संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
प्रासाददेवतास्थापनम् भूतशान्त्यादिकथनम्

अध्याय ४३ - प्रासाददेवतास्थापनम् भूतशान्त्यादिकथनम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


भगवानुवाच
प्रासादे देवताः स्थाप्या वक्ष्ये ब्रह्मन् श्रृणुष्व मे ।
पञ्चायतनमध्ये तु वासुदेवं विवेशयेन् ॥१॥

वामनं नृहरिञ्चाश्वशीर्षं तद्वच्च शूकरम् ।
आग्नेये नैर्ऋते चैव वायव्ये चेशगोचरे ॥२॥

अथ नारायणं मध्ये आग्नेय्यामम्बिकां न्यसेत् ।
नैर्ऋत्यां भास्करं वायौ ब्रह्माणं लिङ्गमीशके ॥३॥

अथवा रुद्ररूपन्तु अथवा नवधामसु ।
वासुदेवं न्यसेन्मध्ये पूर्वादौ वामवामकान् ॥४॥

इन्द्रादीन् लोकपालांश्च अथवा नवधामसु ।
पञ्चायतनकं कुर्य्यात् मध्ये तु पुरुषोत्तमम् ॥५॥

लक्ष्मीवैश्रवणौ पूर्वं दक्षे मातृगणं न्यसेत् ।
स्कन्दं गणेशमीशानं सुर्य्यादीन् पश्चिमे ग्रहान् ॥६॥

उत्तरे दशमत्स्यादीनाग्नेय्यां चण्डिकां तथा ।
नैर्ॠत्यामम्बिकां स्थाप्य वायव्ये तु सरस्वतीम् ॥७॥

पद्मामैशे वासुदेवं मध्ये नारायणञ्च वा ।
त्रयोदशालये मध्ये विश्वरूपं न्यसेद्धरिम् ॥८॥

पूर्वांदौ केशवादीन् वा अन्यधामस्वयं हरिम् ।
मृण्मयी दारुघटिता लोहजा रत्नजा तथा ॥९॥

शैलजा गन्धजा चैव कौसुमी सप्तदा स्मृता ।
कौसुमी गन्धजा चैव मृण्मयी प्रतिमा तथा ॥१०॥

तत्‌कालपूजिताश्चैताः सर्वकामफलप्रदाः ।
अथ शैलमयी वक्ष्ये शिला यत्र च गृह्यते ॥११॥

पर्वतानामभावे च गृह्णीयाद् भूगतां शिलाम् ।
पाण्डरा ह्यरुणा पीता कृष्णा शस्ता तु वर्णिनाम् ॥१२॥

न यदा लभ्यते सम्यग् वर्णिनां वर्णतः शिला ।
वर्णाद्यापादनं तत्र जुहुयात् सिंहविद्यया ॥१३॥

शिलायां शुक्लरेखाग्र्या कृष्णाग्र्या सिंहहोमतः ।
कांस्यघण्टानिनादा स्यात् पुंलिङ्गा विस्फुलिङ्गिका ॥१४॥

तन्मन्दलक्षणा स्त्री स्याद्रूपाभावान्नपुंसका ।
दृश्यते मण्डलं यस्यां सगर्भां तां विवर्जयेत् ॥१५॥

प्रतिमार्थं वनं गत्वा वनयागं समाचरेत् ।
तत्र खात्वोपलिप्याथ मण्डपे तु हरिं यजेत् ॥१६॥

बलिं दत्त्वा कर्म्मशस्त्रं टङ्कादिकमथार्च्चयेत् ।
हुत्वाथ शालितोयेन अस्त्रेण प्रोक्षयेच्छिलाम् ॥१७॥

रक्षां कृत्वा नृसिंहेन मूलमन्त्रेण पूजयेत् ।
हुत्वा पूर्णाहुतिं दद्यात्ततो भूतबलिं गुरुः ॥१८॥

अत्र ये संस्थिताः सत्त्वा यातुधानाश्च गुह्यकाः ।
सिद्धादयो वा ये चान्ये तान् सम्पूज्य क्षमापयेत् ॥१९॥

विष्णुबिम्बार्थमस्माकं यात्रैषा केशवाज्ञया ।
विष्ण्वर्थं यद्भवेत् कार्य्यं युष्माकमपि तद्भवेत् ॥२०॥

अनेन बलिदानेन प्रीता भवत सर्वथा ।
क्षेमेण गच्छतान्यत्र मुक्त्वा स्थानमिदं त्वरात् ॥२१॥

एवं प्रबोधिताः सत्त्वा यान्ति तृप्ता यथासुखम् ।
शिल्पिभिश्च चरुं प्रास्य स्वप्नमन्त्रं जपेन्निशि ॥२२॥

ओं नमः सकललोकाय विष्णवे प्रभविष्णवे ।
विश्वाय विश्वरूपाय स्वप्नाधिपतये नमः ॥२३॥

आचक्ष्व देवदेवेश प्रसुप्तोस्मि तवान्तिकम् ।
स्वप्ने सर्वाणि कार्याणि हृदिस्थानि तु यानि मे ॥२४॥

ओं ओं ह्रुं फट् विष्णवे स्वाहा ।
शुभे स्वप्ने शुभं सर्वं ह्यशुभे सिंहहोमतः॥
प्रातरर्घ्य शिलायां तु दत्त्वास्त्रेणास्त्रकं यजेत् ॥२५॥

कुद्दालटङ्कशस्त्राद्यं मध्वाज्याक्तमुखञ्चरेत् ।
आत्मानं चिन्तयेद्विष्णुं शिल्पिनं विश्वकर्म्मकम् ॥२६॥

शस्त्रं विष्णवात्मकं दद्यात्मुखपृष्ठादि दर्शयेत् ।
जितेन्द्रियः टङ्कहस्तः शिल्पी तु चतुरस्रकाम् ॥२७॥

शिलां कृत्वा पिण्डिकार्थं किञ्चिन्न्यूनान्तु कल्पयेत् ।
रथे स्थाप्य समानीय सवस्त्रां कारुवेश्मनि ।
पूजयित्वाथ घटयेत् प्रतिमां स तु कर्म्मकृत् ॥२८॥

इत्यादिमहापुराणे आग्नेये शान्त्यादिवर्णनं नाम त्रिचत्वारिंशोऽध्यायः ।

N/A

References : N/A
Last Updated : September 15, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP