संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
छन्दःसारः

अध्याय ३२९ - छन्दःसारः

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
छन्दोधिकारे गायत्री देवी चैकाक्षरी भवेत् ।
पञ्चदशाक्षरी सा स्यात्प्राजापत्याष्टविर्णिका ॥१॥
यजुषां षडर्णा गायत्री साम्नां स्याद्द्वादशाक्षरा ।
ऋचामष्टादशार्णा स्यात्साम्नां वर्धेत च द्वयं ॥२॥
ऋचां तुर्यञ्च वर्धेत प्राजापत्याचतुष्टयं ।
वर्धेदेकैककं शेषे आतुर्यादेकमुत्सृजेत् ॥३॥
उष्णिगनुष्टुब्वृहती पङ्क्तिस्त्रिष्टुब्जगत्यपि ।
तानि ज्ञेयानि क्रमशो गायत्र्यो ब्रह्म एव ताः ॥४॥
तिस्रस्तिस्रः समान्यः स्युरेकैका आर्ष्य एव च ।
ऋग्यजुषां संज्ञाः स्युश्चतुःषष्टिपदे लिखेत् ॥५॥

इत्याग्नेये महापुराणे छन्दःसारो नामोनत्रिंशदधिकत्रिशततमोऽध्यायः

N/A

References : N/A
Last Updated : September 23, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP