संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
निर्वाणदीक्षाकथनम्

अध्याय ८८ - निर्वाणदीक्षाकथनम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


ईश्वर उवाच
सन्धानं शान्त्यतीतायाः शान्त्या सार्द्धं विशुद्धया ।
कुर्वींत पूर्ववत्तत्र तत्त्ववर्णादि तद् यथा ॥१॥

ओं हीं क्षौं हौं हां इति सन्धानानि ।
उभौ शक्तिशिवौ तत्त्वे भुवनाष्टकसिकद्धिकं ।
दीपकं रोचिरञ्चैव मोचकं चोद्‌र्ध्वगामिच ॥२॥

व्योमरूपमनायञ्च स्यादनाश्रितमष्टमं ।
ओङ्कारपदमीशाने मन्त्रो वर्णाश्च षोडश ॥३॥

अकारादिविसर्गान्ता वीजेन देहकारकौ ।
कुहूश्च शङ्खिनी नाड्यौ देवदत्तधनञ्चयौ ॥४॥

मारुतौ स्पर्शनं श्रोत्रं इन्द्रिये विषयो नमः ।
शचब्दो गुणोऽस्यावस्था तु तुर्य्यातीता तु पञ्चमी ॥५॥

हेतुः सदाशिवो देव इति तत्त्वादिसञ्चयं ।
सञ्चिन्त्य शान्त्यतीताख्यं विदध्यात्ताडनादिकं ॥६॥

कलापाशं समाताड्य फडन्तेन विभिद्य च ।
प्रविश्यान्तर्न्नमोऽन्तेन फडन्तेन वियोजयेत् ॥७॥

शिखाहृत्‌सम्पुटीभूतं स्वाहान्तं सृणिमुद्रया ।
पूरकेण समाकृष्य पाशं मस्तकसूत्रतः ॥८॥

कुम्भकेन समादाय रेचकेनोद्भवाख्यया ।
हृत्‌सम्पुटनमोऽन्तेन वह्निं कुण्डे निवेशयेत् ॥९॥

अस्याः पूजादिकं सर्वं निवृत्तेरिव साधयेत् ।
सदाशिवं समावाह्य पूजयित्वा प्रतर्प्य च ॥१०॥

सदा ख्यातेऽधिकारेऽस्मिन् मुमुक्षुं दीक्षयाम्यहं ।
भाव्यं त्वयाऽनुकूलेन भक्त्या विज्ञापयेदिति ॥११॥

पित्रोरावाहनं पूजां कृत्वा तर्पणसन्निधी ।
हृत्‌सम्पुटात्मवीजेन शिष्यं वक्षसि ताडयेत् ॥१२॥
ओं हां हूं हं फट् ।
प्रविश्य चाप्यनेनैव चैतन्यं विभजेत्ततः ।
शस्त्रेण पाशसंयुक्तं ज्येष्ठयाऽङ्कुशमुद्रया ॥१३॥

स्वाहान्तेन तदाकृष्य तेनैव पुटितात्मना ।
गृहीत्वा तन्नमोऽन्तेन निजात्मनि नियोजयेत् ॥१४॥

पूर्ववत् पितृसंयोगं भावयित्वोद्भवाख्यया ।
वामया तदनेनैव देव्या गर्भे नियोजयेत् ॥१५॥

गर्व्भाधानाधिकं सर्वं पूर्वोक्तविधिना चरेत् ।
मूलेन पाशशैथिल्ये निष्कृत्यैव शतं जपेत् ॥१६॥

मलशक्तितिरोधाने पाशानाञ्च वियोजने ।
पञ्च पञ्च हुतीर्द्दद्यादायुधेन यथा पुरा ॥१७॥

पाशानायुधमन्त्रेण सप्तवाराभिजप्तया ।
छिन्द्यादस्त्रेण कर्त्तर्य्या कलावीजयुजा यथा ॥१८॥

विसृज्य वर्त्तुलीकृत्य पाशानस्त्रेण पूर्ववत् ।
घृतपूर्णे श्रुवे दत्वा कलास्त्रेणैव होमयेत् ॥१९॥

अस्त्रेण जुहुयात् पञ्च पाशाङ्कुशनिवृत्तये ।
प्रायश्चित्तनिषेधार्थं दद्यादष्टाहुतीस्ततः ॥२०॥

सदाशिवं हृदावाह्य कृत्वा पूजनतर्पणे ।
पूर्वोक्तविधिना कुर्य्यादधिकारसमर्पणं ॥२१॥

ओं हां सदाशिव मनोवि दुं शुल्कं गृहाण स्वाहा ।
निः शेषदग्धपाशस्य पशोरस्य सदाशिव ।
बन्धाय न त्वाया स्थेयं शिवाज्ञां श्रावयेदिति ॥२२॥

भूलेन जुहुयात् पूर्णां विसृजेत्तु सदाशिवं ।
ततो विशुद्धमात्मानं शरच्चन्द्रमिवोदितं ॥२३॥

संहारमुद्रया रौद्र्या संयोज्य गुरुरात्मनि ।
कुर्वीत शिष्यदेहस्थमुद्धृत्योद्भवमुद्रया ॥२४॥

दद्यादाप्यायनायास्य मस्तकेऽर्घ्याम्बुविन्दुकं ।
क्षमयित्वा महाभक्त्या पितरौ विसृजेत्तथा ॥२५॥

खेदितौ शिष्यदीक्षायै यन्मया पितरौ युवां ।
कारुण्यान्मोक्षयित्वा तद्‌व्रजत्वं स्थानमात्मनः ॥२६॥

शिकामन्त्रितकर्त्तर्य्या बोधशक्तिस्वरूपिणीं ।
शिखां छिन्द्याच्छिवास्त्रेण शिष्यस्य चतुरङ्गुलां ॥२७॥

ओं क्ली शिखायै हूं फट् ओं हः अस्त्राय हूं फट् ।
स्रुचि तां घृतपूर्णायां गोविड्‌गोलकमध्यागां ।
संविधायास्त्रमन्त्रेण हूं फडन्तेन होमयेत् ॥२८॥

ओं हौं हः अस्त्राय हूं फट् ।
प्रक्षाल्य स्रुक्‌स्रुवौ शिष्यं संस्नाप्याचम्य च स्वयं ।
योजनिकास्थमात्मानं शस्त्रमन्त्रेण ताडयेत् ॥२९॥

षियोज्याकृष्य सम्पूज्य पूर्व्ववद् द्वादशान्ततः ।
आत्मीयहृदयाम्भोजकर्णिकायां निवेशयेत् ॥३०॥

पूरितं श्रुवमाज्येन विहिताधोमुखश्रुचा ।
नित्योक्तविधिनाऽऽदाय शङ्‌शसन्निभमुद्रया ॥३१॥

प्रसारितशिरोग्रीवो नादोच्चारानुसारतः ।
समदृष्ठिशिवश्चान्तः परभावसमन्वितः ॥३२॥

कुम्भमण्डलवह्निभ्यः शिष्यादपि निजात्मनः ।
गृहीत्वा षड्विधाध्वानं श्रुगग्रे प्राणनाडिकं ॥३३॥

सञ्चिन्त्य विन्दुवद् ध्यात्वा क्रमशः सप्तधा यथा ।
प्रथमं प्रोणसंयोगस्वरुपमपरन्ततः ॥३४॥

हृदयादिक्रमोच्चारविसृष्टं मन्त्रसञ्ज्ञकं ।
पूरकं कुम्भकं कृत्वा व्यादाय वदनं मनाक् ॥३५॥

सुषुम्णानुगतं नादस्वरूपन्तु तृतीयकं ।
सप्तमे कारणे त्यागात्प्रशान्तविस्वरं लयः ॥३६॥

शक्तिनादोद्‌र्ध्वसञ्चारस्तच्छक्तिवस्वरं मतं ।
प्राणस्य निखिलस्यापि शक्तिप्रमेयवर्जितं ॥३७॥

तत्कालविस्वरं षष्ठं शक्त्यतीतञ्च सप्तमं ।
तदेतद्‌ योजनास्थानं विस्वरन्तत्त्वसञ्‌ज्ञकं ॥३८॥

पूरकं कुम्भकं कृत्वा व्यादाय वदनं मनाक् ।
शनैरुदीरयन् मूलं कृत्वा शिष्यात्मनो लयं ॥३९॥

हकारे तडिदाकारे षडध्वप्राणरूपिणि ।
उकारं परतो नाभेर्विस्तिं व्याप्य संस्थितं ॥४०॥

ततः परं मकारन्तु हृदयाच्चतुरङ्गुलं ।
ओङ्कारं वाचकं विष्णोस्ततोऽष्टाङ्गुलकण्ठकं ॥४१॥

चतुरङ्गलतालुस्थं मकारं रुद्रवाचकं ।
तद्वल्ललाटमध्यस्थं विन्दुमीश्वरवाचकं ॥४२॥

नादं सदाशिवं देवं ब्रह्मरन्ध्रावसानकं ।
शक्तिं च ब्रह्मारन्ध्नस्थां त्यजन्नित्यमनुक्रमात् ॥४३॥

दिव्यं पिपीलिकास्पर्शं तस्मिन्नेवानुभूय च ।
द्वादशान्ते परे तत्त्वे परमानन्दलक्षणे ॥४४॥

भावशून्ये मनोऽतीते शिवे नित्यगुणोदये ।
विलीय मानसे तस्मिन् शिष्यात्मानं विबावयेत् ॥४५॥

विमुञ्चन् सर्पिषो धारां ज्वालान्तेऽपिपरे शिवे ।
योजनिकास्थिरत्वाय वौष्डन्तशिवाणुना ॥४६॥

दत्वा पूर्णां विधानेन गुणापादनमाचरेत् ।
ओं हां आत्मने सर्वज्ञो भव स्वाहा । शुद्ध पाठः - पादटिप्पणी द्र.
ओं हां आत्मने परितृप्तो भव स्वाहा ।
ओं ह्रूं आत्मने अनादिवोधो भव स्वाहा ।
ओं हौं आत्मने स्वतन्त्रो भव स्वाहा ।
ओं हौं आत्मन् अलुप्तशक्तिर्भव स्वाहा ।
ओं हः आत्मने अनन्तशक्तिर्भव स्वाहा ।
इत्थं षड्‌घुणमात्मानं गृहीत्वा परमाक्षरात् ॥४७॥

विधिना भावनोपेतः शिष्यदेहे नियोजयेत् ।
तीव्राणुशक्तिसम्पातजनितश्रमशान्तये ॥४८॥

शिष्यमूर्धनि विन्यस्येदर्घ्यादमृतविन्दुकं ।
प्रणमय्येशकुम्भादीन् शिवाद्दक्षिणमण्डलो ॥४९॥

सौम्यवक्त्रं व्यवस्थाप्य शिष्यं दक्षिणमात्मनः ।
त्वयैवानुगृहीतोऽयं मूर्त्तिमास्थाय मामकीं ॥५०॥

देवे वह्नौ गुरौ तस्माद्भक्तिं चाप्यस्य वर्द्धय ।
इति विज्ञाप्य देवेशं प्रणम्य च गुरुः स्वयं ॥५१॥

श्रेयस्तवास्त्विति ब्रूयादाशिषं शिष्वमादशत् ।
ततः परमाया भक्त्या दत्वा देवेऽष्टपुष्पिकां ॥
पुत्रकं शिवकुम्भेन संस्नाप्य विसृजेन्मखं ॥५२॥

इत्यादिमहापुराणे आग्नेये निर्वाणदीक्षासमापनं नाम अष्टाशीतितमोऽध्यायः॥

N/A

References : N/A
Last Updated : September 16, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.