संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
अखण्डद्वादशीव्रतं

अध्याय १९० - अखण्डद्वादशीव्रतं

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
अखण्डद्वादशीं वक्ष्ये व्रतसम्पूर्णताकृतं ॥१॥
मार्गशीर्षे सिते विष्णुं द्वादश्यां समुपोषितः ॥१॥
पञ्चगव्यजले स्नातो यजेत्तत्प्राशनो व्रती ॥२॥
यवव्रीहियुतम्पात्रन्द्वादश्यां हि द्विजेऽर्पयेत् ॥२॥
सप्तजन्मनि यत्किञ्चिन्मया खण्डं व्रतं कृतं ॥३॥
भगवंस्त्वत्प्रसादेन तदखण्डमिहास्तु मे ॥३॥
यथाखण्डं जगत्सर्वं त्वमेव पुरुषोत्तम ॥४॥
तथाखिलान्यखण्डानि व्रतानि मम सन्तु वै ॥४॥
एवमेवानुमासञ्च चातुर्मास्यो विधिः स्मृतः ॥५॥
अन्यच्चैत्रादिमासेषु शक्तुपात्राणि(१) चार्पयेत् ॥५॥
श्रावणादिषु चारभ्य कार्त्तिकान्तेषु पारणं ॥६॥
सप्तजन्मसु वैकल्यं व्रतानां सफलं कृते ॥६॥
आयुरारोग्यसौभाग्यराज्यभोगादिमाप्नुयात्(२) ॥७॥

इत्याग्नेये महापुराणे अखण्डद्वादशीव्रतं नाम नवत्यधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 18, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP