संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
कालगणनं

अध्याय १२२ - कालगणनं

भगवान् अग्निदेवांनी या अग्नि पुराणात चौसष्ट योगनींचे का सविस्तार वर्णन केले आहे.


अग्निरुवाच
कालः समागणो वक्ष्ये गणितं कालबुद्धये ॥१॥
कालः समागणोऽर्कघ्नो(१) मासैश्चैत्रादिभिर्युतः ॥१॥
द्विघ्नो द्विस्ट्ःः सवेदः स्यात्पञ्चाङ्गष्टयुतो गुणः(२) ॥२॥
त्रिष्ठो मध्यो वसुगुणः पुनर्वेदगुणश्च सः ॥२॥
अष्टरन्ध्राग्निहीनः(३) स्यादधः सैकरसाष्टकैः ॥३॥
मध्यो हीनः षष्टिहतो(४) लब्धयुक्तस्तथोपरि ॥३॥
न्यूनः सप्तकृतो वारस्तदधस्तिथिनाडयः ॥४॥
सगुणो द्विगुणश्चोरोद्ध्वं त्रिभिरूनो गुणः पुनः ॥४॥
अधः स्वरामसंयुक्तो रसार्काष्टफलैर्युतः ॥५॥
अष्टाविंशच्छेषपिण्डस्तिथिनाड्या अधः स्थितः ॥५॥
टिप्पणी
१ समागणोर्काब्द इति ख.. , छ.. च
२ पञ्चदशयुतो गण इति ज..
३ अष्टचन्द्राग्निहीन इति ज..
४ षष्टिहत इति ङ..
गुणस्तिसृभिरूनोर्धं द्वाभ्यां च गुणयेत्पुनः ॥६॥
मध्ये रुद्रगुणः कार्यो ह्यधः सैको नवाग्निभिः(१) ॥६॥
लब्धहीनो(२) भवेन्मध्यो द्वाविंशतिविवर्जितः ॥७॥
षष्टिशेषे ऋणं ज्ञेयं लब्धमूर्ध्वं विनिक्षिपेत् ॥७॥
सप्तविंशतिशेषस्तु ध्रुवो नक्षत्रयोगयोः ॥८॥
मासि मासि क्षिपेद्वारन्द्वात्रिंशद्घटिकास्तिथौ ॥८॥
द्वे पिण्डे द्वे च नक्षत्रे नाड्य एकादश ह्यृणे ॥९॥
वारस्थाने तिथिन्दद्यात्सप्तभिर्भार्गवमाहरेत् ॥९॥
शेषवाराश्च सूर्याद्या घटिकासु च पातयेत् ॥१०॥
पिण्डिकेषु तिथिन्दद्याद्धरेच्चैव चतुर्दश ॥१०॥
ऋणं धनं धनमृणं क्रमाज्ज्ञेयं चतुर्दशे ॥११॥
प्रथमे त्रयोदशे पञ्च द्वितीयद्वादशे दश ॥११॥
पञ्चदशस्तृतीये च तथाचैकादशे स्मृतां ॥१२॥
चतुर्थे दशमे चैव भवेदेकोनविंशतिः ॥१२॥
पञ्चमे नवमे चैव द्वाविंशतिरुदाहृताः ॥१३॥
षष्ठाष्टमे त्वखण्डाः स्युश्चतुर्विंशतिरेव च ॥१३॥
सप्तमे पञ्चविंशः स्यात्खण्डशः पिण्डिकाद्भवेत्(३) ॥१४॥
कर्कटादौ हरेद्राशिमृतुवेदत्रयैः क्रमात् ॥१४॥
तुलादौ प्रातिलोम्येन त्रयो वेदरसाः क्रमात् ॥१५॥
टिप्पणी
१ सैकेन सप्तकैरिति ख.. , ग.. च
२ ऋतुहीन इति ङ..
३ खण्डकः पिण्डकाद्भवेदिति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. च
मकरादौ दीयते च रसवेदत्रयः क्रमात् ॥१५॥
मेषादौ प्रातिलोम्येन त्रयो वेदरसाः क्रमात्(१) ॥१६॥
खेषवः खयुगा मैत्रं मेषादौ विकला धनम् ॥१६॥
कर्कटे प्रातिलोम्यं स्यादृणमेतत्तुलादिके ॥१७॥
चतुर्गुणा तिथिर्ज्ञेया विकलाश्चेह सर्वदा ॥१७॥
हन्याल्लिप्तागतागामिपिण्डसङ्ख्याफलन्तरैः ॥१८॥
षष्ट्याप्तं प्रथमोच्चार्ये हानौ देयन्धने धनम् ॥१८॥
द्वितीयोच्चरिते वर्गे वैपरीत्यमिति स्थितिः ॥१९॥
तिथिर्द्विगुणिता कार्या षड्भागपरिवर्जिता ॥१९॥
रविकर्मविपरीता तिथिनाडीसमायुता ॥२०॥॥
ऋणे शुद्धे तु नाड्यः स्युर्ऋणं शुध्येत नो यदा ॥२०॥
सषष्टिकं प्रदेयन्तत्षष्ट्याधिक्ये च तत्त्यजेत्(२) ॥२१॥
नक्षत्रं तिथिमिश्रं स्याच्चतुर्भिर्गुणिता तिथिः ॥२१॥
तिथिस्त्रिभागसंयुक्ता ऋणेन च तथान्विता ॥२२॥
तिथिरत्र चिता कार्या तद्वेदाद्योगशोधनं ॥२२॥
रविचन्द्रौ समौ कृत्वा योगो भवति निश्चलः ॥२३॥
एकोना तिथिर्द्विगुणा सप्तभिन्ना कृतिर्द्विधा(३) ॥२३॥
तिथिश्च द्विगुणैकोना कृताङ्गैः करणन्निशि ॥२४॥
टिप्पणी
१ मकरादौ इत्यादिः, वेदरसाः क्रमादित्यन्तः पाठः छ.. पुस्तके नास्ति
२ सन्त्यजेदिति घ..
३ सप्तभिन्ना गतिर्द्विधेति ख.. । सप्तच्छिन्ना कृतिर्द्विधेति घ.. , ज.. च
कृष्णचतुर्दश्यन्ते शकुनिः पर्वणीह चतुष्पदं ॥२४॥
प्रथमे तिथ्यर्धतो हि किन्तुघ्नं प्रतिपन्मुखे ॥२५॥२५॥

इत्याग्नेये महापुराणे कालगणनं नाम द्वाविंशत्यधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 17, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP