संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
सामान्यप्रासादलक्षणं

अध्याय १०४ - सामान्यप्रासादलक्षणं

भगवान् अग्निदेवांनी या अग्नि पुराणात देवालय निर्माणच्या हेतु विषयांत  में आख्यान दिले आहे.


ईश्वर उवाच
वक्ष्ये प्रासादसामान्यलक्षणं ते शिखध्वज ॥१॥
चतुर्भागीकृते क्षेत्रे भित्तेर्भागेन विस्तरात् ॥१॥
अद्रिभागेन(३) गर्भः स्यात्पिण्डिका पादविस्तरात् ॥२॥
पञ्चभागीकृते क्षेत्रेन्तर्भागे(४) तु पिण्डिका ॥२॥
सुषिरं भागविस्तीर्णं भित्तयो भागविस्तरात् ॥३॥
भागौ द्वौ मध्यमे गर्भे ज्येष्ठभागद्वयेन तु(५) ॥३॥
- - - -- - - -- - -- - - -- - - - -
टिप्पणी
३ अर्धभागेनेति ख.. , घ.. , छ.. , ज.. च
४ पञ्चभागीकृते वापि मध्यभागे इति घ.. , छ.. , ज.. च
५ भागौ द्वौ मध्यमो गर्भो ज्येष्ठो भागद्वयेन तु इति ङ.. , छ.. , ज.. च
- - -- - - -- - -- - -- - -- - -- -
त्रिभिस्तु कन्यसागर्भः(१) शेषो भित्तिरिति क्वचित् ॥४॥
षोढाभक्येथवा क्षेत्रे भित्तिर्भागैकविस्तरात् ॥४॥
गर्भो भागेन विस्तीर्णो भागद्वयेन पिण्डिका ॥५॥
विस्ताराद्द्विगुणो वापि सपादद्विगुणोऽपि वा ॥५॥
अर्धार्धद्विगुणो वापि(२) त्रिगुणः क्वचित्त्रिदुच्छ्रयः ॥६॥
जगती विस्तरार्धेन त्रिभागेन क्वचिद्भवेत् ॥६॥
नेमिः पादोनविएस्तीर्णा(३) प्रासादस्य समन्ततः ॥७॥
परिधिस्त्रयं शको मध्ये रथकांस्तत्र कारयेत् ॥७॥
चामुण्डं भैरवं तेषु नाट्येशं च निवेशयेत् ॥८॥
प्रासादार्धेन देवानामष्टौ वा चतुरोऽपि वा ॥८॥
प्रदक्षिणां वहिः कुर्यात्प्रासादादिषु(४) वा नवा ॥९॥
आदित्याः पूर्वतः स्थाप्याः स्कन्दोग्निर्वायुगोचरे(५) ॥९॥
एवं यमादयो न्यस्याः स्वस्याः स्वस्यां दिशि स्थिताः ॥१०॥
चतुर्धा शिखरं कृत्वा शुकनासा द्विभागिका ॥१०॥
तृतीये वेदिका त्वग्नेः सकण्ठो मलसारकः(६) ॥११॥
वैराजः पुष्पकश्चान्यः कैलासो(७) मणिकस्तथा ॥११॥
त्रिविष्ठपञ्च पञ्चैव मेरुमूर्धनि संस्थिताः(८) ॥१२॥
चतुरस्रस्तु तत्राद्यो द्वितीयोपि तदायतः ॥१२॥
- -- - - -- - - -- - - - -- - - - --
टिप्पणी
१ त्रिभिस्तु कलसो गर्भ इति ख.. , छ.. च
२ अध्यर्धद्विगुणो वापीति घ.. , ज.. च
३ पादेन विस्तीर्णा इति घ.. , ज.. च
४ प्रासादाद्दिक्षु इति ख.. , घ.. , छ.. , ज.. च । प्रासादे दिक्षु इति ङ..
५ स्कन्दोग्निर्वामगोचरे इति क..
६ सकण्ठोमवसारक इति ङ.. । सकण्ठोमवसाधक इति छ..
७ कैलास्य इति ङ.. , छ.. च
८ चतुर्धेत्यादिः, मेरुमूर्ध्नि संस्थिता इत्यन्तः पाठो ग.. पुस्तके नास्ति
- - - - -- - - -- -- - -- -- - - - --
वृत्तो वृत्तायतश्चान्यो(१) ह्यष्टास्रश्चापि पञ्चमः ॥१३॥
एकैको नवधाभेदैश्चत्वारिंशच्च पञ्च च ॥१३॥
प्रासादः प्रथमो मेरुर्द्वितियो मन्दरस्तथा ॥१४॥
विमानञ्च तथा भद्रः सर्वतोभद्र एव च ॥१४॥
चरुको(२) नन्दिको नन्दिर्वर्धमानस्तथापरः ॥१५॥
श्रीवत्सश्चेति वैराज्यान्ववाये च समुत्थिताः ॥१५॥
बलभी गृहराजश्च शालागृहञ्च मन्दिरं ॥१६॥
विशालश्च समो ब्रह्म(३) मन्दिरं भुवनन्तथा ॥१६॥
प्रभवः शिविका वेश्म नवैते पुष्पकोद्भवाः(४) ॥१७॥
बलयो(५) दुन्दुभिः पद्मो महापद्मक(६) एवच ॥१७॥
वर्धनी वान्य उष्णीषः(७) शङ्खश्च कलसस्तथा ॥१८॥
स्ववृक्षश्च तथाप्येते वृत्ताः कैलाससम्भवाः(८) ॥१८॥
गजोथ वृषभो हंसो गरुत्मान्नृक्षनायकः ॥१९॥
भूषणो(९) भूधरश्चान्न्ये श्रीजयः पृथवीधरः(१०) ॥१९॥
वृत्तायतात्समुद्भूता नवैते मणिकाह्वयात्(११) ॥२०॥
वज्रं चक्रन्तथा चान्यत्स्वस्तिकं वज्रस्वस्तिकं(१२) ॥२०॥
--- - - - -- - - -- - - - -- - - -- - -
टिप्पणी
१ चतुर्वृत्तायतश्चान्य इति घ..
२ रुचका इति क..
३ विशालश्च मनो ब्रह्मेति ख.. , घ.. च । विशालश्च तथा ब्रह्मेति ग..
४ पणव इति ज..
५ महापद्मश्च इति क..
६ शकुनी चास्य उष्णीष इति ज..
८ वर्धनीत्यादिः, कैलाससम्भवा इत्यन्तः पाठो छ.. पुस्तके नास्ति
९ वृषण इति ङ..
१० खवृक्षश्चेत्यादिः, पृथिवीधर इत्यन्तः पाठो ज.. पुस्तके नास्ति
११ मणिकाक्षयातिति ज..
१२ वज्रहस्तिकमिति ख.. , ग.. , छ.. च । वज्रमुष्टिकमिति ज..
- - - - -- -- - -- - -- - -- - -- - - -

चित्रं स्वस्तिकखड्गञ्च गदा श्रीकण्ठ एव च ॥२१॥
विजयो नामतश्चैते(१) त्रिविष्टपसमुद्भवाः ॥२१॥
नगराणामिमाः सञ्ज्ञा लाटादीनामिमास्तथा(२) ॥२२॥
ग्रीवार्धेनोन्नतञ्चूलम्पृथुलञ्च विभागतः(३) ॥२२॥
दशधा वेदिकाङ्कृत्वा पञ्चभिः स्कन्धविस्तरः ॥२३॥
त्रिभिः कण्ठं तु कर्तव्यं चतुर्भिस्तु प्रचण्डकं(४) ॥२३॥
दिक्षु द्वाराणि कार्याणि न विदिक्षु कदाचन ॥२४॥
पिण्डिका कोणविस्तीर्णा मध्यमान्ता ह्युदाहृता ॥२४॥
क्वचित्पञ्चमभागेन महताङ्गर्भपादतः ॥२५॥
उच्छ्राया द्विगुणास्तेषामन्यथा वा निगद्यते ॥२५॥
षष्ट्याधिकात्समारभ्य अङ्गुलानां शतादिह(५) ॥२६॥
उत्तमान्यपि चत्वारि द्वाराणि दशहानितः(६) ॥२६॥
त्रीण्येव मध्यमानि स्युस्त्रीण्येव कन्यसान्यतः ॥२७॥
उच्छ्रायार्धेन विस्तारो ह्युच्छ्रायोऽभ्यधिकस्त्रिधा ॥२७॥
चतुर्भिरष्टभिर्वापि दशभिरङ्गुलैस्ततः(७) ॥२८॥
उच्छ्रायात्पादविस्तीर्णा विशाखास्तदुदुंवरे(८) ॥२८॥
विस्तरार्धेन बाहुल्यं(९) सर्वेषामेव कीर्तितम् ॥२९॥
- -- - - -- - - -- - - - -- - -- - -- -- - - -- - - -
टिप्पणी
१ विजयो नायकश्चैते इति ग..
२ नटादीनामिमास्तथेति ख.. , ङ.. च । नाट्यादीनामिमास्तथेति ग.. , घ.., छ.. च । नादादीनामिमास्तथेति ज..
३ पृथुलं स्वत्रिभागत इति ख.. , घ.. , छ.. च । पृथुसमुद्रभागत इति ङ..
४ चतुर्भिस्तु तदण्डकमिति ख.. , ग.. च । चतुर्भिः कृतदण्डकमिति ज..
५ षष्ट्याधिकांशमारभ्य अङ्गुलानां शताधिकमिति ज..
६ उत्तमान्यपि चत्वारि चत्वारि दशहानित इति ज..
७ दशभिर्वा गुणैः शुभ इति छ..
८ विशाखास्थे त्वडुम्बरे इति छ.. च
९ विशुद्धेन तु वाहुल्यमिति ख.. । विस्तरार्धेन वा हन्यादिति झ.. । विस्तरार्धेन बहुल्यमिति ज..
- - -- - -- -- - -- - -- - -- -- -- - -
द्विपञ्चसप्तनवभिः शाखाभिर्द्वारमिष्टदं ॥२९॥
अधःशाखाचतुर्थांशे प्रतीहारौ निवेशयेत् ॥३०॥
मिथुनैः पादवर्णाभिः(१) शाखाशेषं विभूषयेत् ॥३०॥
स्तम्भबिद्धे भृत्यता स्यात्वृक्षबिद्धे त्वभूतिता ॥३१॥
कूपबिद्धे भयं द्वारे क्षेत्रबिद्धे(२) धनक्षयः ॥३१॥
प्रासादगृहशिलादिमार्गविद्धेषु(३) बन्धनं ॥३२॥
सभाबिद्धे न दारिद्र्यं वर्णबिद्धे(४) निराकृतिः ॥३२॥
उलूखलेन दारिद्र्यं शिलाबिद्धेन शत्रुता(५) ॥३३॥
छायाबिद्धेन दारिद्र्यं बेधदोषो न जायते ॥३३॥
छेदादुत्पाटनाद्वापि तथा प्राकारलक्षणात् ॥३४॥
सीमाया द्विगुणत्यागाद्बेधदोषो न जायते ॥३४॥
- -- -- - -- - - -- - -- - -- - - -- - -
टिप्पणी
१ मिथुनैरथ वल्लीभिरिति ख.. , छ.. च
२ द्वारे श्वभ्रबिद्धे इति ख.. , घ.. , ङ.. च
३ मार्गवेधैश्च इति छ..
४ चुल्लीबिद्धे इति ख.. , ङ.. च
५ शिलाबिद्धेन मूढतां इति ग.. , ज.. च
- -- - -- - -- -- - - -- - - --- - -- -
इत्याग्नेये महापुराणे सामान्यप्रासादलक्षणं नाम चतुरधिकशततमोऽध्यायः

N/A

References : N/A
Last Updated : September 17, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.