संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
सन्धिसिद्धरूपम्

अध्याय ३५० - सन्धिसिद्धरूपम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


स्कन्द उवाच
वक्ष्ये सन्धिसिद्धरूपं स्वरसन्धिमथादितः ।
दण्डाग्रं सागता दधीदं नदीहते मधूदकं ॥१॥

पितॄषभः लॄकारश्च तवेदं सकलोदकं ।
अर्द्धर्च्चोऽयं तवल्कारः सैषा सैन्द्री तवौदनम् ॥२॥

शट्टौघोऽभवदित्येवं व्यसुधीर्वस्वलङ्कृतं ।
पित्रर्थोपवनं दात्री नायको लावको नयः ॥३॥

तइह तयिहेत्यादि तेऽत्र योत्र जलेऽकजं ।
प्रकृतिर्नो अहो एहि अ अवेहि इ इन्द्रकं ॥४॥

उ उत्तिष्ठ कवी एतौ वायू एतौ वने इमे ।
अमी एते यज्ञभूते एहि देव इमन्नय ॥५॥

वक्ष्ये सन्धि व्यञ्जानानां वाग्यतोऽजेकमातृकः ।
षडेते तदिमे वादिवाङ्‌नीतिः षण्मुखादिकम् ॥६॥

वाङ्‌मनसं वाग्‌भावादिर्वाक् श्लक्ष्णं तच्छरीरकं ।
तल्लुनाति तच्चरेच्च क्रुङ्‌ङास्ते सुगण्णिह ॥७॥

भवांश्चरन् भवांश्छात्रो भवांष्टीका भवांष्ठकः ।
भवांस्तीर्थं भवांस्थेयात् भवांल्लेखा भवाञ्जयः ॥८॥

भवाञ्छेते भवाञ्च्‌शेते भवाञ्‌शेते भवाण्डीनः ।
त्वम्भर्त्ता त्वङ्करोष्यादिः सन्धिर्ज्ञयो विसर्गजः ॥९॥

कश्छिन्द्यात् कश्चरेत् कष्टः कष्ठः कस्थश्च कश्चलेत् ।
क खनेत् क करोति स्म क " पठेत् " फलेत वा ॥१०॥

कश्श्वशुरः कः श्वशुरः कस्सावरः कः सावरः ।
कः फलेत कः शयिता कोऽत्र योधः क उत्तमः ॥११॥

देवा एते भो इह सोदरा यान्ति भगो व्रज ।
सुपूः सुदूरात्रिरत्र वायुर्याति पुनर्न हि ॥१२॥

पुनरेति स यातीह एष याति क ईश्वरः ।
ज्योतीरूपं तवच्छत्रं म्लेच्छधीश्छिद्रमच्छिदत् ॥१३॥

इत्यादिमहापुराणे आग्नेये व्याकरणे सन्धिसिद्धरूपं नाम पञ्चाशदधिकत्रिशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 23, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP