संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
अध्याय ७० -पादपारामप्रतिष्ठाकथनं

अध्याय ७० -पादपारामप्रतिष्ठाकथनं

अग्निदेवाच्या मुखातून हे पुराण सांगितले गेले म्हणून ह्या पुराणाचे नाव 'अग्नि पुराण' पडले.


भगवानुवाच
प्रतिष्ठां पादपानाञ्च वक्ष्येऽहं भुक्तिमुक्तिदां ॥१॥
सर्वौषध्युदकैर्लिप्तान् पिष्टातकविभूषितान् ॥१॥
वृक्षान्माल्यैरलङ्कृत्य वासोभिरभिवेष्टयेत् ॥२॥
सूच्या सौवर्णया कार्यं सर्वेषां कर्णवेधनम् ॥२॥
हेमशलाकयाञ्जनञ्च वेद्यान्तु फलसप्तकम् ॥३॥
अधिवासयेच्च प्रत्येकं घटान् बलिनिवेदनं ॥३॥
इन्द्रादेरधिवासोऽथ होमः कार्यो वनस्पतेः ॥४॥
वृक्षमध्यादुत्सृजेद्गां ततोऽभिषेकमन्त्रतः ॥४॥
ऋग्यजुःसाममन्त्रैश्च वारुणैर्मङ्गलै रवैः(१) ॥५॥
वृक्षवेदिककुम्भकैश्च(२) स्नपनं द्विजपुङ्गवाः ॥५॥
तरूणां यजमानस्य कुर्युश्च यजमानकः ॥६॥
भूषितो दक्षिणां दद्याद्गोभूभूषणवस्त्रकं ॥६॥
- - ------------ - - - - - -- - - ---- ---- - -॥
टिप्पणी
१ वारुणमनुमिर्वररिति ङ, चिह्नितपुस्तकपाठः
२ वृक्षवेदीशकुम्भैस्तु इति ङ, चिह्नितपुस्तकपाठः
-- - - -- - - -- - -- - - -- -- - - - - --
क्षीरेण भोजनं दद्याद्यावद्दिनचतुष्टयं ॥७॥
होमस्तिलाद्यैः कार्यस्तु पलाशसमिधैस्तथा ॥७॥
आचार्ये द्विगुणं दद्यात्पूर्ववन्मण्डपादिकम् ॥८॥
पापनाशः परा सिद्धिर्वृक्षारामप्रतिष्ठया ॥८॥
स्कन्दायेशो यथा प्राह प्रतिष्ठाद्यं तथा शृणु ॥९॥
सूर्येशगणशक्त्यादेः परिवारस्य वै हरेः ॥९॥

इत्यादिमाहापुराणे आग्नेये पादपारामप्रतिष्ठाकथनं नाम सप्ततितमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 16, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP