संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
मत्स्यावतारवर्णनम्

अध्याय २ - मत्स्यावतारवर्णनम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


वसिष्ठ उवाच
मत्स्यादिरूपिणं विष्णुं ब्रूहि सर्गादिकारणम् ।
पुराणं ब्रह्म चाग्नेयं यथा विष्णोः पुरा श्रुतम् ॥१॥

अग्निरुवाच
मत्स्यावतारं वक्ष्येऽहं वसिष्ठ श्रृणु वै हरेः ।
अवतारक्रिया दुष्टनष्ट्यै सत्पालनाय हि ॥२॥

आसीदतीतकल्पान्ते ब्राह्मो नैमित्तिको लयः ।
समुद्रोपप्लुतास्तत्र लोका भूरादिका मुने ॥३॥

मनुर्वैवस्वतस्तेपे तपो वै भुक्तिमुक्तये ।
एकदा कृतमालायां कुर्वतो जलतर्पणम् ॥४॥

तस्याञ्चल्युदके मत्स्यः स्वल्प एकोऽभ्यपद्यत ।
क्षेप्तुकामं जले प्राह नमां क्षिप नरोत्तम ॥५॥

ग्राहादिभ्यो भयं मेऽद्यतच्छ्रुत्वा कलशेऽक्षिपत् ।
स तु वृद्धः पुनर्मत्स्यः प्राह तं देहि मे बृहत् ॥६॥

स्थानमेतद्वचः श्रुत्वा राजाऽथोदञ्चनेऽक्षिपत् ।
तत्र वृद्धोऽब्रवीद् भूपं पृथु देहि पदं मनो ॥७॥

सरोवरे पुनः क्षिप्तो ववृधे तत्प्रमाणवान् ।
ऊचे देहि बृहत् स्थानप्राक्षिपच्चाम्बुधौ ततः ॥८॥

लक्षयोजनविस्तीर्णः क्षणमात्रेण सोऽभवत् ।
मत्स्यं तमद्‌भुतं दृष्ट्वा विस्मितः प्राव्रवीन्‌मनुः ॥९॥

कोभवान्ननु वै विष्णु नारायण नमोस्तुते ।
मायया मोहयसि मां किमर्थं त्वं जनार्दन ॥१०॥

मनुनोक्तोऽब्रवीन्मत्स्यो मनुं वै पालने रतम् ।
अवतीर्णो भवायास्य जगतो दुष्टनष्टये ॥११॥

सप्तमे दिवसे त्वव्धिः प्लावयिप्यति वै जगत् ।
उपस्थितायां नावि त्वं बीजादीनि विधाय च ॥१२॥

सप्तर्षिभिः परिवृतो निशांब्राह्मीं चरिष्यसि ।
उपस्थितस्य मे श्रृङ्गे निबध्नीहि भहाहिना ॥१३॥

इत्युक्त्वान्तर्दृधे मत्स्योमनुः कालप्रतीक्षकः
स्थितः समुद्र उद्वेले नावमारुरुहे तदा ॥१४॥

एकश्रृङ्गधरो मत्स्यो हैमो नियुतयोजनः ।
नालम्बबन्ध तच्छृङ्गे मत्स्याख्यं च पुराणकम् ॥१५॥

शुश्राव मत्स्यात्पापध्नं संस्तुवन् स्तुतिभिश्च तम् ।
ब्रह्मवेदप्रहर्त्तारं हयग्रीवञ्च दानवम् ॥१६॥


अवधीद्, वेदमन्त्नाद्यान् पालयामास केशवः ।
प्राप्ते कल्पेऽथ बाराहे कूर्म्मरूपोऽभवद्धरिः ॥१७॥

इत्यादिमहापुराणे आग्नेये मत्स्यावतारो नाम द्वितीयोऽध्यायः॥

N/A

References : N/A
Last Updated : September 14, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP