संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
पुष्पाध्यायकथनं

अध्याय २०२ - पुष्पाध्यायकथनं

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
पुष्पगन्धधूपदीपनैवेद्यैस्तुष्यते हरिः ॥१॥
पुष्पाणि देवयोग्यानि ह्ययोग्यानि वदामि ते ॥१॥
पुष्पं श्रेष्ठं मालती च तमालो भुक्तिमुक्तिमान् ॥२॥
मल्लिका सर्वपापघ्नी यूथिका विष्णुलोकदा ॥२॥
अतिमुक्तमयं तद्वत्पाटला विष्णुलोकदा ॥३॥
करवीरैर्विष्णुलोकी जवापुष्पैश्च पुण्यवान् ॥३॥
पावन्तीकुब्जकाद्यैश्च तगरैर्विष्णुलोकभाक् ॥४॥
कर्णिकारैर्विष्णुलोकः करुण्ठैः पापनाशनं ॥४॥
पद्मैश्च केतकीभिश्च कुन्दपुष्पैः परा गतिः ॥५॥
वाणपुष्पैर्वर्वराभिः कृष्णाभिर्हरिलोकभाक् ॥५॥
अशोकैस्तिलकैस्तद्वदटरूषभवैस्तथा ॥६॥
मुक्तिभागी बिल्वपत्रैः शमीपत्रैः परा गतिः ॥६॥
विष्णुलोकी भृङ्गराजैस्तमालस्य दलैस्तथा ॥७॥
तुलसी कृष्णगौराख्या कल्हारोत्पलकानि च ॥७॥
पद्मं कोकनदं पुण्यं शताब्जमालया हरिः ॥८॥
नीपार्जुनकदम्बैश्च(१) वकुलैश्च सुगन्धिभिः ॥८॥
किंशुकैर्मुनिपुष्पैस्तु गोकर्णैर्नागकर्णकैः ॥९॥
सन्ध्यापुष्पैर्बिल्वतकै रञ्जनीकेतकीभवैः(२) ॥९॥
कुष्माण्डतिमिरोत्थैश्च कुशकाशशरोद्भवैः ॥१०॥
द्यूतादिभिर्मरुवकैः पत्रैरन्यैः सुगन्धिकैः ॥१०॥
भुक्तिमुक्तिः पापहानिर्भक्त्या सर्वैस्तु तुष्यति ॥११॥
स्वर्णलक्षाधिकं पुष्पं माला कोटिगुणाधिका ॥११॥
स्ववनेऽन्यवने पुष्पैस्त्रिगुणं वनजैः फलं(३) ॥१२॥
विशीर्णैर्नार्चयेद्विष्णुन्नाधिकाङ्गैर्न मोटितैः ॥१२॥
काञ्चनारैस्तथोन्मत्तैर्गिरिकर्णिकया तथा ॥१३॥
टिप्पणी
१ मुक्तिभागो कदम्बैश्चेति ङ..
२ रजनीकेतकीभवैरिति ख.. , ङ.. , छ.. , ज.. च
३ जलजैः फलमिति ङ..
कुटजैः शाल्मलीयैश्च(१) शिरीषैर्नरकादिकं ॥१३॥
सुगन्धैर्ब्रह्मपद्मैश्च(२) पुष्पैर्नीलोत्पलैर्हरिः(३) ॥१४॥
अर्कमन्दारधुस्तूरकुसुमैरर्च्यते हरः ॥१४॥
कुटजैः कर्कटीपुष्पैः केतकीन्न शिवे ददेत् ॥१५॥
कुष्माण्डनिम्बसम्भूतं पैशाचं गन्धवर्जितं ॥१५॥
अहिंसा इन्द्रियजयः(४) क्षान्तिर्ज्ञानं(५) दया श्रुतं ॥१६॥
भावाष्तपुष्पैः सम्पूज्य देवान् स्याद्भुक्तिमुक्तिभाक् ॥१६॥
अहिंसा प्रथमं पुष्पं पुष्पमिन्द्रियनिग्रहः ॥१७॥
सर्वपुष्पं दया भूते पुष्पं शान्तिर्विशिष्यते ॥१७॥
शमः पुष्पं तपः पुष्पं ध्यानं पुष्पं च सप्तमं ॥१८॥
सत्यञ्चैवाष्टमं पुष्पमेतैस्तुष्यति केशवः ॥१८॥
एतैरेवाष्टभिः पुष्पैस्तुष्यत्येवार्चितो हरिः ॥१९॥
पुष्पान्तराणि सन्त्यत्र वाह्यानि मनुजोत्तम ॥१९॥
भक्त्या दयान्वितैर्विष्णुः पूजितः परितुष्यति(६) ॥२०॥
वारुणं सलिलं पुष्पं सौम्यं घृतपयोदधि ॥२०॥
प्राजापत्यं तथान्नादि आग्नेयं धूपदीपकं ॥

फलपु२दिकञ्चैव वानस्पत्यन्तु पञ्चमं ॥२१॥
पार्थिवं कुशमूलाद्यं वायव्यं गन्धचन्दनं ॥२२॥
टिप्पणी
१ शाल्मलिजैश्चेति ख.. , ग.. , ङ.. च
२ सुगन्धैः पत्रपुष्पैश्चेति ङ..
३ पूज्यो नीलोत्पलैर्हरिरिति ख.. , ग.. , ङ.. , ज.. च
४ अहिंसा इन्द्रियययम इति ग..
५ क्षान्तिर्दानमिति ख..
६ अहिंसा प्रथमं पुष्पमित्यादिः, पूजितः परितुष्यति इत्यन्तः पाठः ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. , ञ.. , ट.. पुस्तकेषु नास्ति
श्रद्धाख्यं विष्णुपुष्पञ्च सर्वदा चाष्टपुष्पिकाः ॥२२॥
आसनं मूर्तिपञ्चाङ्गं(१) विष्णुर्वा चाष्टपुष्पिकाः ॥२३॥
विष्णोस्तु वासुदेवाद्यैरीशानाद्यैः शिवस्य वा ॥२३॥

इत्याग्नेये महापुराणे पुष्पाध्यायो नाम द्व्यधिकद्विशततमोऽध्यायः ॥
टिप्पणी
१ आसनं मूर्तिषोढाङ्गमिति ख..

N/A

References : N/A
Last Updated : September 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP