संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण| सर्वरोगहराण्यौषधानि अग्निपुराण महत्व ग्रन्थप्रस्तावना मत्स्यावतारवर्णनम् कूर्मावतारवर्णनम् वराहाद्यवतारवर्णनम् श्रीरामावतारवर्णनम् अयोध्याकाण्डवर्णनं आरण्यककाण्डवर्णनं किष्किन्धाकाण्डर्णनं सुन्दरकाण्डवर्णनं युद्धकाण्डवर्णनं उत्तरकाण्डवर्णनं श्रीहरिवंशवर्णनम् कुरुपाण्डवोत्पच्यादिकथनम् कुरुपाण्डवसङ्ग्रामवर्णनम् पाण्डवचरितवर्णनम् बुद्धाद्यतारकथनम् सृष्टिविषयकवर्णनम् स्वायम्भुववंशवर्णनम् कश्यपवंशवर्णनम् सर्गविषयकवर्णनम् सामान्यपूजाकथनम् स्नानविधिकथनम् पूजाविधिकथनम् वासुदेवादिमन्त्रनिरूपणम् मुद्रालक्षणकथनम् अभिषेकविधानम् सर्वतोभद्रमण्डलकथनम् मण्डलविधिः मार्जनविधानम् संस्कारकथनं पवित्रारोहणविधानम् होमादिविधिः पवित्राधिवासनादिविधिः पवित्राशेपणविधानम् सर्वदेवपवित्राशेहणविधिः देवालयनिर्म्माणफलम् भृपरिग्रहविधानम् अर्घ्यदानविधानम् शिलादिन्यासविधानम् प्रासादलक्षणकथनम् प्रासाददेवतास्थापनम् भूतशान्त्यादिकथनम् वासुदेवादिप्रातिमालक्षणविधिः पिण्डिकालक्षणकथनम् शालग्रामादिमूर्त्तिलक्षणकथनम् शालग्रामादिपूजनकथनम् चतुर्विंशतिमूर्त्तिंस्तोत्रकथनम् मत्स्यादिसक्षणवर्णनम् देवीप्रतिमालक्षणकथनम् सूर्यादिप्रतिमालक्षणम् देवीप्रतिमालक्षणम् लिङ्गलक्षणम् लिङ्गमानादिकथनम् पिण्डिकालक्षणकथनम् दिक्पालयागकथनम् कुम्भाधिवासविधिः स्नानादिविधिः अधिवासकथनम् वासुदेवप्रतिष्ठादिविधिः ध्वजारोहणं लक्ष्मीप्रतिष्ठाविधिः सुदर्शनचक्रादिप्रतिष्ठाकथनं कूपादिप्रतिष्ठाकथनं सभास्थापनकथनं साधारणप्रतिष्ठाविधानं जीर्णोद्धारविधानं यात्रोत्सवविधिकथनं स्नानविधानं अध्याय ७० -पादपारामप्रतिष्ठाकथनं अग्नि पुराण अग्नि पुराण सुदर्शनचक्रादिप्रतिष्ठाकथनम् अग्निस्थापनादिप्रतिष्ठाकथनम् अग्निस्थापनादिप्रतिष्ठाकथनम् कपिलादिपूजाविधानम् पवित्रारोहणकथनम् पवित्रारोहणविधि दमनकारोहणावेधिः समयदीक्षाविधानम् संस्कारदीक्षाकथनम् निर्वाणादीक्षाकथनम् निर्वाणदीक्षाविधानम् प्रतिष्ठाकलाशोधनोक्तिः विद्याविशोधनविधानम् शान्तिशोधनकथनम् निर्वाणदीक्षाकथनम् एकतत्त्वदीक्षाकथनम् अभिषेकादिकथनम् विविधमन्त्रादिकथनम् प्रतिष्ठाविधिकथनम् वास्तुपूजादिविधानम् शिलाविन्यासविधानम् प्रतिष्ठासामग्रीविधानम् अधिवासनविधिः शिवप्रतिष्ठाकथनम् गौरीप्रतिष्ठाकथनम् अध्याय ९९- सूर्यप्रतिष्ठाकथनं द्वारप्रतिष्ठा प्रासादप्रतिष्ठा ध्वजारोपणं जीर्णोद्धारः सामान्यप्रासादलक्षणं गृहादिवास्तुर्नामः नगरादिवास्तुः स्वायम्भुवसर्गः भुवनकोषः तीर्थमाहात्म्यम् गङ्गामाहात्म्यं प्रयागमाहात्म्यं वाराणसीमाहात्म्यम् नर्मदादिमाहात्म्यम् गयामाहात्म्यम् गयायात्राविधिः गयायात्राविधिः श्राद्धकल्पः भारतवर्षं महाद्वीपादि भुवनकोषः ज्योतिःशास्त्रं कालगणनं युद्धजयार्णवीयनानायोगाः युद्धजयार्णवीयज्योतिःशास्त्रसारः युद्धजयार्णवीयनानाचक्राणि नक्षत्रनिर्णयः नानाबलानि कोटचक्रम् अर्घकाण्डम् घातचक्रं घातचक्रादि सेवाचक्रम् नानाबलानि त्रैलोक्यविजयविद्या सङ्ग्रामविजयविद्या नक्षत्रचक्रं महामारीविद्या षट्कर्माणि षष्टिसंवत्सराः वश्यादियोगाः षट्त्रिंशत्पदकज्ञानम् मन्त्रौषधादिः कुब्जिकापूजा कुब्जिकापूजा मालिनीनानामन्त्राः अष्टाष्टकदेव्यः त्वरितापूजादिः सङ्ग्रामविजयपूजा लक्षकोटिहोमः मन्वन्तराणि वर्णेतरधर्माः गृहस्थवृत्तिः ब्रह्मचर्याश्रमधर्मः विवाहः आचारः द्रव्यशुद्धिः शावाशौचादिः स्रावाद्याशौचं असंस्कृतादिशौचं वानप्रस्थाश्रमः यतिधर्मः धर्मशास्त्रकथनं श्राद्धकल्पकथनं नवग्रहहोमः नानाधर्माः वर्णधर्मादिकथनं अयुतलक्षकोटिहोमाः महापातकादिकथनम् प्रायश्चित्तानि प्रायश्चित्तानि प्रायश्चित्तानि सर्वपापप्रायश्चित्तानि प्रायश्चित्तं प्रायश्चित्तानि व्रतपरिभाषा प्रतिपद्व्रतानि द्वितीयाव्रतानि तृतीयाव्रतानि चतुर्थीव्रतानि पञ्चमीव्रतानि सप्तमीव्रतानि षष्ठीव्रतानि सप्तमीव्रतानि जयन्त्यष्टमीव्रताणी अष्टमीव्रतानि नवमीव्रतानि दशमीव्रतानि एकादशीव्रताणी नानाद्वादशीव्रतानि श्रवणद्वादशीव्रतम् अखण्डद्वादशीव्रतं त्रयोदशी व्रतानि चतुर्दशीव्रतानि शिवरात्रिव्रतम् अशोकपूर्णिमादिव्रतं वारव्रतानि नक्षत्रव्रतानि दिवसव्रतानि मासव्रतानि नानाव्रतानि दीपदानव्रतं नवव्यूहार्चनं पुष्पाध्यायकथनं नरकस्वरूपम् मासोपवासव्रतं भीष्मपञ्चकव्रतं अगस्त्यार्घ्यदानकथनं कौमुदव्रतं व्रतदानादिसमुच्चयः दानपरिभाषाकथनं महादानानि नानादानानि मेरुदानानि पृथ्वीदानानि मन्त्रमाहात्म्यं सन्ध्याविधिः गायत्रीनिर्वाणं गायत्रीनिर्वाणं राज्यभिषेकः अभिषेकमन्त्राः सहायसम्पत्तिः अनुजीविवृत्तं दुर्गसम्पत्तिः राजधर्माः स्त्रीरक्षादिकामशास्त्रं राकजधर्मो सामाद्युपायो दण्डप्रणयनं युद्धयात्रा स्वप्नाध्यायः शकुनानि शकुनानि शकुनानि यात्रामण्डलचिन्तादिः षाड्गुण्यम् प्रात्यहिकराजकर्म रणदीक्षा श्रीस्तोत्रम् रामोक्तनीतिः राजधर्माः षाड्गुण्यम् सामादिः राजनीतिः पुरुषलक्षणम् स्त्रीलक्षणम् चामरादिलक्षणम् रत्नपरीक्षा वास्तुलक्षणम् पुष्पादिपूजाफलम् धनुर्वेदः धनुर्वेदकथनम् धनुर्वेदकथनम् धनुर्वेदकथनम् व्यवहारकथनम् व्यवहारकथनम् दिव्यानि प्रमाणानि दायविभागकथनम् सीमाविवादादिनिर्णयः वाक्पारुष्यादिप्रकरणम् ऋग्विधानम् यजुर्विधानम् सामविधानम् अथर्ववविधानम् उत्पातशान्तिः देवपूजावैश्वदेवबलिः दिक्पालादिस्नानम् विनायकस्नानम् माहेश्वरस्नानलक्षकोटिहोमादयः नीराजनाविधिः छत्रादिमन्त्रादयः विष्णुपञ्जरम् वेदशाखादिकीर्तनम् दानादिमाहात्म्यम् सूर्य्यवंशकीर्त्तनम् सोमवंशवर्णनम् यदुवंशवर्णनम् द्वादशसङ्ग्रामाः राजवंशवर्णनम् पुरुवंशवर्णनम् सिद्धौषधानि सर्वरोगहराण्यौषधानि रसादिलक्षणम् वृक्षायुर्वेदः नानारोगहराण्यौषधानि मन्त्ररूपौषधकथनम् मृतसञ्जीवनीकरसिद्धयोगः कल्पसागरः गजचिकित्सा अछश्ववाहनसारः अश्वचिकित्सा अश्वशान्तिः गजशान्तिः शान्त्यायुर्वेदः मन्त्रपरिभाषा नागलक्षणानि दष्टचिकित्सा पञ्चाह्गरुद्रविधानम् विषहृन्मन्त्रौषधम् गोनसादिचिकित्सा बालग्रहहरबालतन्त्रम् ग्रहहृन्मन्त्रादिकम् सूर्य्यार्च्चनम् नानामन्त्राः अङ्गाक्षरार्च्चनम् पञ्चाक्षरादिपूजामन्त्राः पञ्चपञ्चाशद्विष्णुनामानि नारसिंहादिमन्त्राः त्रैलोक्य मोहननम्त्राः त्रैलोक्यमोहनीलक्ष्म्यादिपूजा त्वरितापूजा त्वरितामन्त्रादिः त्वरितामूलमन्त्रादिः त्वरिताविद्या नानामन्त्राः त्वरिताज्ञानम् ग्रन्थप्रस्तावना नानामन्त्राः सकलादिमन्त्रोद्धारः गणपूजा वागीश्वरीपूजा मण्डलानि अघोरास्त्रादिशान्तिकल्पः पाशुपतशान्तिः षडङ्गान्यघोरास्त्राणि रुद्रशान्तिः अंशकादिः गौर्य्यादिपूजा देवालयमाहात्म्यम् छन्दःसारः छन्दःसारः छन्दःसारः छन्दोजातिनिरूपणम् विषमकथनम् अर्द्धसमनिरूपणम् समवृत्तनिरूपणम् ग्रन्थप्रस्तावना शिक्षानिरूपणम् काव्यादिलक्षणं नाटकनिरूपणम् शृङ्गारादिरसनिरूपणम् रीतिनिरूपणम् नृत्यादावङ्गकर्म्मनिरूपणम् अभिनयादिनिरूपणम् शब्दालङ्काराः अर्थालङ्गाराः शब्दार्थालङ्काराः काव्यगुणविवेकः काव्यदोषविवेकः एकाक्षराभिधानम् व्याकरणम् सन्धिसिद्धरूपम् सुब्विभक्तिसिद्धरूपम् स्त्रीलिङ्गशब्दसिद्धरूपम् नपुंसकशब्दसिद्धरूपम् कारकम् समासः तद्धितम् उणादिसिद्धरूपम् तिङ्विभक्तिसिद्धरूपम् कृत्सिद्धरूपम् स्वर्गपातालादिवर्गाः अव्ययवर्गानाम नानार्थवर्गा भूमिवनौषध्यादिवर्गाः नृब्रह्मक्षत्रविट्शूद्रवर्गाः ब्रह्मवर्गः क्षत्रविट्शूद्रबर्गाः सामान्यनामलिङ्गानि नित्यनैमित्तिकप्राकृतप्रलयाः नित्यनैमित्तिकप्राकृतप्रलयाः आत्यन्तिकलयगर्भोत्पत्तिनिरूपणम् नरकनिरूपणम् यमनियमाः आसनप्राणायामप्रत्याहाराः ध्यानम् धारणा समाधिः ब्रह्मज्ञानम् ब्रह्मज्ञानम् ब्रह्मज्ञानम् अद्वैतब्रह्मविज्ञानम् गीतासारः यमगीता आग्न्येयपुराणमाहात्म्यम् अध्याय २८० - सर्वरोगहराण्यौषधानि अग्निपुराणात त्रिदेव – ब्रह्मा, विष्णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे. Tags : agnipuranpuransanskritअग्निपुराणपुराणसंस्कृत सर्वरोगहराण्यौषधानि Translation - भाषांतर धन्वन्तरिरुवाचशारीरमानसागन्तुसहजा व्याधयो मताः ।शारीरा ज्वरकुष्ठाद्याः क्रोधाद्या मानसा मताः ॥१॥आगन्तवो विघातोत्थाः सहजाः क्षुज्जरादयः ।शारीरागन्तुनाशाय सूर्य्यवारे घृतं गुड़म् ॥२॥लवणं सहिरण्यञ्च विप्रायापूपमर्पयेत् ।चन्द्रे चाभ्यङ्गदो विप्रे सर्वरोगैः प्रमुच्यते ॥३॥तैलं शनैश्चरे दद्यादाश्विने गोरसान्नदः ।घृतेन पयसा लिङ्गं संस्नाप्य स्याद्रुगुज्झितः ॥४॥गायत्र्या हावयेद्वह्नौ दूर्वान्त्रिमधुराप्लुताम् ।यस्मिन् भे व्याधिमाप्नोति तस्मिन् स्नानं बलिः शुभे ॥५॥मानसानां रुजादीनां विष्णोः स्तोत्रं हरं भवेत् ।वातपित्तकफा दोषा धातवश्च तथा श्रृणु ॥६॥भुक्तं पक्काशयादन्नं द्विधा याति च सुश्रुत ।अंशेनैकेन किट्टत्वं रसताञ्चापरेण च ॥७॥किट्टभागो मलस्तत्र विण्मूत्रस्वेददूषिकाः ।नासामलह्कर्णमलं तथा देहमलञ्च यत् ॥८॥रसभागाद्रसस्तत्र समाच्छोणिततां व्रजेत् ।मांसं रक्तात्ततो मेदो मेदसोऽस्थ्नश्च सम्भवः ॥९॥अस्थनो मज्जा ततः शुक्रं शुक्राद्रागस्तथौजसः ।देशमार्त्ति बलंशक्तिं कालं प्रकृतिमेव च ॥१०॥ज्ञात्वा चिकित्सितं कुर्य्याद्भेषजस्य तथा बलम् ।तिथिं रिक्तान्त्यजेद् भौमं मन्द्भन्दारुणोग्रकम् ॥११॥हरिगोद्विजचन्द्रार्क्कसुरादीन् प्रतिपूज्य च ।श्रृणु मन्त्रमिमं विद्वन् भेषजारम्भमाचरेत् ॥१२॥ब्रह्मदक्षाश्विरुद्रेन्द्रभूचन्द्रार्क्काऽनिलानलाः ।ऋषयश्चौषधिग्रामा भूतसकङ्घाश्च पान्तु ते ॥१३॥रसायनमिवर्षीणां देवानाममृतं यथा ।सुधेवोत्तमनागानां भैषज्यमिदमस्तु ते ॥१४॥बातश्लेष्मातको देशो वहुवृक्षो वहूदकः ।अनूपइतिविख्यातो जाङ्गलस्तद्विवर्ज्जितः ॥१५॥किञ्चिद्वृक्षोदको देशस्तथा साधारणः स्मृतः ।जाङ्गलः पित्तबहुलो मध्यः साधारणः स्मृतः ॥१६॥सूक्ष्मः शीतश्चलो वायुः पित्तमुष्णं कटुत्रयम् ।स्थिराम्लस्निग्धमधुरं बलाशञ्च प्रचक्षते ॥१७॥वृद्धिः समानैरेतेषां विपरीतैर्विपर्य्ययः ।रसाः स्वाद्वम्ललवणाः श्लेष्मला वायुनाशनाः ॥१८॥कटुतिक्तकषायाश्य वातलाः श्लेष्मनाशनाः ।कट्वम्ललवणा ज्ञेयास्तथा पित्तविवर्द्धनाः ॥१९॥तिक्तस्वादुकषायाश्च तथा पित्तविनाशनाः ।रसस्यैतद्गुणं नास्ति विपाकस्यैतदिष्यते ॥२०॥वीर्य्योष्णाः कफवातघ्नाः शीताः पित्तविनाशनाः ।प्रभावतस्तथा कर्म्म ते कुर्वन्ति च सुश्रुत ॥२१॥शिशिरे च वसन्ते च निदाघे च तथा क्रमात् ।चयप्रकोपप्रशमाः कफस्य तु प्रकीर्त्तिताः ॥२२॥निदाघवर्षारात्रौ च तथा शरदि सुश्रुत ।चयप्रकोपप्रशमाः पवनस्य प्रकीर्त्तिताः ॥२३॥मेघकाले च शरदि हेमन्ते च यथाक्रमात् ।चयप्रकोपप्रशमास्तथा पित्तस्य कीर्त्तिताः ॥२४॥वर्षादयो विसर्गास्तु हेमन्ताद्यास्तथा त्रयः ।शिशिराद्यास्तथादानं ग्रीष्मान्ता ऋतवस्त्रयः ॥२५॥सौम्यो विसर्गस्त्वादानमाग्नेयं परिकीर्त्तितम् ।वर्षादीस्त्रीनृतून् सोमश्चरन् पर्य्यायशो रसान् ॥२६॥जनयत्यम्ललवणमधुरांस्त्रीन् यथाक्रमम् ।शिशिरादीनृतूनर्कश्चरन् पर्य्यायशो रसान् ॥२७॥विवर्द्धयेत्तथा तिक्तकषायकटुकान् क्रमात् ।यथा रजन्यो वर्द्धन्ते बलमेकं हि वर्द्धते ॥२८॥क्रमशोऽथ मनुष्याणां हीयमानासु हीयते ।रात्रिभुक्तदिनानाञ्च वयसश्च तथैव च ॥२९॥आदिमध्यावसानेषु कफपित्तसमीरणाः ।प्रकोपं यान्ति कोपादौ काले तेषाञ्चयः स्मृतः ॥३०॥प्रकोपोत्तरके काले रामस्तेषां प्रकीर्त्तितः ।अतिभोजनतो विप्र तथा चाभोजनेन च ॥३१॥रोगा हि सर्वे जायन्ते वेगोदीरणधारणैः ।अन्नेन कुक्षेर्द्वावंशावेकं पानेन पूरयेत् ॥३२॥आश्रयं पवनादीनां तथैकमवशेषयेत् ।व्याधेर्न्निदानस्य तथा विपरीतमथौषधम् ॥३३॥कर्तव्यमेतदेवात्र मया सारं प्रकीर्त्तितम् ।नाभेरुद्र्ध्वमधश्चैव गुदश्रोण्योस्तथैव च ॥३४॥बलाशपित्तवातानां देहे स्थानं प्रकीर्त्तितं ।तथापि सर्वगाश्चैते देहे वायुर्विशेषतः ॥३५॥देहस्य मध्ये हृदयं स्थानं तन्मनसः स्मृतम् ।कृशोऽल्पकेशश्चपलो बहुवाग्विषमानलः ॥३६॥व्योमगश्च तथा स्वप्ने वातप्रकृतिरुच्यते ।अकालपलितः क्रोधी प्रस्वेदी मधुरप्रियः ॥३७॥स्वप्ने च दीप्तिमत्प्रेक्षी पित्तप्रकृतिको नरः ।तामसा राजसाश्चैव सात्विकाश्च तता स्मृता ॥३८॥शुद्धाम्बुदर्शी स्वप्ने च कफप्रकृतिको नरः ।तामसा राजसाश्चैव सात्विकाश्च तथा स्मृताः ॥३९मनुष्या मुनिशार्दूल वातपित्तकफात्मकाः ।रक्तपित्तं व्यवायाच्च गुरुकर्म्मप्रवर्त्तनैः ॥४०॥ककदन्नभोजनाद्वायुर्देहे शोकाच्च कुप्यति ।विदाहिना तथोल्कानामुष्णान्नाध्वनिसेविनां१ ॥४१॥पित्तं प्रकोपमायाति भयेन च तथा कद्विज ।अत्यम्बुपानगुर्व्वन्नभोजिनां भुक्तशायिनाम ॥४२॥श्लेष्मा प्रकोपमायाति तथा ये चालसा जनाः ।वाताद्युत्थानि रोगाणि ज्ञात्वा शाम्यानि लक्ष्णैः ॥४३॥अस्थिभङ्गः कषायत्वमास्ये शुष्कास्यता तथा ।जृम्भणं लोमहर्षश्च वातिकव्याधिलक्षणम् ॥४४॥नखनेत्रशिराणान्तु पीतत्वं कटुता मुखे ।तृष्णा दाहोष्णता चैव पित्तव्याधिनिदर्शनम् ॥४५॥आलस्यञ्च प्रसेकश्च गुरुता मधुरास्यता ।उष्णाभिलाषिता चेति श्लेष्मिकव्याधिलक्षणम् ॥४६॥स्निग्धोष्णमन्नमभ्यङ्गस्तैलपानादि वातनुत् ।आज्यं क्षीरांसिताद्यं च चन्द्ररश्म्यादि पित्तनुत् ॥४७॥सक्षौद्रं त्रिफलातैलं व्यायामादि कफापहम् ।सर्वरोगप्रशान्त्यै स्याद्विष्णोर्ध्यानञ्च चपूजनम् ॥४८॥इत्यादिमहापुराणे आग्नेये सर्वरोगहराण्यौषधानि नामाशीत्यधिकद्विशततमोऽध्यायः॥ N/A References : N/A Last Updated : September 21, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP