संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
मासव्रतानि

अध्याय १९८ - मासव्रतानि

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
मासव्रतकमाख्यास्ये भुक्तिमुक्तिप्रदायकं ॥१॥
आषाढादिचतुर्मासमभ्यङ्गं वर्जयेत्सुधीः ॥१॥
वैशाखे पुष्पलवणन्त्यक्त्वा गोदो नृपो भवेत् ॥२॥
गोदो मासोपवासी च(१) भीमव्रतकरो हरिः(२) ॥२॥
आषाढादिचतुर्मासं प्रातःस्नायी च विष्णुगः ॥३॥
माघे मास्यथ चैत्रे वा गुडधेनुप्रदो भवेत् ॥३॥
गुडव्रतस्तृतीयायां गौरीशः स्यान्महाव्रती ॥४॥
मार्गशीर्षादिमासेषु नक्तकृद्विष्णुलोकभाक् ॥४॥
एकभक्तव्रती तद्वद्द्वादशीव्रतकं पृठक्(३) ॥५॥
फलव्रती चतुर्मासं फलं त्यक्त्वा प्रदापयेत् ॥५॥
श्रावणादिचतुर्मासं व्रतैः सर्वं लभेद्व्रती ॥६॥
आषाढस्य सिते पक्षे एकादश्यामुपोषितः ॥६॥
चातुर्मास्यव्रतानान्तु कुर्वीत परिकल्पनं ॥७॥
आषाढ्याञ्चाथ सङ्क्रान्तौ कर्कटस्य(४) हरिं यजेत् ॥७॥
इदं व्रतं मया देव गृहीतं पुरतस्तव ॥८॥
टिप्पणी
१ मासे यवाशो चेति ख..
२ भीमव्रतपरो हरिरिति ङ..
३ द्वादशीव्रतकं परमिति ङ..
४ आषाढगं वृषसङ्क्रान्त्यां कर्कटे चेति झ..
निर्विघ्नां सिद्धिमायातु प्रसन्ने त्वयि केशव ॥८॥
गृहीतेऽस्मिन् व्रते देव यद्यपूर्णे म्रिये ह्यहं ॥९॥
तन्मे भवतु सम्पूर्णं त्वत्प्रसादाज्जनार्दन ॥९॥
मांसादि त्यक्त्वा(१) विप्रः स्यात्तैलत्यागी हरिं यजेत् ॥१०॥
एकान्तरोपवासी च त्रिरात्रं विष्णुलोकभाक् ॥१०॥
चान्द्रायणी विष्णुलोकी मौनी स्यान्मुक्तिभाजनं ॥११॥
प्राजापत्यव्रती स्वर्गी शक्तुयावकभक्षकः ॥११॥
गुग्धाद्याहारवान् स्वर्गी पञ्चगव्याम्बुभ्क्तथा ॥१२॥
शाकमूलफलाहारी नरो विष्णुपुरीं व्रजेत्(२) ॥१२॥
मांसवर्जी यवाहारो रसवर्जी हरिं व्रजेत् ॥१३॥
कौमुदव्रतमाख्यास्ये आश्विने समुपोषितः ॥१३॥
द्वादश्यां पूजयेद्विष्णुं प्रलिप्याब्जोत्पलादिभिः ॥१४॥
घृतेन तिलतैलेन दीपनैवेद्यमर्पयेत् ॥१४॥
ओं नमो वासुदेवाय मालत्या मालया यजेत् ॥१५॥
धर्मकामार्थमोक्षांश्च प्राप्नुयात्कौमुदव्रती ॥१५॥
सर्वं लभेद्धरिं प्रार्च्य मासोपवासकव्रती ॥१६॥
टिप्पणी
१ मत्स्यादि त्यक्त्वेति ख.. , घ.. , छ.. च । मत्स्यत्यागी तु इति ङ.
२ विष्णुपुरं व्रजेदिति ख.. , ट.. च
इत्याग्नेये महापुराणे मासव्रतानि नाम अष्टनवत्यधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 18, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP