संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
कूपादिप्रतिष्ठाकथनं

अध्याय ६४ - कूपादिप्रतिष्ठाकथनं

अग्निदेवाच्या मुखातून हे पुराण सांगितले गेले म्हणून ह्या पुराणाचे नाव 'अग्नि पुराण' पडले.


भगवानुवाच
कूपवापीतडागानां प्रतिष्ठां वच्मि तां शृणु ॥१॥
जलरूपेण हि हरिः सोमो वरुण उत्तम ॥१॥
अग्नीषोममयं विश्वं विष्णुरापस्तु कारणं ॥२॥
हैमं रौप्यं रत्नजं वा वरुणं कारयेन्नरः ॥२॥
द्विभुजं हंसपृष्ठस्थं दक्षिणेनाभयप्रदं ॥३॥
वामेन नागपाशं तं नदीनागादिसंयुतं ॥३॥
यागमण्डपमध्ये स्याद्वेदिका कुण्डमण्डिता ॥४॥
तोरणं वारुणं कुम्भं न्यसेच्च करकान्वितं ॥४॥
भद्रके चार्धचन्द्रे वा स्वस्तिके द्वारि कुम्भकान् ॥५॥
अग्न्याधानं चाप्यकुण्डे कृत्वा पूर्णां प्रदापयेत् ॥५॥
वरुणं स्नानपीठे तु ये ते शतेति संस्पृशेत् ॥६॥
घृतेनाभ्यञ्जयेत्पश्चान्मूलमन्त्रेण देशिकः ॥६॥
शन्नो देवीति प्रक्षाल्य शुद्धवत्या शिवोदकैः ॥७॥
अधिवासयेदष्टकुम्भान् सामुद्रं पूर्वकुम्भके ॥७॥
कूप-वापी प्रतिष्ठा

गाङ्गमग्नौ वर्षतोयं दक्षे रक्षस्तु नैर्झरं ॥८॥
नदीतोयं पश्चिमे तु वायव्ये तु नदोदकं ॥८॥
औद्भिज्जं चोत्तरे स्थाप्य ऐशान्यां तीर्थसम्भवं ॥९॥
अलाभे तु नदीतोयं(१) यासां राजेति मन्त्रयेत्(२) ॥९॥
यासां राजा - अथर्व १.३३.२
देवं निर्मार्ज्य निर्मञ्छ्य दुर्मित्रियेति विचक्षणः(३) ॥१०॥
नेत्रे चोन्मीलयेच्चित्रं तच्चक्षुर्मधुरत्रयैः ॥१०॥
चित्रं - शु.यजु. १३.४६, तच्चक्षु - शु.यजु. ३६.२४
ज्योतिः सम्पूरयेद्धैम्यां गुरवे गामथार्पयेत् ॥११॥
समुद्रज्येष्ठेत्यभिषिञ्चयेद्वरुणं पूर्वकुम्भतः ॥११॥
समुद्रज्येष्ठा - ऋ. ७.४९.१
समुद्रं गच्छ गाङ्गेयात्सोमो धेन्विति वर्षकात् ॥१२॥
समुद्रं गच्छ - यजु. ६.२१, सोमो धेनु - शु.यजु. ३४.२१
देवीरापो निर्झराद्भिर्नदाद्भिः पञ्चनद्यतः ॥१२॥
देवीरापो - शु.यजु. ६.२७, पञ्चनद्य - शु.यजु. ३४.११
उद्भिदद्भ्यश्चोद्भिदेन पावमान्याथ तीर्थकैः ॥१३॥
आपो हि ष्ठा पञ्चगव्याद्धिरण्यवर्णेति स्वर्णजात् ॥१३॥
आपो हि ष्ठा - शु.यजु. ११.५०, हिरण्यवर्णा-
आपो अस्मेति वर्षोत्थैर्व्याहृत्या कूपसम्भवैः ॥१४॥
आपो अस्मान्- शु.यजु. ४.२
वरुणञ्च तडागोत्थैर्वरुणाद्भिस्तु वश्यतः ॥१४॥
आपो देवीति गिरिजैरेकाशीति घटैस्ततः ॥१५॥
आपो देवी - शु.यजु. १२.३५
स्नापयेद्वरुणस्येति त्वन्नो वरुण चार्घ्यकं ॥१५॥
वरुणस्य - शु.यजु. ४.३६, त्वन्नो अग्ने वरुण - शु.यजु. २१.३
व्याहृत्या मधुपर्कन्तु बृहस्पतेति वस्त्रकं ॥१६॥
बृहस्पते- शु.यजु. २६.३
वरुणेति पवित्रन्तु प्रणवेनोत्तरीयकं ॥१६॥
वरुण - शु.यजु. २१.१
टिप्पणी
१ नदीक्षोदमिति ख, चिह्नितपुस्तकपाठः
२ आसां रुद्रेति कीर्तयेदिति ङ, ग, चिह्नितपुस्तकपाठः
३ इन्द्रियेति विचक्षण इति ग, घ, चिह्नितपुस्तकपाठः
यद्वारण्येन पुष्पादि प्रदद्याद्वरुणाय तु ॥१७॥
चामरं दर्पणं छत्रं व्यजनं वैजयन्तिकां ॥१७॥
मूलेनोत्तिष्ठेत्युत्थाप्य तां रात्रिमधिवासयेत् ॥१८॥
वरुणञ्चेति सान्निध्यं यद्वारण्येन पूजयेत् ॥१८॥
सजीवीकरणं मूलात्पुनर्गन्धादिना यजेत् ॥१९॥
मण्डपे(१) पूर्ववत्प्रार्च्य कुण्डेषु समिदादिकं ॥१९॥
वेदादिमन्त्रैर्गन्धाद्याश्चतस्रो धेनवो दुहेत् ॥२०॥
दिक्ष्वथो वै यवचरुं ततः संस्थाप्य होमयेत्(२) ॥२०॥
व्याहृत्या वाथ गायत्र्या मूलेनामन्त्रयेत्तथा ॥२१॥
सूर्याय प्रजापतये द्यौः स्वाहा चान्तरिक्षकः ॥२१॥
तस्यै पृथिव्यै देहधृत्यै इह स्वधृतये ततः ॥२२॥
इह रत्यै चेह रमत्या उग्रो भीमश्च रौद्रकः ॥२२॥
विष्णुश्च वरुणो धाता रायस्पोषो महेन्द्रकः(३) ॥२३॥
अग्निर्यमो नैर्ऋतोऽथ वरुणो वायुरेव च ॥२३॥
कुबेर ईशोऽनन्तोऽथ ब्रह्मा राजा जलेश्वरः ॥२४॥
तस्मै स्वाहेदं विष्णुश्च तद्विप्रासेति होमयेत् ॥२४
सोमो धेन्विति षड् हुत्वा इमं मेति च होमयेत् ॥२५॥
आपो हि ष्ठेति तिसृभिरिमा रुद्रेति होमयेत् ॥२५॥
दश दिक्षु बलिं दद्यात्गन्धपुष्पादिनार्चयेत् ॥२६॥
प्रतिमां तु समुत्थाप्य मण्डले विन्यसेद्बुधः ॥२६॥
पूजयेद्गन्धपुष्पाद्यैर्हेमपुष्पादिभिः क्रमात् ॥२७॥
टिप्पणी
१ मण्डले इति ख, ङ, चिह्नितपुस्तकद्वयपाठः
२ मूले त्वग्नौ च होमयेदिति ङ, चिह्नितपुस्तकपाठः
३ वायुः सोमो महेन्द्रक इति ङ, चिह्नितपुस्तकपाठः
जलाशयांस्तु दिग्भागे वितस्तिद्वयसम्मितान् ॥२७
कृत्वाष्टौ स्थण्डिलान् रम्यान् सैकतान् देशिकोत्तमः ॥२८॥
वरुणस्येति मन्त्रेण साज्यमष्टशतं ततः ॥२८॥
चरुं यवमयं हुत्वा(१) शान्तितोयं समाचरेत् ॥२९॥
सेचयेन्मूर्ध्नि देवं तु सजीवकरणं चरेत् ॥२९॥
ध्यायेत्तु वरुणं युक्तं गौर्या नदनदीगणैः ॥३०॥
ओं वरुणाय नमोऽभ्यर्च्य ततः सान्निध्यमाचरेत् ॥३०॥
उत्थाप्य(२) नागपृष्ठाद्यैर्भ्रामयेत्तैः समङ्गलैः ॥३१॥
आपो हि ष्ठेति च क्षिपेत्त्रिमध्वाक्ते घटे जले ॥३१॥
जलाशये मध्यगतं सुगुप्तं विनिवेशयेत् ॥३२॥
स्नात्वा ध्यायेच्च वरुणं सृष्टिं ब्रह्माण्डसञ्ज्ञिकां ॥३२॥
अग्निबीजेन सन्दग्द्ध्य तद्भस्म प्लावयेद्धरां ॥३३॥
सर्वमापोमयं लोकं ध्यायेत्तत्र जलेश्वरं ॥३३॥
तोयमध्यस्थितं देवं ततो यूपं निवेशयेत् ॥३४॥
चतुरस्रमथाष्टास्रं वर्तुलं वा प्रवर्तितं(३) ॥३४॥
आराध्य देवतालिङ्गं दशहस्तं तु कूपके ॥३५॥
यूपं यज्ञीयवृक्षोत्थं मूले हैमं फलं न्यसेत् ॥३५॥
वाप्यां पञ्चदशकरं पुष्करिण्यां तु विंशकम् ॥३६॥
तडागे पञ्चविंशाख्यं जलमध्ये निवेशयेत् ॥३६॥
यागमण्डपाङ्गेण वा यूपव्रस्केति मन्त्रतः (४) ॥३७॥
यूपव्रस्का - ऋ. १.१६२.६
स्थाप्य तद्वेष्टयेद्वस्त्रैर्यूपोपरि पताकिकां ॥३७॥
टिप्पणी
१ चरुं सचमसं हुत्वेति ख, चिह्नितपुस्तकपाठः
२ उत्थाय इति ख, ग, घ, चिह्नितपुस्तकपाठः
३ सुवर्तितमिति ङ, चिह्नितपुस्तकपाठः
४ यूपस्थानेति मन्त्रत इति ग, घ, ङ, चिह्नितपुस्तकपाठः
तदभ्यर्च्य च गन्धाद्यैर्जगच्छान्तिं समाचरेत् ॥३८॥
दक्षिणां गुरवे दद्याद्भूगोहेमाम्बुपात्रकं ॥३८
द्विजेभ्यो दक्षिणा देया आगतान् भोजयेत्तथा ॥३९॥
आब्रह्मस्तम्बपर्यन्ता ये केचित्सलिलार्थिनः ॥३९॥
ते तृप्तिमुपगच्छन्तु तडागस्थेन वारिणा ॥४०॥
तोयमुत्सर्जयेदेवं(१) पञ्चगव्यं विनिक्षिपेत् ॥४०॥
आपो हि ष्ठेति तिसृभिः शान्तितोयं द्विजैः कृतं ॥४१॥ आपो हि ष्ठा - शु.यजु. ११.५०
तीर्थतोयं क्षिपेत्पुण्यं गोकुलञ्चार्पयेद्द्विजान्(२) ॥४१॥
अनिवारितमन्नाद्यं सर्वजन्यञ्च कारयेत् ॥४२॥
अश्वमेधसहस्राणां सहस्रं यः समाचरेत् ॥४२॥
एकाहं स्थापयेत्तोयं तत्पुण्यमयुतायुतं ॥४३॥
विमाने मोदते स्वर्गे नरकं न स गच्छति ॥४३॥
गवादि पिबते यस्मात्तस्मात्कर्तुर्न पातकं ॥४४॥
तोयदानात्सर्वदानफलं प्राप्य दिवं यजेत् ॥४४॥

इत्यादिमहापुराणे आग्नेये कूपवापीतडागादिप्रतिष्ठाकथनं नाम चतुःषष्टितमोऽध्यायः ॥

N/A


References : N/A
Last Updated : September 16, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.