित्तमुपोषणं ॥३७॥
भूस्तृणं लशुनं भुक्त्वा(१) शिशुकं कृच्छ्रमाचरेत्(२) ॥३७॥
टिप्पणी
१ लशुनं गृञ्जनं भुक्त्वेति ङ..
२ शिशुकृच्छ्रं समाचरेदिति ख..
अभोज्यानान्तु भुक्त्वान्नं स्त्रीशूद्रोच्छिष्टमेव च ॥३८॥
जग्ध्वा मांसमभक्ष्यञ्च सप्तरात्रं पयः पिवेत् ॥३८॥
मधु मांसञ्च योऽश्नीयाच्छावं सूतकमेव वा ॥३९॥
प्राजापत्यं चरेत्कृच्छ्रं ब्रह्मचारी यतिर्व्रती ॥३९॥
अन्ययेन परस्वापहरणं स्तेयमुच्यते ॥४०॥
मुसलेन हतो राज्ञा स्वर्णस्तेयी विशुद्ध्यति ॥४०॥
अधःशायी जटाधारी पर्णमूलफलाशनः ॥४१॥
एककालं समश्नानो द्वादशाब्दे विशुद्ध्यति ॥४१॥
रुक्मस्तेयी सुरापश्च ब्रह्महा गुरुतल्पगः ॥४२॥
स्तेयं कृत्वा सुरां पीत्वा कृच्छ्रञ्चाब्दं चरेन्नरः ॥४२॥
मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च ॥४३॥
अयस्कांस्योपलानाञ्च द्वादशाहं कणान्नभुक् ॥४३॥
मनुष्याणान्तु हरणे स्त्रीणां क्षेत्रगृहस्य च ॥४४॥
वापीकूपतडागानां शुद्धिश्चान्द्रायणं स्मृतं ॥४४॥
भक्ष्यभोज्यापहरणे यानशय्यासनस्य च ॥४५॥
पुष्पमूलफलानाञ्च पञ्चगव्यं विशोधनं ॥४५॥
तृणकाष्ठद्रुमाणाञ्च शुष्कान्नस्य गुडस्य च ॥४७॥
चेलचर्मामिषाणाञ्च त्रिरात्रं स्यादभोजनं ॥४७॥
पितुः पत्नीञ्च भगिनीमाचार्यतनयान्तथा ॥४८॥
आचार्याणीं सुतां स्वाञ्च गच्छंश्च गुरुतल्पगः ॥४८॥
गुरुतल्पेऽभिभाष्यैनस्तप्ते पच्यादयोमये ॥४९॥
शूमीं ज्वलन्तीञ्चाश्लिष्य मृतुना स विशुद्ध्यति ॥४९॥
चान्द्रायणान् वा त्रीन्मासानभ्यस्य गुरुतल्पगः ॥५०॥
एवमेव विधिं कुर्याद्योषित्सु पतितास्वपि ॥५०॥
यत्पुंसः परदारेषु तच्चैनां कारयेद्व्रतं ॥५१॥
रेतः सिक्त्वा कुमारीषु चाण्डालीषु सुतासु च ॥५१॥
सपिण्डापत्यदारेषु प्राणत्यागो विधीयते ॥५२॥
यत्करोत्येकरात्रेण वृषलीसेवनं द्विजः ॥५२॥
तद्भैक्ष्यभुग्(१) जपन्नित्यं त्रिभिर्वर्षैर्व्यपोहति ॥५३॥
पितृव्यदारगमने भ्रातृभार्यागमे(२) तथा ॥५३॥
चाण्डालीं पुक्कसीं वापि स्नुषाञ्च भगिनीं सखीं ॥५४॥
मातुः पितुः स्वसारञ्च निक्षिप्तां शरणागतां ॥५४॥
मातुलानीं स्वसारञ्च सगोत्रामन्यमिच्छतीं ॥५५॥
शिष्यभार्यां गुरोर्भार्यां गत्वा चान्द्रायणञ्चरेत् ॥५५व
टिप्पणी
१ हविष्यभुगिति ग.. ,ट.. च
२ मातृजायागमे इति ग.. , छ.. , ट.. च
इत्याग्नेये महापुराणे प्रायश्चित्तानि नाम त्रिसप्तत्यधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 18, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.