संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
समयदीक्षाविधानम्

अध्याय ८१ - समयदीक्षाविधानम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


ईश्वर उवाच
वाक्ष्यामि भोगमोक्षार्थं दीक्षां पापक्षयङ्करीं ॥१॥
मलमायादिपाशानां विश्लेषः क्रियते यया ॥१॥
ज्ञानञ्च जन्यते शिष्ये सा दीक्षा भुक्तिमुक्तिदा ॥२॥
विज्ञातकलनामैको द्वितीयः प्रलयाकलः(१) ॥२॥
तृतीयः सकलः शास्त्रेऽनुग्राह्यस्त्रिविधो मतः ॥३॥
तत्राद्यो मलमात्रेण मुक्तोऽन्यो मलकर्मभिः ॥३॥
कलादिभूमिपर्यन्तं स्तवैस्तु सकलो यतः ॥४॥॥
निराधाराथ साधारा दीक्षापि द्विविधा मता ॥४॥
निराधारा द्वयोस्तेषां साधारा सकलस्य तु ॥५॥
आधारनिरपेक्षेण क्रियते शम्भुचर्यया ॥५॥
तीव्रशक्तिनिपातेन निराधारेति सा स्मृता ॥६॥
आचार्यमूर्तिमास्थाय मायातीव्रादिभेदया ॥६॥
शक्त्या यां कुरुते शम्भुः सा साधिकरणोच्यते ॥७॥
- - - - -- - - -- - - -- - -- - - - -- - - -- - - - -
टिप्पणी
१ प्रलयानल इति ख, चिह्नितपुस्तकपाठः । प्रलयात्मक इति ङ, चिह्नितपुस्तकपाठः
- - - - -- - - -- - - -- - -- - - - -- - - -- - - - -
इयं चतुर्विधा प्रोक्ता सवीजा वीजवर्जिता ॥७॥
साधिकारानधिकारा यथा तदभिधीयते ॥८॥
समयाचारसंयुक्ता सवीजा जायते नृणां ॥८॥
निर्वीजा त्वसमर्थानां समयाचारवर्जिता ॥९॥
नित्ये नैमित्तिके काम्ये यतः स्यादधिकारिता ॥९॥
साधिकारा भवेद्दीक्षा साधकाचार्ययोरतः ॥१०॥
निर्वीजा दीक्षितानान्तु यदास मम पुत्रयोः ॥१०॥
नित्यमात्राधिकारत्वद्दीक्षा निरधिकारिका ॥११॥
द्विविधेयं द्विरूपा हि प्रत्येकमुपजायते ॥११॥
एका क्रियावती तत्र कुण्डमण्डलपूर्विका ॥१२॥॥
मनोव्यापारमात्रेण या सा ज्ञानवती मता ॥१२॥
इत्थं लब्धाधिकारेण दीक्षा.अचार्येण साध्यते ॥१३॥
स्कन्ददीक्षां गुरुः कुर्यात्कृत्वा नित्यक्रियां ततः(१) ॥१३॥
प्रणवार्ग्यकराम्भोजकृतद्वाराधिपार्चणः ॥१४॥
विघ्नानुत्सार्य देहल्यां न्यस्यास्त्रं स्वासने स्थितः ॥१४॥
कुर्वीत भूतसंशुद्धिं मन्त्रयोगं यथोदितं ॥१५॥
तिलतण्डुलसिद्धार्थकुशदूर्वाक्षतोदकं ॥१५॥
सयवक्षीरनीरञ्च विशेषार्घ्यमिदन्ततः ॥१६॥
तदम्बुना द्रव्यशुद्धिं तिलकं स्वासनात्मनोः ॥१६॥
पूजनं मन्त्रशिद्धिञ्च पञ्चगव्यञ्च पूर्ववत् ॥१७॥
लाजचन्दनसिद्धार्थभस्मदूर्वाक्षतं(२) कुशान् ॥१७॥
विकिरान् शुद्धलाजांस्तान् सधूपानस्त्रमन्त्रितान् ॥१८॥
- - - - -- - - -- - - -- - -- - - - -- - - -- - - - -
टिप्पणी
१ कृतनित्यक्रियाद्वय इति ख, चिह्नितपुस्तकपाठः
२ भस्मदूर्वाक्षतानिति ङ, चिह्नितपुस्तकपाठः
- - - - -- - - -- - - -- - -- - - - -- - - -- - - - -
शस्त्राम्बु(१)प्रोक्षितानेतान् कवचेनावगुण्ठितान् ॥१८॥
नानाग्रहणाकारान् विघ्नौघविनिवारकान् ॥१९॥
दर्भाणान्तालमानेन कृत्वा षट्त्रिंशता दलैः ॥१९॥
सप्तजप्तं शिवास्त्रेण वेणीं बोधासिमुत्तमं ॥२०॥
शिवमात्मनि विन्यस्य सृष्ट्याधारमभीप्सितं ॥२०॥
निष्कलं च शिवं न्यस्य शिवोऽहमिति भावयेत् ॥२१॥
उष्णीषं शिरसि न्यस्य अलं कुर्यात्स्वदेहकं ॥२१॥
गन्धमण्डनकं स्वीये विदध्याद्दक्षिणे करे ॥२२॥
विधिनात्रार्चयेदीशमित्थं स्याच्छिवमस्तकं ॥२२॥
विन्यस्य शिवमन्त्रेण भास्वरं निजमस्तके ॥२३॥
शिवादभिन्नमात्मानं कर्तारं भावयेद्यथा ॥२३॥
मण्डले कर्मणां साक्षी कलशे यज्ञरक्षकः ॥२४॥
होमाधिकरणं वह्नौ शिष्ये पाशविमोचकः(२) ॥२४॥
स्वात्मन्यनुगृहीतेति षडाधारो य ईश्वरः ॥२५॥
सोऽहमेवेति कुर्वीत भावं स्थिरतरं पुनः ॥२५॥
ज्ञानखड्गकरः स्थित्वा नैर्ऋत्याभिमुखो नरः ॥२६॥
सार्घ्याम्बुपञ्चगव्याभ्यां प्रोक्षयेद्यागमण्डपं ॥२६॥
चतुष्पथान्तसंस्कारैः संस्कुर्यादीक्षणादिभिः ॥२७॥
विक्षिप्य विकरांस्तत्र कुशकूर्चोपसंहरेत् ॥२७॥
तानीशदिशि वर्धन्यामासनायोपकल्पयेत् ॥२८॥
नैर्ऋते वास्तुगीर्वाणान् द्वारे लक्ष्मीं प्रपूजयेत् ॥२८॥
आप्ये रत्नैः पूरयन्तीं हृदा मण्डपरूपिणीं ॥२९
- - - - -- - - -- - - -- - -- - - - -- - - -- - - - -
टिप्पणी
१ अस्त्राम्बु इति ङ, चिह्नितपुस्तकपाठः
२ शिष्ये पापविमोचक इति ङ, चिह्नितपुस्तकपाठः
- - - - -- - - -- - - -- - -- - - - -- - - -- - - - -
साम्बुवस्त्रे सरत्ने च धान्यस्थे पश्चिमानने ॥२९॥
ऐशे कुम्भे यजेच्छम्भुं शक्तिं कुम्भस्य दक्षिणे ॥३०॥
पश्चिमस्यान्तु सिंहस्थां वर्धनीं खड्गरूपिणीं ॥३०॥
दिक्षु शक्रादिदिक्पालान्विष्ण्वन्तान् प्रणवासनान् ॥३१॥
वाहनायुधसंयुक्तान् हृदाभ्यर्च्य स्वनामभिः ॥३१॥
प्रथमन्तां समादाय कुम्भस्याग्राभिगामिनीं ॥३२॥
अविच्छिन्नपयोधरां भ्रामयित्वा प्रदक्षिणं ॥३२॥
शिवाज्ञां लोकपालानां श्रावयेन्मूलमुच्चरन् ॥३३॥
संरक्षत यथायोगं कुम्भं धृत्वाथ तां धारेत् ॥३३॥
ततः स्थिरासने कुम्भे साङ्गं सम्पूज्य शङ्करं ॥३४
विन्यस्य शोध्यमध्वानं वर्धन्यामस्त्रमर्चयेत् ॥३४॥
ओं हः अस्त्रासनाय हूं फट् । ओं ओं अस्त्रमूर्तये नमः । ओं हूं फट्पाशुपतास्त्राय नमः । ओं ओं हृदयाय हूं फट्नमः । ओं श्रीं शिरसे हूं फट्नमः । ओं यं शिखायै हूं फट्नमः । ओं गूं कवचाय हूं फट्नमः । ओं फटस्त्राय हूं फट्नमः(१)
चतुर्वक्त्रं सदंष्ट्रञ्च स्मरेदस्त्रं सशक्तिकं ॥३५॥
समुद्गरत्रिशूलासिं सूर्यकोटिसमप्रभं ॥३५॥
भगलिङ्गसमायोगं विदध्याल्लिङ्गमुद्रया ॥३६॥
- - - - -- - - -- - - -- - -- - - - -- - - -- - - - -
टिप्पणी
१ ओं अं हः अस्त्रासनाय ह्रं फट् । ओं अं अस्त्रमूर्तये नमः । ओं पशूं हुं फट्पाशुपतास्त्राय नमः । ओं हृदयाय ह्रं फट्नमः । ओं श्रीं शिरसे ह्रूं फट्नमः । ओं मं शिखायै फट्नमः । ओं अस्त्राय फठूं फट्नमः । इति ग, चिह्न्कितपुस्तकपाठः । ओं हः अस्त्रासनाय क्रूं फट् । ओं ओं अस्त्रमूर्तये नमः । ओं स्वां स्वं क्रूं फट्पाशुपतास्त्राय स्वाहा । ओं ओं हृदयाय क्रूं फट्नमः । ओं पं शिखायै क्रूं फट्नमः । ओं खं कवचाय क्रूं फट्नमः । ओं हं फटस्त्राय फट्नमः । इति ङ, चिह्नितपुस्तकपाठः
- - - - -- - - -- - - -- - -- - - - -- - - -- - - - -
अङ्गुष्ठेन स्पृशेत्कुम्भं हृदा मुष्ट्यास्त्रवर्धनीं ॥३६॥
भुक्तये मुक्तये त्वादौ मुष्टिना वर्धनीं स्पृशेत् ॥३७॥
कुम्भस्य मुखरक्षार्थं ज्ञानखड्गं समर्पयेत् ॥३७॥
शस्त्रञ्च मूलमन्त्रस्य शतं कुम्भे निवेशयेत् ॥३८॥
तद्दशांशेन वर्धन्यां रक्षां विज्ञापयेत्ततः ॥३८॥
यथेदं कृतयत्नेन भगवन्मखमन्दिरं ॥३९॥
रक्षणीयं जगन्नाथ सर्वाध्वरधर त्वया ॥३९॥
प्रणवस्थं चतुर्बाहुं वायव्ये गणमर्चयेत्(१) ॥४०॥
स्थण्डिले शिवमभ्यर्च्य सार्घ्यकुण्डं व्रजेन्नरः ॥४०॥
निविष्टो मन्त्रतृप्त्यर्थमर्घ्यगन्धघृतादिकं ॥४१॥
वामेऽसव्ये तु विन्यस्य समिद्दर्भतिलादिकं ॥४१॥
कुण्डवह्निस्रुगाज्यादि प्राग्वत्संस्कृत्य भावयेत् ॥४२॥
मुख्यतामूर्ध्ववक्त्रस्य हृदि वह्नौ शिवं यजेत् ॥४२॥
स्वमूर्तौ शिवकुम्भे च स्थण्डिले त्वग्निशिष्ययोः ॥४३॥
सृष्टिन्यासेन विन्यस्य शोध्याध्वानं यथाविधि ॥४३॥
कुण्डमानं मुखं ध्यात्वा हृदाहुतिभिरीप्सितं ॥४४॥
वीजानि सप्तजिह्वानामग्नेर्होमाय भण्यते ॥४४॥
विरेफावन्तिमौवर्णौ रेफषष्ठस्वरान्वितौ ॥४५॥
इन्दुविन्दुशिखायुक्तौ जिह्वावीजानुपक्रमात् ॥४५॥
हिरण्या वनका रक्ता कृष्णा तदनु सुप्रभा ॥४६॥
अतिरिक्ता बहुरूपा रुद्रेन्द्राग्न्याप्यदिङ्मुखा ॥४६॥
क्षीरादिमधुरैर्होमं कुर्याच्छान्तिकपौष्टिके ॥४७॥
अभिचारे तु पिण्याकसक्तुकञ्चुककाञ्चिकैः ॥४७॥
लवणैराजिकातक्रकटुतैलैश्च कण्टकैः ॥४८॥
- - - - -- - - -- - - -- - -- - - - -- - - -- - - - -
टिप्पणी
१ वायव्ये कालमर्चयेदिति ग, चिह्नितपुस्तकपाठः
- - - - -- - - -- - - -- - -- - - - -- - - -- - - - -
समिद्भिरपि वक्राभिः क्रुद्धो भाष्याणुना यजेत् ॥४८॥
कदम्बकलिकाहोमाद्यक्षिणी सिद्ध्यति ध्रुवं ॥४९॥
बन्धूककिंशुकादीनि वश्याकर्षाय होमयेत् ॥४९॥
बिल्वं राज्याय लक्ष्मार्थं पाटलांश्चम्पकानपि ॥५०॥
पद्मानि चक्रवर्तित्वे भक्ष्यभोज्यानि सम्पदे ॥५०॥
दूर्वा व्याधिविनाशाय सर्वसत्त्ववशीकृते ॥५१॥
प्रियङ्गुपाटलीपुष्पं चूतपत्रं ज्वरान्तकं ॥५१॥
मृत्युञ्जयो मृत्युजित्स्याद्वृद्धिः स्यात्तिलहोमतः ॥५२॥
रुद्रशान्तिः सर्वशान्त्यै अथ प्रस्तुतमुच्यते ॥५२॥
आहुत्यष्टशतैर्मूलमङ्गानि तु दशांशतः ॥५३॥
सन्तर्पयेत मूलेन दद्यात्पूर्णां यथा पुरा ॥५३॥
तथा शिष्यप्रवेशाय प्रतिशिष्यं शतं जपेत् ॥५४॥
दुर्निमित्तापसाराय सुनिमित्तकृते तथा ॥५४॥
शतद्वयञ्च होतव्यं मूलमन्त्रेण पूर्ववत् ॥५५॥
मूलाद्यष्टास्त्रमन्त्राणां स्वाहान्तैस्तर्पणं सकृत् ॥५५॥
शिखासम्पुटितैर्वीजैर्ह्रूं फडन्तैश्च(१) दीपनं ॥५६॥
ओं हौं शिवाय स्वाहेत्यादिमन्त्रैश्च तर्पणं ॥५६॥
ओं ह्रूं ह्रौं ह्रीं शिवाय ह्रूं(२) फडित्यादिदीपनं ॥५७॥
ततः शिवाम्भसा स्थालीं क्षालितां वर्मगुण्ठितां(३) ॥५७॥
चन्दनादिसमालब्धां बध्नीयात्कटकं गले ॥५८॥
वर्मास्त्रजप्तसद्दर्भपत्राभ्यां चरुसिद्धये ॥५८॥
- - - - -- - - -- - - -- - -- - - - -- - - -- - - - -
टिप्पणी
१ हुं फडन्तैश्च ख, चिह्नितपुस्तकपाठः
२ ओं हूं हौं हूं शिवाय हूमिति ख, चिह्नितपुस्तकपाठः । ओं क्रं हौं क्रं शिवाय क्रूं इति ङ, चिह्नितपुस्तकपाठः
३ धर्मगुण्ठितामिति ख, चिह्नितपुस्तकपाठः
- - - - -- - - -- - - -- - -- - - - -- - - -- - - - -
वर्माद्यैरासने(१) दत्ते सार्धेन्दुकृतमण्डले(२) ॥५९॥
न्यस्तायां मूर्तिभूतायां भावपुष्पैः शिवं यजेत् ॥५९॥
वस्त्रबद्धमुखायां वा स्थाल्यां पुष्पैर्वहिर्भवैः ॥६०॥
चुल्ल्यां पश्चिमवक्त्रायां न्यस्तायां मानुषात्मना ॥६०॥
न्यस्ताहङ्कारवीजायां शुद्धायां वीक्षणादिभिः ॥६१॥
धर्माधर्मशरीरायां जप्तायां मानुषात्मना ॥६१॥
स्थालीमारोपयेदस्त्रजप्तां गव्याम्बुमार्जितां ॥६२॥
गव्यं पयोऽस्त्रसंशुद्धं प्रासादशतमन्त्रितं ॥६२॥
तुण्डलान् श्यामकादीनां निक्षिपेत्तत्र तद्यथा ॥६३॥
एकशिष्यविधानाय तेषां प्रसृतिपञ्चकं ॥६३॥
प्रसृतिं प्रसृतिं पश्चाद्वर्धयेद्द्व्यादिषु क्रमात् ॥६४॥
कुर्याच्चानलमन्त्रेण पिधानं कवचाणुना ॥६४॥
शिवाग्नौ मूलमन्त्रेण पूर्वास्यश्चरुकं पचेत् ॥६५॥
सुखिन्ने तत्र तच्चुल्ल्यां श्रुवमापूर्य सर्पिषा ॥६५॥
स्वाहान्तैः संहितामन्त्रैर्दत्वा तप्ताभिघारणं ॥६६॥
संस्थाप्य मण्डले स्थालीं सद्दर्भेऽस्त्राणुना कृते ॥६६॥
प्रणवेन पिधायास्यां तद्देहलेपनं हृदा ॥६७॥
सुशीतलो भवत्येवं प्राप्य शीताभिघारणं ॥६७॥
विदध्यात्संहितामन्त्रैः शिष्यं प्रति सकृत्सकृत् ॥६८॥
धर्माद्यासनके हुत्वा(३) कुण्डमण्डलपश्चिमे ॥६८॥
सम्पातञ्च स्रुचा हुत्वा शुद्धिं संहितया चरेत् ॥६९॥
चरुकं सकृदालभ्य तयैव वषडन्तया ॥६९॥
- - - - -- - - -- - - -- - -- - - - -- - - -- - - - -
टिप्पणी
१ धर्माद्यैरासने इति क, चिह्नितपुस्तकपाठः
२ सार्दाम्बुकृतमण्डले इति ख, चिह्नितपुस्तकपाठः
३ धर्माद्यासनके धृत्वेति ख, ग, चिह्नितपुस्तकपाठः
- - - - -- - - -- - - -- - -- - - - -- - - -- - - - -
धेनुमुद्रामृतीभूतं स्थण्डिलेशान्तिकं नयेत्(१) ॥७०॥
साज्यभागं स्वशिष्याणां भागो देवाय वह्नये ॥७०॥
कुर्यात्तु स्तोकपालादेः समध्वाज्यमितिदं त्रयं ॥७१॥
नमोऽन्तेन हृदा दद्यात्तेनैवाचमनीयकं(२) ॥७१॥
साज्यं मन्त्रशतं हुत्वा दद्यात्पूर्णां यथाविधि ॥७२॥
मण्डलं कुण्डतः पूर्वे मध्ये वा शम्भुकुम्भयोः ॥७२॥
रुद्रमातृगणादीनां निर्वर्त्यान्तर्बलिं हृदा ॥७३॥
शिवमध्येऽप्यलब्धाज्ञो विधायैकत्वभावनं ॥७३॥
सर्वज्ञतादियुक्तोऽहं समन्ताच्चोपरि स्थितः ॥७४॥
ममांशो योजनास्थानमधिष्ठाहमध्वरे ॥७४॥
शिवोऽहमित्यहङ्कारी निष्क्रमेद्यागमण्डपात् ॥७५॥
न्यस्तपूर्वाग्रसन्धर्भे शस्त्राणुकृतमण्डले ॥७५॥
प्रणवासनके शिष्यं शुक्लवस्त्रोत्तरीयकं ॥७६॥
स्नातञ्चोदङ्मुखं मुक्त्यै पूर्ववक्त्रन्तु भुक्तये ॥७६॥
ऊर्ध्वं कायं समारोप्य पूर्वास्यं प्रविलोकयेत् ॥७७॥
चरणादिशिखां यावन्मुक्तौ भुक्तौ विलोमतः ॥७७॥
चक्षुषा सप्रसादेन शैवं धाम विवृण्वता ॥७८॥
अस्त्रोदकेन सम्मोक्ष्य मन्त्राम्बुस्नानसिद्दये ॥७८॥
भस्मस्नानाय विघ्नानां शान्तये पापभित्तये(३) ॥७९॥
सृष्टिसंहारयोगेन ताडयेदस्त्रभस्मना ॥७९॥
पुनरस्त्राम्बुना प्रोक्ष्य सकलीकरणाय तं ॥८०॥
- - - - -- - - -- - - -- - -- - - - -- - - -- - - - -
टिप्पणी
१ स्थण्डिलोपान्तिकं नयेदिति ङ, चिह्नितपुस्तकपाठः
२ तेनैवाचमनीयमिति क, ख, ग, चिह्नितपुस्तकत्रयपाठः
३ पाशभित्तये इति ग, चिह्नितपुस्तकपाठः
- - - - -- - - -- - - -- - -- - - - -- - - -- - - - -
नाभेरूर्ध्वं कुशाग्रेण मार्जनीयास्त्रमुच्चरन् ॥८०॥
त्रिधा.अलभेत तन्मूलैरघमर्षाय नाभ्यधः ॥८१॥
द्वैविध्याय च पाशानां आलभेत शराणुना ॥८१॥
तच्छरीरे शिवं साङ्गं सासनं विन्यसेत्ततः ॥८२॥
पुष्पादिपूजितस्यास्य नेत्रे नेत्रेण वा हृदा ॥८२॥
बध्वामन्त्रितवस्त्रेण सितेन सदशेन च ॥८३॥
प्रदक्षिणक्रमादेनं प्रवेश्य शिवदक्षिणं ॥८३॥
सवस्त्रमासनं दद्यात्यथावर्णं(१) निवेदयेत् ॥८४॥
संहारमुद्रयात्मानं मूर्त्या तस्य हृदम्बुजे ॥८४॥
निरुध्य शोधिते काये न्यासं कृत्वा तमर्चयेत् ॥८५॥
पूर्वाननस्य शिष्यस्य मूलमन्त्रेण मस्तके ॥८५॥
शिवहस्तं प्रदातव्यं रुद्रेशपददायकं ॥८६
शिवसेवाग्रहोपायं दत्तहस्तं शिवाणुना(२) ॥८६॥
शिवे प्रक्षेपयेत्पुष्पमपनीयार्चकन्तारं(३) ॥८७॥
तत्पात्रस्थानमन्त्राढ्यं शिवदेवगणानुगं ॥८७॥
विप्रादीनां क्रमान्नाम कुर्याद्वा स्वेच्छया गुरुः ॥८८॥
प्रणतिं कुम्भवर्धन्योः कारयित्वानलान्तिकं ॥८८
सदक्षिणासने तद्वत्(४) सौम्यास्यमुपवेशयेत् ॥८९॥
शिष्यदेहविनिष्क्रान्तां सुषुम्णामिव चिन्तयेत् ॥८९॥
निजग्रहलीनाञ्च दर्भमूलेन मन्त्रितं ॥९०॥
- - - - -- - - -- - - -- - -- - - - -- - - -- - - - -
टिप्पणी
१ सुवर्णञ्चेति ग, चिह्नितपुस्तकपाठः
२ शिवात्मनेति ख, ग, चिह्नितपुस्तकद्वयपाठः
३ अपनीयाधिकाम्बरं इति घ, चिह्नितपुस्तकपाठः
४ सदक्षिणासन तत्रेति ङ, चिह्नितपुस्तकपाठः
- - - - -- - - -- - - -- - -- - - - -- - - -- - - - -
दर्भाग्रं दक्षिणे तस्य विधाय करपल्लवे ॥९०॥
तम्मूलमात्मजङ्घायामग्रञ्चेति शिखिध्वजे ॥९१॥
शिष्यस्य हृदयं गत्वा रेचकेन शिवाणुना(१) ॥९१॥
पुरकेण समागत्य स्वकीयं हृद्यान्तरं ॥९२॥
शिवाग्निना पुनः कृत्वा नाडीसन्धानमीदृशं ॥९२॥
हृदा तत्सन्निधानार्थञ्जुहुयादाहुतित्रयं ॥९३॥
शिवहस्तस्थिरत्वार्थं(२) शतं मूलेन होमयेत् ॥९३॥
इत्थं समयदीक्षायां भवेद्योग्यो भवार्चने ॥९३॥

इत्यादिमहापुराणे आग्नेये समयदीक्षाकथनं नाम एकाशीतितमोऽध्यायः ॥

N/A


References : N/A
Last Updated : September 16, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.