संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
ध्वजारोहणं

अध्याय ६१ - ध्वजारोहणं

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


भगवानुवाच
वक्षे चावभृथस्नानं विष्णोर्नत्वेति(१) होमयेत् ॥१॥
एकाशीतिपदे कुम्भान् स्थाप्य संस्थापयेद्धरिं ॥१॥
पूजयेद्गन्धपुष्पाद्यैर्बलिं दत्वा गुरुं यजेत् ॥२॥
द्वारप्रतिष्ठां वक्ष्यामि द्वाराधो हेम वै ददेत् ॥२॥
अष्टभिः कलशैः स्थाप्य शाखोदुम्बरकौ गुरुः ॥३॥
गन्धादिभिः समभ्यर्च्य मन्त्रैर्वेदादिभिर्गुरुः ॥३॥
कुण्डेषु होमयेद्वह्निं समिल्लाजतिलादिभिः ॥४॥
दत्वा शय्यादिकञ्चाधो दद्यादाधारशक्तिकां ॥४॥
शाखयोर्विन्यसेन्मूले देवौ चण्डप्रचण्दकौ ॥५॥
ऊर्ध्वोदुम्बरके देवीं लक्ष्मीं सुरगणार्चितां ॥५॥
न्यस्याभ्यर्च्य(३) यथान्यायं श्रीसूक्तेन चतुर्मुखं ॥६॥
दत्वा तु श्रीफलादीनि आचार्यादेस्तु दक्षिणां ॥६॥
प्रतिष्ठासिद्धद्वारस्य त्वाचार्यः स्थापयेद्धरिं ॥७॥
-- - - - -- - - - -- - - -- - - -- - - - - -- -
टिप्पणी
१ विष्णुर्नुकेति घ, ङ, चिह्नितपुर्स्तकद्वयपाठः
२ समिदाज्यतिलादिभिरिति ङ, चिह्नितपुस्तकपाठः
३ अथाभ्यर्च्येति ङ, चिह्नितपुस्तकपाठः
-- - - - -- - - - -- - - -- - - -- - - - - -- -
प्रासादादस्य प्रतिष्ठन्तु हृत्प्रतिष्ठेति तां शृणु ॥७॥
समाप्तौ शुकनाशाया(१) वेद्याः प्राग्दर्भमस्तके ॥८॥
सौवर्णं राजतं कुम्भमथवा शुक्लनिर्मितं(२) ॥८॥
अष्टरत्नौषधीधातुवीजलौहान्वितं शुभं ॥९॥
सवस्त्रं पूरितं चाद्भिर्मण्डले चाधिवासयेत् ॥९॥
सपल्लवं नृसिंहेन हुत्वा सम्पातसञ्चितं ॥१०॥
नारायणाख्यतत्त्वेन प्राणभूतं न्यसेत्ततः ॥१०॥
वैराजभूतान्तं(३) ध्यायेत्प्रासादस्य सुरेश्वर ॥११॥
ततः पुरुषवत्सर्वं प्रासादं चिन्तयेद्बुधः ॥११॥
अधो दत्वा सुवर्णं तु तद्ववद्भूतं(४) घटं न्यसेत् ॥१२॥
गुर्वादौ दक्षिणां दद्याद्ब्राह्मणादेश्च भोजनं ॥१२॥
ततः पश्चाद्वेदिबन्धं तदूर्ध्वं कण्ठबन्धनं ॥१३॥
कण्ठोपरिष्टात्कर्तव्यं विमलामलसारकं ॥१३॥
तदूर्ध्वं वृकलं(५) कुर्याच्चक्रञ्चाद्यं सुदर्शनं ॥१४॥
मूत्तिं श्रीवासुदेवस्य ग्रहगुप्तां निवेदयेत् ॥१४॥
कलशं वाथ कुर्वीत तदूर्ध्वं चक्रमुत्तमं ॥१५॥
वेद्याश्च परितः स्थाप्या अष्टौ विघ्नेश्वरास्त्वज(६) ॥१५॥
-- - - - -- - - - -- - - -- - - -- - - - - -- -
टिप्पणी
१ वनमालायामिति ङ, चिह्नितपुस्तकपाठः
२ शुक्तिनिर्मलमिति ग, घ, चिह्नितपुस्तकद्वयपाठः । शुल्वनिर्मितमिति ङ, चिह्नितपुस्तकपाठः
३ वैराजरूपं तमिति ङ, चिह्नितपुस्तकपाठः
४ तत्त्वभूतमिति घ, ङ, चिह्नितपुस्तकपाठः
५ तदूर्ध्वं चूर्णकं कुर्यादिति ग, ङ, चिह्नितपुस्तकपाठः । तदूर्ध्वं चुल्वकं कुर्यादिति ख, घ, चिह्नितपुस्तकद्वयपाठः
६ अष्टौ वेद्येश्वरास्त्वज इति ग, घ, ङ, चिह्नितपुस्तकत्रयपाठः
-- - - - -- - - - -- - - -- - - -- - - - - -- -
चत्वारो वा चतुर्दिक्षु स्थापनीया गरुत्मतः ॥१६॥
ध्वजारोहं च वक्ष्यामि येन भूतादि नश्यति ॥१६॥
प्रासादविम्बद्रव्याणां यावन्तः परमाणवः ॥१७॥
तावद्वर्षसहस्राणि तत्कर्ता विष्णुलोकभाक् ॥१७॥
कुम्भाण्डवेदिविम्बानां भ्रमणाद्वायुनानघ ॥१८॥
कण्ठस्यावेष्टनाज्ज्ञेयं फलं कोटिगुणं ध्वजात् ॥१८॥
पताकानां प्रकृतिं विद्धि दण्डं पुरुषरूपिणं ॥१९॥
प्रासादं वासुदेवस्य मूर्तिभेदं(१) निबोध मे ॥१९॥
धारणाद्धरणीं(२) विद्धि आकाशं शुषिरात्मकं ॥२०॥
तेजस्तत्पावकं विद्धि वायुं स्पर्शगतं तथा ॥२०॥
पाषाणादिष्वेव जलं पार्थिवं पृथिवीगुणं(३) ॥२१॥
प्रतिशब्दोद्भवं शब्दं स्पर्शं स्यात्कर्कशादिकं ॥२१॥
शुक्लादिकं भवेद्रूपं रसमन्नादिदर्शनं(४) ॥२२॥
धूपादिगन्धं गन्धन्तु वाग्भेर्यादिषु संस्थिता ॥२२॥
शुकनाशाश्रिता नासा बाहू तद्रथकौ स्मृतौ ॥२३॥
शिरस्त्वण्डं निगदितं कलशं मूर्धजं स्मृतं ॥२३
कण्ठं कण्ठमिति ज्ञेयं स्कन्धं वेदी निगद्येते ॥२४॥
पायूपस्थे प्रणाले तु त्वक्सुधा परिकीर्तिता ॥२४॥
मुखं द्वारं भवेदस्य प्रतिमा जीव उच्यते ॥२५॥
तच्छक्तिं पिण्डिकां विद्धि प्रकृतिं च तदाकृतिं ॥२५॥
-- - - - -- - - - -- - - -- - - -- - - - - -- -
टिप्पणी
१ मूर्तिभूतमिति ख, ङ, चिह्नितपुस्तकपाठः
२ धरणाद्वारुणीं विद्धि इति ख, चिह्नितपुस्तकपाठः । धरणाद्वारुणीं देवीमिति ग, चिह्नितपुस्तकपाठः । धारणीं धरणीं विद्धि इति ङ, चिह्नितपुस्तकपाठः
३ पार्थिवं पृथिवीतलमिति ख, चिह्नितपुस्तकपाठः । पार्थिवं पृथिवीजलमिति ग, चिह्नितपुस्तकपाठः
४ रसमास्थाय दर्शनं रसमाह्वादि दर्शनमिति ख, चिह्नितप्सुअतकपाठः
-- - - - -- - - - -- - - -- - - -- - - - - -- -
निश्चलत्वञ्च गर्भोस्या अधिष्ठाता तु केशवः ॥२६॥
एवमेव हरिः साक्षात्प्रासादत्वेन संस्थितः ॥२६॥
जङ्घा त्वस्य शिवो ज्ञेयः स्कन्धे धाता व्यवस्थितः ॥२७॥
ऊर्ध्वभागे स्थितो विष्णुरेवं तस्य स्थितस्य हि ॥२७॥
प्रासादस्य प्रतिष्ठान्तु ध्वजरूपेण मे शृणु ॥२८॥
ध्वजं कृत्वा सुरैर्दैत्या जिताः शस्त्रादिचिह्नितं(१) ॥२८॥
अण्डोर्ध्वं कलशं न्यस्य तदूर्ध्वं विन्यसेद्ध्वजं ॥२९॥
विम्बार्धमानं दण्डस्य(२) त्रिभागेनाथ कारयेत् ॥२९॥
अष्टारं द्वादशारं वा मध्ये मूर्तिमतान्वितं ॥३०॥
नारसिंहेन तार्क्ष्येण ध्वजदण्डस्तु निर्ब्रणः ॥३०॥
प्रासादस्य तु विस्तारो मानं दण्डस्य कीर्तितं ॥३१॥
शिखरार्धेन वा कुर्यात्तृतीयार्धेन वा पुनः ॥३१॥
द्वारस्य दैर्घ्याद्द्विगुणं दण्डं वा परिकल्पयेत् ॥३२॥
ध्वजयष्टिर्देवगृहे ऐशान्यां वायवेथवा ॥३२॥
क्षौमाद्यैश्च ध्वजं कुर्याद्विचित्रं वैकवर्णकं(३) ॥३३॥
घण्टाचामरकिङ्किण्या भूषितं पापनाशनं ॥३३॥
दण्डाग्राद्धरणीं यावद्धस्तैकं विस्तरेण तु ॥३४॥
महाध्वजः सर्वदः स्यात्तुर्यांशाद्धीनतोर्चितः ॥३४॥
ध्वजे चार्धेन विज्ञेया पताका मानवर्जिता ॥३५॥
विस्तरेण ध्वजः कार्यो विंशदङ्गुलसन्निभः ॥३५॥
अधिवासविधानेन चक्रं दण्डं ध्वजं तथा ॥३६॥
-- - - - -- - - - -- - - -- - - -- - - - - -- -
टिप्पणी
१ जिताः शक्त्यादिचिह्नितमिति ख, चिह्नितपुस्तकपाठः । जिताः शक्रादिचिह्नितमिति ग, चिह्नितपुस्तकपाठः
२ विम्बार्धमानं चक्रन्तु इति ख, ङ, चिह्नितपुस्तकपाठः
३ विचित्रञ्चैव वर्णकमिति ख, चिह्नितपुस्तकपाठः
-- - - - -- - - - -- - - -- - - -- - - - - -- -
देववत्सकलं कृत्वा मण्डपस्नपनादिकं ॥३६॥
नेत्रोन्मीलनकं त्यक्ता पूर्वोक्तं सर्वमाचरेत् ॥३७॥
अधिवासयेच्च विधिना शय्यायां स्थाप्य देशिकः ॥३७॥
ततः सहस्रशीर्षेति सूक्तं चक्रे न्यसेद्बुधः ॥३८॥
तथा सुदर्शनं मन्त्रं मनस्तत्त्वं निवेशयेत् ॥३८॥
मनोरूपेण तस्यैव सजीवकरणं स्मृतं ॥३९॥
अरेषु मूर्तयो न्यस्याः केशवाद्याः सुरोत्तम ॥३९॥
नाभ्यब्जप्रतिनेमीषु न्यसेत्तत्त्वानि देशिकः ॥४०॥
नृसिंहं विश्वरूपं वा अब्जमध्ये निवेशयेत् ॥४०॥
सकलं विन्यसेद्दण्डे सूत्रात्मानं सजीवकं ॥४१॥
निष्कलं परमात्मानं ध्वजे ध्यायन्न्यसेद्धरिं ॥४१॥
तच्छक्तिं व्यापिनीं ध्यायेद्ध्वजरूपां बलाबलां(१) ॥४२॥
मण्डपे(२) स्थाप्य चाभ्यर्च्य होमं कुण्डेषु कारयेत् ॥४२॥
कलशे स्वर्णकलशं न्यस्य रत्नानि पञ्च च ॥४३॥
स्थापयेच्चक्रमन्त्रेण स्वर्णचक्रमधस्ततः(३) ॥४३॥
पारदेन तु सम्प्लाव्य नेत्रपट्टेन च्छादयेत्(४) ॥४४॥
ततो निवेशयेच्चक्रं तन्मध्ये नृहरिं स्मरेत् ॥४४॥
ओं क्षों नृसिंहाय(५) नमः पूजयेत्स्थापयेद्धरिं ॥४५॥
ततो ध्वजं गृहीत्वा तु यजमानः सबान्धवः ॥४५॥
-- - - - -- - - - -- - - -- - - -- - - - - -- -
टिप्पणी
१ चलाचलामिति ख, ङ, चिह्नितपुस्तकपाठः, सुलोचनमिति ग, चिह्नितपुस्तकपाठः
२ मण्डले इति ग, ङ, चिह्नितपुस्तकद्वयपाठः
३ स्वर्णचक्रन्तु मध्यत इति ङ, चिह्नितपुस्तकपाठः
४ नेत्रं यत्नेन च्छादयेदिति ङ, चिह्नितपुस्तकपाठः
५ ओं क्षौं नृसिंहाय नम इति ख, चिह्नितपुस्तकपाठः
-- - - - -- - - - -- - - -- - - -- - - - - -- -
दधिभक्तयुते पात्रे ध्वजस्याग्रं निवेशयेत् ॥४६॥
ध्रुवाद्येन फडन्तेन ध्वजं मन्त्रेण पूजयेत् ॥४६॥
शिरस्याधाय तत्पात्रं नारायनमनुस्मरन् ॥४७॥
प्रदक्षिणं तु कुर्वीत तुर्यमङ्गलनिःस्वनैः ॥४७॥
ततो निवेशयेत्दण्डं मन्त्रेणाष्टाक्षरेण तु ॥४८॥
मुञ्चामि त्वेति सूक्तेन ध्वजं मुञ्चेद्विचक्षणः ॥४८॥
पात्रं ध्वजं कुञ्जरादि दद्यादाचार्यके द्विजः ॥४९॥
एष साधारणः प्रोक्तो ध्वजस्यारोहणे विधिः ॥४९॥
यस्य देवस्य यच्चिह्नं तन्मन्त्रेण स्थिरं चरेत् ॥५०॥
स्वर्गत्वा ध्वजदानात्तु राजा बली भवेत् ॥५०॥
इत्यादिमहापुराणे आग्नेये ध्वजारोहणं नाम एकषष्टितमोऽध्यायः

N/A

References : N/A
Last Updated : September 16, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP