संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
षाड्गुण्यम्

अध्याय २४० - षाड्गुण्यम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


राम उवाच
मण्डलं चिन्तयेत्मुख्यं राजा द्वादशराजकं ॥१॥
अरिर्मित्रमरेर्मित्रं मित्रमित्रमतः परं ॥१॥
तथारिमित्रमित्रञ्च विजिगीषोः पुरः स्मृताः(१) ॥२॥
पार्ष्णिग्राहः स्मृतः पश्चादाक्रन्दस्तदनन्तरं ॥२॥
आसारावनयोश्चैवं विजगीषाश्च मण्डलं ॥३॥
अरेश्च विजिगीषोश्च मध्यमो भूम्यनन्तरः ॥३॥
अनुग्रहे संहतयोर्निग्रहे व्यस्तयोः प्रभुः ॥४॥
मण्डलाद्वहिरेतेषामुदासीनो बलाधिकः ॥४॥
अनुग्रहे संहतानां व्यस्तानां च बुधे प्रभुः ॥५॥
सन्धिञ्च विग्रहं यानमासानदि वदामि ते ॥५॥
बलवद्विग्रहीतेन सन्धिं कुर्याच्छिवाय च ॥६॥
कपाल उपहारश्च सन्तानः सङ्गतस्तथा ॥६॥
उपन्यासः प्रतीकारः संयोगः पुरुषान्तरः ॥७
अदृष्टनर आदिष्ट आत्मापि स उपग्रहः ॥७
परिक्रमस्तथा छिन्नस्तथा च परदूषणं ॥८॥
स्कन्धोपयेयः सन्धिश्च सन्धयः षोडशेरिताः ॥८॥
परस्परोपकारश्च मैत्रः सम्बन्धकस्तथा(२) ॥९॥
उपहाराश्च चत्वारस्तेषु मुख्याश्च सन्धयः ॥९॥
बालो वृद्धो दीर्घरोगस्तथा बन्धुवहिष्कृतः ॥१०॥
मौरुको भीरुकजनो लुब्धो लुब्धजनस्तथा ॥१०॥
विरक्तप्रकृतिश्चैव विषयेष्वतिशक्तिमान् ॥११॥
अनेकचित्तमन्त्रश्च देवब्राह्मणनिन्दकः ॥११॥
दैवोपहतकश्चैव दैवनिन्दक एव च ॥१२॥
दुर्भिक्षव्यसनोपेतो बलव्यसनसङ्कुलः ॥१२॥

टिप्पणी

स्वदेशस्थो बहुरिपुर्मुक्तः कालेन यश्च ह ॥१३॥
सत्यधर्मव्यपेतश्च विंशतिः पुरुषा अमी ॥१३
एर्तैः सन्धिं न कुर्वीत विगृह्णीयात्तु केबलं ॥१४॥
परस्परापकारेण पुंसां भवति विग्रहः ॥१४॥
आत्मनोऽभ्युदयाकाङ्क्षी पीड्यमानः परेण वा ॥१५॥
देशकालबलोपेतः प्रारभेतेह विग्रहं(१) ॥१५॥
राज्यस्त्रीस्थानदेशानां ज्ञानस्य च बलस्य च ॥१६॥
अपहारी(२) मदो मानः पीडा वैषयिकी तथा ॥१६॥
ज्ञानात्मशक्तिधर्माणां(३) विघातो दैवमेव च ॥१७॥
मित्रार्थञ्चापमानश्च तथा बन्धुविनाशनं ॥१७॥
भूतानुग्रहविच्छेदस्तथा मण्डलदूषणं ॥१८॥
एकार्थाभिनिवेशत्वमिति विग्रहयोनयः ॥१८॥
सापत्न्यं वास्तुजं स्त्रीजं वाग्जातमपराधजं ॥१९॥
वैरं पञ्चविधं प्रोक्तं साधनैः प्रशमन्नयेत् ॥१९॥
किञ्चित्फलं निष्फलं वा सन्दिग्धफलमेव च ॥२०॥
तदात्वे दोषजननमायत्याञ्चैव निष्फलं ॥२०॥
आयत्याञ्च तदात्वे च दोषसञ्जननं तथा ॥२१॥
अपरिज्ञातवीर्येण परेण स्तोभितोऽपि वा ॥२१॥
परार्थं स्त्रीनिमित्तञ्च दीर्घकालं द्विजैः सह ॥२२॥
अकालदैवयुक्तेन बलोद्धतसखेन च ॥२२॥

टिप्पणी

तदात्वे फलसंयुक्तमायत्यां फलवर्जितं ॥२३॥
आयत्यां फलसंयुक्तं तदात्वे निष्फलं तथा ॥२३॥
इतीमं षोडशविधन्नकुर्यादेव विग्रहं ॥२४॥
तदात्वायतिसंशुद्धं कर्म राजा सदाचरेत् ॥२४॥
हृष्टं पुष्टं बलं मत्वा गृह्णीयाद्विपरीतकं ॥२५
मित्रमाक्रन्द आसारो यदा स्युर्दृढभक्तयः ॥२५॥
परस्य विपरीतञ्च तदा विग्रहमाचरेत् ॥२६॥
विगृह्य सन्धाय तथा सम्भूयाथ प्रसङ्गतः ॥२६॥
उपेक्षया च निपुणैर्यानं पञ्चविधं स्मृतं ॥२७॥
परस्परस्य सामर्थ्यविघातादासनं स्मृतं ॥२७॥
अरेश्च विजगीषोश्च यानवत्पञ्चधा स्मृतम् ॥२८॥
बलिनीर्द्विषतोर्मध्ये वाचात्मानं समर्पयन् ॥२८॥
द्वैधीभावेन तिष्ठेत काकाक्षिवदलक्षितः ॥२९॥
उभयोरपि सम्पाते सेवेत बलवत्तरं ॥२९॥
यदा द्वावपि नेच्छेतां संश्लेषं जातसंविदौ ॥३०॥
तदोपसर्पेत्तच्छत्रुमधिकं वा स्वयं व्रजेत्(१) ॥३०॥
उच्छिद्यमानो बलिना निरुपायप्रतिक्रियः ॥३१॥
कुलोद्धतं सत्यमार्यमासेवेत बलोत्कटं(२) ॥३१॥
तद्दर्शनोपास्तिकता नित्यन्तद्भावभाविता ॥३२॥
तत्कारितप्रश्रियता वृत्तं संश्रयिणः श्रुतं ॥३२॥

इत्यादिमहापुराणे आग्नेये षाड्गुण्यं नाम चत्वारिंशदधिकद्विशततमोऽध्यायः॥

N/A

References : N/A
Last Updated : September 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP