संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
यजुर्विधानम्

अध्याय २६० - यजुर्विधानम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


पुष्कर उवाच
यजुर्विधानं वक्ष्यामि भुक्तिमुक्तिप्रदं श्रृणु ।
ॐकारपूर्व्विका राम महाव्याहृतयो मता ॥१॥

सर्व्वकल्मषनाशिन्यः सर्व्वकामप्रदास्तथा ।
आज्यहुतिसहस्रेण देवानाराधयेद्‌बुधः ॥२॥

मनसः काङ्‌क्षितं राम मनसेप्सितकामदं ।
शान्तिकामो यवैः कुर्य्यत्तिलैः पापापनुत्तये ॥३॥

धान्यैः सिद्धार्थकैश्चैव सर्व्वकामकरैस्तथा ।
औदुम्बरीभिरिध्मामिः पशुकामस्य शस्यते ॥४॥

दध्ना चैवान्नकामस्य पथसा शान्तिमिच्छतः ।
अपामार्गसमिद्बिस्तु कामयन् कनकं बहु ॥५॥

कन्याकामो घृताक्तानि युग्मशो ग्रथितानि तु ।
जातीपुष्पाणि जुहुयाद्‌ग्रामार्थी तिलतण्डुलान् ॥६॥

वश्यकर्मणि शाखोटवासापामार्गमेव च ।
विषासृङ्‌मिश्रसमिधो व्याधिघातस्य भार्गव ॥७॥

क्रद्धस्तु जुहुयात्सम्यक् शत्रूणां बधकाम्यया ।
सर्व्वब्रीहिमयीं कृत्वा राज्ञः प्रतिकृतिं द्विज ॥८॥

सहस्नशस्तु जुहुयाद्राजा वशगतो भवेत् ।
वस्त्रकामस्य पुष्पाणि दूर्व्वा व्याधिविनाशिनी ॥९॥

ब्रह्मवर्च्चसकामस्य वासोग्रञ्च विधीयते ।
प्रत्यङ्गिरेषु जुहुयात्तुषकण्टकभस्मभिः ॥१०॥

विद्वेषणे च पक्ष्माणि काककौशिकयोस्तथा ।
कापिलञ्च घृतं हुत्वा तथा चन्द्रग्रहे द्विज ॥११॥

वचाचूर्णेन सम्पातात्समानीय च तां वचां ।
सहस्रमन्त्रितां भुक्त्वा मेधावी जायते नरः ॥१२॥

एकादशाङ्गुलं शङ्कु लौहं खादिरमेव च१ ।
द्विषती बधोसीति जपन्निखनेद्रिपुवेश्मनि ॥१३॥

उच्चाटनमिदं कर्म शत्रूणां कथितं तव ।
चक्षुष्या इति जप्त्वा च विनष्टञ्चक्षुराप्नुयात् ॥१४॥

उपयुञ्जत इत्येतदनुवाकन्तथान्नदं ।
तनूनपाग्ने सदिति दूर्व्वां हुत्वार्त्तिवर्ज्जितः ॥१५॥

भेषजमसीति दध्याज्यैर्होमः पशूपसर्गनुत्२ ।
त्रियम्बकं यजामहे होमः सौभ ग्यवर्द्धनः ॥१६॥

कन्यानाम गृहीत्वा तु कन्यालाभकरः परः ।
भयेषु तु जपेन्नित्यं भयेभ्यो विप्रमुच्यते ॥१७॥

धुस्तूरपुष्पं सघृतं हुत्वा स्यात् सर्वकामभाक् ।
हुत्वा तु गुग्गुलं राम स्वप्ने पश्यति शङ्करं ॥१८॥

युञ्चते मनोऽनुवाकं जप्त्वा दीर्घायुराप्नुयात् ।
विष्णोरवाटमित्येतत् सर्वबाधाविनाशनं ॥१९॥

रक्षोघ्नञ्च यशस्यञ्च तथैव विजयप्रदं ।
अयन्नो अग्निरित्येतत् संग्रामे विजयप्रदं ॥२०॥

इदमापः प्रवहत स्नाने पापापनोदनं ।
विश्वकर्मन्नु हविषा सूचीं लौहीन्दशाङ्गुलाम् ॥२१॥

कन्याया निखनेद् द्वारि साऽन्यस्मै न प्रदीयते ।
देव सवितरेतेन हुतेनैतेन चान्नवान् ॥२२॥

अग्नौ स्वहेति जुहुयाद्‌बलकामो द्विजोत्तम ।
तिलैर्यवैश्च धर्मज्ञ तथापामार्गतण्डुलैः ॥२३॥

सहस्रमन्त्रितां कृत्वातथा गोरोचनां द्विज ।
तिलकञ्च तथा कृत्वा जनस्यप्रियकामियात् ॥२४॥

रुद्राणाञ्च तथा जप्यं सर्व्वाघविनिसूदनं ।
सर्व्वकर्मकरो होमस्तथा सर्व्वत्र् शान्तिदः ॥२५॥

अजाविकानामश्वानां कुञ्जराणां तथा गवां ।
मनुष्याणान्नरेन्द्राणां बालानां योषितामपि ॥२६॥

ग्रामाणां नगराणाञ्च चदेशानामपि भार्गव ।
उपद्रुतानां धर्मज्ञ व्याधितानां तथैव च ॥२७॥

मरके समनुप्राप्ते रिपुजे च तथा भये ।
रुद्रहोमः परा शान्तिः पायसेन घृतेन च ॥२८॥

कुष्माण्डघृतकहोमेन सर्व्वान् पापान् व्यपोहति ।
शक्तुयावकभैक्षाशी नक्तं मनुजसत्तम ॥२९॥

बहिःस्नानरतो मासान्मुच्यते ब्रह्यहत्यया ।
मधुवातेति मन्त्रेण होमादितोऽखिलं लभेत् ॥३०॥

दधि क्राव्नेति हुत्वा तु पुत्रान् प्राप्नोत्यसंशयं ।
तथा घृतवतीत्येतदायुष्यं स्यात् घृतेन तु ॥३१॥

स्वस्तिन इन्द्र इत्येतत्सर्व्बबाधाविनाशनं ।
इह गावः प्रजायध्वभिति पुष्टिविवधेनम् ॥३२॥

घृताहुतिसहस्रेण तथालक्षमीविनाशनं ।
श्रुवेण देवस्य त्वेति हुत्वापामार्गतण्डुलं ॥३३॥

मुच्यते विकृताच्छीघ्रमबिचारान्न संशयः ।
रुद्र पातु पलाशस्य समिद्भिः कनकं लभेत् ॥३४॥

शिवो भवेत्यग्न्युत्पाते व्रीहिभिर्जुहुयान्नरः ।
याः सेना इति चैतच्च तस्करेभ्यो भयापहम् ॥३५॥

यो अस्मभ्यमवातीयाद्‌धुत्वा कृष्णतिलान्नरः ।
सहस्रशोऽभिचारच्च मुच्यते विकृताद्‌ द्विज ॥३६॥

अन्नेनान्नपतेत्येवं हुत्वा चान्नमवाप्नुयात् ।
हंसः शुचिः सदित्येतज्जप्तन्तोयेऽघनाशनं ॥३७॥

चत्वारि भृङ्गेत्येतत्तु सर्व्वपापहरं जले ।
देवा यज्ञेति जप्त्वान् ब्रह्मलोके महीयते ॥३८॥

वसन्तेति च्च हुत्वाज्यं आदित्याद्वरमाप्नुयात् ।
सुपर्णोसीति चेत्यस्य कर्मव्याहृतिवद्भवेत् ॥३९॥

नमः स्वाहेति त्रिर्ज्जप्त्वा बन्धनान्मोक्षमाप्नुयात् ।
अन्तर्ज्जले त्रिरावर्त्य द्रुपदा सर्व्वपापमुक् ॥४०॥

इह गावः प्रजायध्वं मन्त्रोयं बुद्धिवर्द्धनः ।
हुतन्तु सर्पिषा दध्ना पयसा पायसेन वा ॥४१॥

शतं य इति चैतेन हुत्वा पर्णफलानि च ।
आरेग्यं श्रियमाप्नोति जीवतञ्च चिरन्तथा ॥४२॥

ओषधीः प्रतिमोदध्वं वपने लवनेऽर्थकृत् ।
अश्वावती पायसेन होमाच्छान्तिमवाप्नुयात् ॥४३॥

तस्मा इति च मन्त्रेण बन्धनस्थो विमुच्यते ।
युवा सुवासा इत्येव वासांस्याप्नोति चोत्तमम् ॥४४॥

मुञ्चन्तु मा शपथ्यानि सर्व्वान्तकविनाशनम्६ ।
मा मा हिंशीस्तिलाज्येन हृतं रिपुविनाशनं ॥४५॥

नमोऽस्तु सर्व्वसर्पेभ्यो घृतेन पायसेन तु ।
कृणुध्वं राज इत्येतदभिचारविनाशनं ॥४६॥

दूर्व्वाकाण्डायुतं हुत्वा काण्डात् काण्डेति मानवः ।
ग्रामे जनपदे वापि मरकन्तु शमन्नयेत् ॥४७॥

रोगार्त्तो मुच्यते रोगात् तथा दुःखात्तु दुःखितः ।
औडुम्बरीश्च समिधो मधुमान्नो वनस्पतिः ॥४८॥

हुत्वा सहस्रशो राम धनमाप्नोति मानवः ।
सौभाग्यं महदाप्नोति व्यवहारे तथा जयम् ॥४९॥

अपां गर्भमिति हुत्वा देवं वर्षापयेद्‌ध्रुवम् ।
अपः पिवेति च तथा हुत्वा दधि घृतं मधु ॥५०॥

प्रवर्त्तयति धर्मज्ञ महावृष्टिमनन्तरं ।
नमस्ते रुद्र इत्येतत् सर्व्वोपद्रवनाशनं ॥५१॥

सर्व्वशान्तिकरं प्रोक्तं महापातकनाशनं ।
अध्यवोचदित्यनेन रक्षणं व्याधितस्य तु ॥५२॥

रिपूणां भयदं युद्धे नात्र कार्य्या विचारणा ।
मानो महान्त इत्येवं बालानां शान्तिकारकं ॥५३॥

असौ यस्ताम्र इत्येतत् पठन्नित्यं दिवाकरं ।
उपतिष्ठेत धर्मज्ञ सायं प्रातरतन्द्रितः ॥५४॥

अन्नमक्षयमाप्नोति दीर्घमायुश्च विन्दति ।
प्रमुञ्च धन्वन्नित्येतत् षड्‌भिरायुधमन्त्रणं ॥५५॥

रिपूणां भयदं युद्धे नात्र कार्य्या विचारणा ।
मानो महान्त इत्येवं बालानां शान्तिकारकं ॥५६॥

नमो हिरण्यवाहवे इत्यनुवाकसप्तकम् ।
राजिकां ककटुतैलाक्तां जुहुयाच्छत्रुनाशनीं ॥५७॥

नमो वः किरिकेभ्यश्च पद्मलक्षाहुतैर्न्नरः ।
राज्यलक्ष्मीमवाप्नोति तथा विल्वैः सुवर्णकम् ॥५८॥

इमा रुद्रायेति तिलैर्होमाच्य धनमाप्यते ।
दूर्वाहोमेन चान्येन सर्वव्याधिविवर्ज्जितः ॥५९॥

आशुः शिशान इत्येतदायुधानाञ्च रक्षणए ।
संग्रामे कथितं राम सर्वशत्रुनिवर्हणं ॥६०॥

राजसामेति जुहुयात् सहस्रं पञ्चभिर्द्विज ।
आज्याहुतीनां दर्मज्ञ चक्षूरोगाद्विमुच्यते ॥६१॥

शन्नो वनस्पतेगोहे होमः स्याद्वास्तुदोषनुत् ।
अग्न आयूंसि हुत्वाज्यं द्वेषं नाप्नोति केनचित् ॥६२॥

अपां फेनेति लाजाभिर्हुत्वा जयमवाप्नुयात् ।
भद्रा इतीन्द्रियैर्हीनो जपन् स्यात् सकलेन्द्रियः ॥६३॥

अग्निश्च पृथिवी चेति वशीकरणमुत्तमम् ।
अध्वनेति जपन् मन्त्रं व्यवहारे जयी भवेत् ॥६४॥

ब्रह्म राजन्यमिति च कर्मारम्भे तु सिद्धिकृतं ।
संवत्सरोसीति धृतैलक्षहोमादरोगवान् ॥६५॥

केतुं कृण्वन्नितीत्येतत् संग्रामे जयवर्द्धनम् ।
इन्द्रोग्निर्धर्म इत्येतद्रणे धर्मनिबन्धनम् ॥६६॥

धन्वा नागेति मन्त्रकश्च धनुर्ग्राहनिकः परः ।
यजीतेति तथा मन्त्रो विज्ञेयो ह्यभिमन्त्रणे ॥६७॥

मन्त्रश्चाहिरथेत्येतच्छराणां मन्त्रणे भवेत् ।
वह्नीनां पितरित्येरत्तूणमन्त्रः प्रकीर्त्तितः ॥६८॥

युञ्जन्तीति तथाश्वानां योजने मन्त्र उच्यते ।
आशुः शिशान् इत्येतद्‌यात्रारम्भणमुच्यते ॥६९॥

विष्णोः क्रमेति मन्त्रश्च रथारोहणिकः परः ।
आजङ्घेतीति चाश्वानां ताडनीयमुदाहृतं ॥७०॥

याः सेना अभित्वरीति परसैन्यमुखे भवेत् ।
यमेन दत्तमित्यस्य कोटिहोमाद्विचक्षणः ॥७१॥

एतैः पूर्वहुतैर्मन्त्रैः कृत्वैव विजयी भवेत् ।
यमेन दत्तमित्यस्य कोटिहोमाद्विचक्षणः ॥७२॥

रथमुत्पादयेच्छीघ्रं संग्रामे विजयप्रदम् ।
आ कृष्णेति तथैतस्य कर्मव्याहृतिवद्भवेत् ॥७३॥

शिवसंकल्पजापेन समाधिं मनसोलभेत् ।
पञ्चनद्यः पञ्चलक्षं हुत्वा लक्षअमीमवाप्नुयात् ॥७४॥

यदा बधून्दाक्षायणां मन्त्रेणानेन मन्त्रितम् ।
सहस्रकृत्वः कनकं धारयेद्रिपुवारणं ॥७५॥

इमं जीवेभ्य इति च शिलां लोष्ट्रञ्चतुर्द्दिशं ।
क्षिपेद्‌गृहे तदा तस्य न स्याच्चौरभयं निशि ॥७६॥

परिमेगामनेनेति वशीकरणमुत्तमं ।
हन्तुमभ्यागतस्तत्र वशीभवति मानवः ॥७७॥

भक्ष्यताम्बूलपुष्पाद्यं मन्त्रितन्तु प्रयच्छेति ।
यस्य धर्मज्ञ वशणः सोस्य शीघ्रं भविष्यति ॥७८॥

शन्नो मित्र इतीत्येतत् सदा सर्व्वत्र शान्तिदं ।
गणानां त्वा गणपतिं कृत्वा होमञ्चतुष्पथे ॥७९॥

वशीकुर्य्याज्जगत्सर्वं सर्वधान्यैरसंशयम् ।
हिरण्यवर्णाः शुचयो मन्त्रोयमभिषेचने ॥८०॥

शन्नो देवोरभिष्टये तथा शान्तिकारः परः ।
एकचक्रेति मन्त्रेण हुतेनाज्येन भागश ॥८१॥

ग्रहेभ्यः शान्तिमाप्नोति प्रसादं न च संशयः ।
गावो भग इति द्वाभ्यां हुत्वाज्यह्गा अवाप्नुयात् ॥८२॥

प्रवादांशः सोपदिति गृहयज्ञे विधीयते ।
देवेभ्यो वनस्पत इति द्रुमयज्ञे विधीयते ॥८३॥

गायत्री वैष्णवी ज्ञेया तद्विष्णोः परमम्पदं ।
सर्व्वपापप्रशमनं सर्व्वकामकरन्तथा१५ ॥८४॥

इत्यादिमहापुराणे आग्नेये यजुर्विधानं नाम षष्ट्यधिकद्विशततमोऽध्यायः॥

N/A

References : N/A
Last Updated : September 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.