संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
मुद्रालक्षणकथनम्

अध्याय २६ - मुद्रालक्षणकथनम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


नारद उवाच
मुद्राणां लक्षणं वक्ष्ये सान्निध्यादिप्रकारकम् ।
अञ्चलिः प्रथमा मुद्रा वन्दनी हृदयानुगा ॥१॥

ऊद्धर्वाङ्गुष्ठो वाममुष्टिर्द्दक्षिणाङ्गुष्ठबन्धनम् ।
सव्यस्य तस्य चाङ्गुष्ठो यस्य चोद्धर्वे प्रकीर्त्तितः ॥२॥

तिस्नः साधरणा व्यूहे अथासाधारणा इमाः ।
कनिष्ठादिविमोकेन अष्टौ मुद्रा यथाक्रमम् ॥३॥

अष्टानां पूर्व्वबीजानां क्रमशस्त्ववधारयेत् ।
अङ्गुष्ठेन कनिष्ठान्तं नामयित्वाङ्गुलित्रयम् ॥४॥

ऊद्ध्‌र्वं कृत्वा सम्मुखञ्च थीजाय नवमाय वै ।
वामहस्तमथोत्तानं कृत्वार्द्धं नामयेच्छनैः॥५॥

वराहस्य स्मृता मुद्रा अङ्गानाञ्च क्रमादिमाः ।
एकैकां मोचयेद् बद्‌ध्वा वाममुष्टौ तथाङ्‌गुलीम् ॥६॥

आकुञ्चयेत् पूर्वमुद्रां दक्षिणेत्येवमेव च ।
ऊद्‌र्ध्वाङ्‌गुष्ठो वाममुष्टिर्मुद्रासिद्धिस्ततो भवेत् ॥७॥

इत्यादिमहापुराणे आग्नेये मुद्राप्रदर्शनं नाम षड्‌विंशोऽध्यायः ।
=================
अग्निपुराणम्/अध्यायः २७

दीक्षाविघिकथनम् ।

नारद उवाच
वक्ष्ये दीक्षां सर्वदाञ्च मण्डलोब्जे हरिं यजेत् ।
दशम्यामुपसंहृत्य यागद्रव्यं समस्तकम् ॥१॥

विन्यस्य नारसिंहेन सम्मन्त्र्य शतवारकम् ।
सर्षपांस्तु फडन्तेन रक्षोध्नान् सर्व्वतः क्षिपेत् ॥२॥

शक्तिं सर्वात्मिकां तत्र न्यसेत् प्रासादरूपिणीम् ।
सर्व्वौषधि समाहृत्य विकिरानभिमन्त्रयेत् ॥३॥

शतवारं शुभे पात्रे वासुदेवेन साधकः ।
संसाध्य पञ्च गव्यन्तु पञ्चभिर्मूलमूर्तिभिः ॥४॥

नारायणान्तैः सम्प्रोक्ष्य कुशाग्रैस्तेन तां भुवम् ।
विकिरान्वासुदेवेन क्षितेदुत्तानपाणिना ॥५॥

त्रिधा पूर्वमुखस्तिष्ठन् ध्यायेत् विष्णुं तथा हृदि ।
वर्द्धन्या सहिते कुम्भे साङ्गं साङ्गं विष्णुं प्रपूजयेत् ॥६॥

शतवारं मन्त्रयित्वा त्वस्त्रेणैव च वर्द्धनीम् ।
अच्छिन्नधारया सिञ्चन् ईशानान्तं नयेच्च तम् ॥७॥

कलसं पृष्ठतो नीत्वा स्थापयेद्विकिरोपरि ।
संहृत्य विकिरान् दर्ब्भैः कुम्भेशं कर्क्वरीं यजेत् ॥८॥

सवस्त्रं पञ्चरत्नाढ्यं स्थण्डिले पूजयेद्धरिम् ।
अग्नावपि समभ्यर्च्च्य मन्त्रान् सञ्जप्य पूर्ववत् ॥९॥

प्रक्षाल्य पुण्डरीकेण विलिप्यान्तः सुगन्धिना ।
उखामाज्येन सम्पूर्य्य गोक्षीरेण तु साधकः ॥१०॥

आलोक्य वासुदेवेन ततः सङ्कर्षणेन च ।
तण्डुलानाज्यसंसृष्टान् क्षिपेत् क्षीरे सुसंस्कृते ॥११॥

प्रद्युम्नेन समालोड्य दर्व्या सङ्घट्टयेच्छनैः ।
पक्कमुत्तारयेत् पञ्चादनिरुद्धेन देशिकः ॥१२॥

प्रक्ष्याल्यालिप्य तत् कुर्य्यादूद्‌र्ध्वपुण्ड्रंतु भस्मना ।
नारायणेन पार्श्वेष् चरुमेवं सुसंस्कृतम् ॥१३॥

भागमेकं तु देवाय कलशाय द्वितीयकम् ।
तृतीयेन तु भागेन प्रदद्यादाहुतित्रयम् ॥१४॥

शिष्यैः सह चतुर्थं तु गुरुरद्याद्विशुद्धये ।
नारायणेन सम्मन्त्र्य सप्तधा क्षीरवृक्षजम् ॥१५॥

दन्तकाष्ठं भक्षयित्वा त्यक्त्वा ज्ञात्वा स्वपातकम् ।
ऐन्द्राग्न्युत्तरकेशानीमुखं पतितमुत्तमम् ॥१६॥

शुभं सिंहशतं हुत्वा आच्म्याथ प्रविश्य च ।
पूजागारं न्यसेन्मन्त्री प्राच्यां विष्णुं प्रदक्षिणम् ॥१७॥

संसारार्णवमग्नानां पशूनां पाशमुक्तये ।
त्वमेव शरणं देव सदा त्वं भक्तवत्सल॥१८॥

देवदेवानुजानीहि प्राकृतैः पाशबन्धनैः ।
पाशितान्मोचयिष्यामि त्वत्‌प्रसादात् पशूनिमान् ॥१९॥

इति विज्ञाप्य देवेशं सम्प्रविश्य पशूंस्ततः ।
धारणाभिस्तु संशोध्य पूर्व्ववज्ज्वलनादिना ॥२०॥

संस्कृत्य मूर्त्त्या संयोज्य नेत्रे बद्धवा प्रदर्शयेत् ।
पुष्पपूर्णाञ्चलींस्तत्र क्षिपेत्तन्नाम योजयेत् ॥२१॥

अमन्त्रमर्च्चनं तत्र पूर्व्ववत् कारयेत् क्रमात् ।
यस्यां मूर्त्तौ पतेत् पुष्पं तस्य तन्नाम निर्द्दिशेत् ॥२२॥

शिखान्तसम्मितं सूत्रं पादाङ्‌गुष्ठादि षड्‌गुणम् ।
कन्यासु कर्त्तितं रक्तं पुनस्तत्त्रिगुणीकृतम् ॥२३॥

यस्यां संलीयते विश्वं यतो विश्वं प्रसूयते ।
प्रकृतिं प्रक्रियाभेदैः संस्थितां तत्र चिन्तयेत् ॥२४॥

तेन प्राकृतिकान् पाशान् ग्रथित्वा तत्त्वसह्ख्यया ।
कृत्वा शशवे तत् सूत्रं कुण्डपार्श्वे निधाय तु ॥२५॥

ततस्तत्त्वानि सर्वाणि ध्यात्वा शिष्यतनौ न्यसेत् ।
सृष्टिक्रमात् प्रकृत्यादिपृथिव्यन्तानि देशिकः ॥२६॥

तत्रैकधा पञ्चधा स्याद्दशद्वाद्दशधापि वा ।
ज्ञातव्यः सर्व्वभेदेन ग्रथितस्तत्त्वचिन्तकैः ॥२७॥

अह्गैः पञ्चभिरध्वानं निखिलं विकृतिक्रमात् ।
तन्मात्रात्मनि संहृत्य मायासूत्रे पशोस्तनै ॥२८॥

प्रकृतिर्लिङ्गशक्तिश्च कर्त्ता बुद्धिस्तथा मनः ।
पञतम्नात्रबुद्ध्याख्यं कर्म्मख्यं भूतपञ्चकम् ॥२९॥

ध्यायेच्च द्वादशात्मानं सूत्रे देहे तथेच्छया ।
हुत्वा सम्पातविधिना सृष्टेः सृष्टिक्रमेण तु ॥३०॥

एकैकं शतहोभेन दत्त्वा पूर्णाहुतिं ततः ।
शरावे सम्पुटीकृत्य कुम्भेशाय निवेदयेत् ॥३१॥

अधिवास्य यथान्यायं भक्तं शिष्यं तु दीक्षयेत् ।
करणीं कर्त्तरीं वापि रजांसि खटिकामपि ॥३२॥

अन्यदप्युपयोगि स्यात् सर्वं तद्वायुगोचरे ।
संस्थाप्य मूलमन्त्रेण परामृष्याधिवासयेत् ॥३३॥

नमो भूतेभ्यश्च बलिः कुशे शेते स्मरन् हरीम् ।
मण्डपं भूषयित्वाथ वितानघटलड्डूकैः ॥३४॥

मण्डलेथ यजेद्विष्णुं ततः सन्तर्प्य पावकम् ।
आहूय दीक्षयेच्छिष्यान् बद्धपद्मासनस्थितान् ॥३५॥

सम्प्रोक्ष्य विष्णुं हस्तेन मूर्द्धानंस्पृस्य वै क्रमात् ।
प्रकृत्यादिविकृत्यन्तां साधिभूताधिदैवताम् ॥३६॥

सृष्टिमाध्यात्मिकीं कृत्वा हृदि तां संह रेत् क्रमात ।
तन्मात्रभूतां सकलां जीवेन समातां गताम् ॥३७॥

ततः स्म्प्रार्थ्य कुम्भेशं सूत्रं सहृत्य देशिकः ।
अग्नेः समीपमागत्य पार्श्वे तं सन्निवेश्य तु ॥३८॥

मूलमन्त्रेण सृष्टीशमाहुतीनां शतेन तम् ।
उदासीनमथासाद्य पूर्णाहुत्या च देशिकः ॥३९॥

शुक्लं रजः समादाय मूलेन शतमन्त्रितम् ।
सन्ताड्य हृदयन्तेन हुंफट्‌कारान्तसंयुतैः ॥४०॥

वियोगपदसंयुक्तैर्वीजैः पादादिभिः क्रमात् ।
पृथिव्यादीनि तत्त्वानि विश्लष्य जुहुयात्ततः ॥४१॥

वह्नावखिलतत्त्वानामालये व्याहृते हरौ ।
नीयमानं क्रमात्सर्वं तत्राध्वानं स्मरेद् बुधः ॥४२॥

ताडनेन वियोज्यैवम् आदायापाद्य शाम्यताम् ।
प्रकृत्याहृत्य जुहुयाद्यथोक्ते जातवेतसि ॥४३॥

गर्भाधानं जातकर्म भोगञ्चैव लयन्तथा ।
हुत्वाष्टौ तत्र तत्रैव ततः शुद्धिन्तु होमयेत् ॥४४॥

शुद्धं तत्त्वं समुद्धृत्य पूर्णाहुत्या तु देशिकः ।
सन्नयेद्‌द्विपरे तत्वे यावदव्याहृतं क्रमात् ॥४५॥

तत् परं ज्ञानयोगेन विलाप्य परमात्मनि ।
विमुक्तबन्धनं जीवं परस्मिन्नव्यये पदे ॥४६॥

निवृत्तं परमानन्दे शुद्धे बुद्धे स्मरेद्‌बुधः ।
दद्यात् पूर्णाहुतिं पञ्चादेवं दीक्षा समाप्यते ॥४७॥

प्रयोगमन्त्रान् वक्ष्यामि यैर्द्दीक्षा होमसंलयः ।
ओं यं भूतानि विशुद्धं फट्॥
अनेन ताडनं कुर्याद्वियोजनमिह द्वयम् ॥४८॥

ओं यं भूतान्यापातयेहं ।
आदानं कृत्वा चानेन प्रकृत्या योजनं श्रृणु ।
ओं यं भूतानि पुंश्चाहो ।
होममन्त्रं प्रवक्ष्यामि ततः पूर्णाहुतेर्मनुम् ॥४९॥

ओं भूतानि संहर स्वाहा ।
ओं अं ओं नमो भगवते वासुदेवाय वौषट् ।
पूर्णाहुत्यनन्तरे तु तद्वै शिष्यन्तु साधयेत् ।
एवं तत्त्वानि सर्वाणि क्रमात्संशोधयेद् बुधः ॥५०॥

नमोन्तेन खवीजेन ताडनादिपुरः सरम् ।
ओं वां कर्म्मेन्द्रियाणि ।
ओं दें बुद्धीन्द्रियाणि ।
यं वीजेन समानन्तु ताडनादिप्रयोगकम् ॥५१॥

ओं सुं गन्धतन्मात्रे वियुङ्क्ष्व हुंफट ।
ओं सम्पाहिं हा ओं खं खं क्ष प्रकृत्या॥
ओं सुं हुं गन्धतन्मात्रे संहर स्वारा ।
ततः पूर्णाहुतिश्चैवमुत्तरेषु प्रयुज्यते ।
ओं रां रसतन्मात्रे । ओं भेंरूपतन्मात्रे ।
ओं रंस्पर्शतन्मात्रे । ओं एं शब्दतन्मात्रे ।
ओं भं नमः । ओं सों अहङ्कारः ।
ओं नं बुद्धे । ओं ओं प्रकृते ।
एकमूर्त्तावयं प्रोक्तो दीक्षायोगः समासतः ।
एवमेव प्रयोगस्तु नवव्यूहादिके स्मृतः ॥५२॥

दग्धापरस्मिन् सन्दध्यान्निर्वाणे प्रकृतिन्नरः ।
अविकारे समादध्यादीश्वरे प्रकृतिन्नरः ॥५३॥

शोधयित्वाथ भूतानि कर्म्माङ्गानि विशोधयेत् ।
बुद्ध्याख्यान्यथ तन्मात्रमनोज्ञानमहङ्कृतिम् ॥५४॥

लिङ्गात्मानं विशोध्यान्ते प्रकृतिं शोधयेत् पुनः ।
पुरुषं प्राकृतं शुद्धमीश्वरे धाम्नि संस्थितम् ॥५५॥

स्वगोचरीकृताशेषभोगमुक्तौ कृतास्पदम् ।
ध्यायन् पूर्णाहुतिं दद्याद्दीक्षेयं त्वधिकारिणी ॥५६॥

अङ्गैराराध्य मन्त्रस्य नीत्वा तत्त्वगणं समम् ।
क्रमादेवं विशोध्यान्ते सर्वसिद्धिसमन्वितम् ॥५७॥

ध्यायन् पूर्णाहुतिं दद्याद्दीक्षेयं साधके स्मृता ।
द्रव्यस्य वा न सम्पत्तिरशक्तिर्वात्मनो यदि ॥५८॥

इष्ट्वा देवं यथा पूर्वं सर्वोपकरणान्वितम् ।
सद्योधिवास्य द्वादश्यां दीक्षयेद्देशिकोत्तमः ॥५९॥

भक्तो विनीतः शारीरैर्गुणैः सर्वैः समन्वितः ।
शिष्यो नातिधनी यस्तु स्थण्डिलेभ्यर्च्च्य दीक्षयेत् ॥६०॥

अध्वानं निखिलं दैवं भौतं वाद्यात्मिकीकृतम् ।
सृष्टिक्रमेण शिष्यस्य देहे ध्यात्वा तु देशिकः ॥६१॥

अष्टाष्टाहुतिभिः पूर्वं क्रमात् सन्तर्प्य सृष्टिमान ।
स्वमन्त्रैर्वासुदेवादीन् जननादीन् विसर्जयेत् ॥६२॥

होमेन शोधयेत् पश्चात्संहारक्रमयोगतः ।
योनिसूत्राणि बद्धानि सुक्त्वा कर्माणि देशिकः ॥६३॥

शिष्यदेहात्समाहृत्य क्रमात्तत्त्वानि शोध्येत् ।
अग्नौ प्राकृतिके विष्णौ लयं नीत्वाधिदैविके ॥६४॥

शुद्धं तत्त्वामशुद्धेन पूर्णाहुत्या तु साधयेत्
शिष्ये प्रकृतिमापन्नेदग्ध्वा प्राकृतिकान् गुणान् ॥६५॥

मोचयेदधिकारे वा नियुञ्ज्याद्देशिकः शिशून् ।
अथान्यां शक्तिदीक्षां वा कुर्य्यात् भावे स्थितो गुरः ॥६६॥

भक्त्या सम्प्रतिपन्नानां यतीनां निर्द्धनस्य च ।
सम्पूज्य स्थण्डिले विष्णुं पार्श्वस्थं स्थाप्य पुत्रकम् ॥६७॥

देवताभिमुखः शिष्यस्तिर्यगास्यः स्वयं स्थितः ।
अध्वानं निखिलं ध्यात्वा पर्वभिः स्वैर्विकल्पितम् ॥६८॥

शष्यदेहे तता देवम धिदैविकयाचनम् ।
ध्यानयोगेन सञ्चिन्त्य पूर्ववत्ताडनादिना ॥६९॥

क्रमात्तत्त्वानि सर्वाणि शोधयेत् स्थण्डिले हरौ ।
ताडनेन वियोज्याथ गृहीत्वात्मनि तत्‌परः ॥७०॥

देवे संयोज्य संशोध्य गृहीत्वा तत् स्वभावतः ।
आनीय शुद्धभावेन सन्धयित्वा क्रमेण तु ॥७१॥

शोधयेद्ध्यानयोगेन सर्वतो ज्ञानमुद्रया ।
शुद्धेषु सर्वतत्त्वेषु प्रधाने चेश्वरे स्थिते ॥७२॥

दग्ध्वा निर्वापयेच्छिष्यान् पदे चैशे नियोजयेत् ।
निनयेत् सिद्धिमार्गे वा साधकं देशिकोत्तमः ॥७३॥

एवमेवाधिकारस्थो गृही कर्म्मण्यतन्द्रितः ।
आरोप्य पुत्रे शिष्ये वा ह्यधिकारन्तु संयमी ॥७४॥

क्षीणरागमथात्मानं ज्ञात्वा संशुद्धकिल्विषः ।
आरोप्य पुत्रे शिष्ये वा ह्यधिकारन्तु संयमी ॥७५॥

दग्ध्वा मायामयं पाशं प्रव्रज्य स्वात्मनि स्थितः ।
शरीरपातमाकाङ्‌क्षन्नासीताव्यक्तलिङ्गवान् ॥७६॥

इत्यादिमहापुराणे आग्नेये सर्वदीक्षाकथनं नाम सप्तविंशोऽध्यायः ।

N/A


References : N/A
Last Updated : September 15, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.