संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
प्रायश्चित्तानि

अध्याय १७० - प्रायश्चित्तानि

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


प्रायश्चित्तानि

पुष्कर उवाच
महापापानुयुक्तानां(१) प्रायश्चित्तानि(२) वच्मिते ॥१॥
संवत्सरेण पतति पतितेन सहाचरन् ॥१॥
याजनाद्ध्यापनाद्यौनान्न तु यानाशनासनात् ॥२॥
यो येन पतितेनैषां संसर्गं याति मानवः ॥२॥
स तस्यैव व्रतं कुर्यात्तत्संसर्गस्य शुद्धये ॥३॥
पतितस्योदकं कार्यं सपिण्डैर्बान्धवैः सह ॥३॥
निन्दितेऽहनि सायाह्णे ज्ञात्यृत्विग्गुरुसन्निधौ ॥४॥
दासो घटमपां पूर्णं पर्यस्येत्प्रेतवत्पदा(३) ॥४॥
अहोरात्रमुपासीतन्नशौचं बान्धवैः सह ॥५॥
निवर्तयेरंस्तस्मात्तु ज्येष्ठांशम्भाषणादिके ॥५॥
ज्येष्ठांशम्प्राप्नुयाच्चास्य यवीयान् गुणतोऽधिकः ॥६॥
टिप्पणी
१ महापापोपपन्नानामिति ङ..
२ प्रायश्चित्तं वदामि त इति झ..
३ प्रेतवत्सदेति ख.. , ग.. , घ.. , ङ.. च
प्रायश्चित्ते तु चरिते पूर्णं कुम्भमपां नवं ॥६॥
तेनैव सार्धं प्राश्येयुः स्नात्वा पुण्यजलाशये ॥७॥
एवमेव विधिं कुर्युर्योषित्सु पपितास्वपि ॥७॥
वस्त्रान्नपानन्देयन्तु वसेयुश्च गृहान्तिके ॥८॥
तेषां द्विजानां सावित्री नानूद्येत(१) यथाविधि ॥८॥
तांश्चारयित्वा त्रीन् कृछ्रान् यथाविध्युपनाययेत् ॥९॥
विकर्मस्थाः परित्यक्तास्तेषां मप्येतदादिशेत् ॥९॥
जपित्वा त्रीणि सावित्र्याः सहस्त्राणि समाहितः ॥१०॥
मासङ्गोष्ठे पयः पीत्वा मुच्यतेऽसत्प्रतिग्रहात् ॥१०॥
ब्रात्यानां याजनं कृत्वा परेषामन्त्यकर्म च ॥११॥
अभिचारमहीनानान्त्रिभिः कृच्छैर्व्यपोहति(२) ॥११॥
शरणागतं परित्यज्य वेदं विप्लाव्य च द्विजः ॥१२॥
संवत्सं यताहारस्तत्पापमपसेधति ॥१२॥
श्वशृगालखरैर्दष्टो ग्राम्यैः क्रव्याद्भिरेव च ॥१३॥
नरोष्ट्राश्वैर्वराहैश्च(३) प्राणायामेन शुद्ध्यति ॥१३॥
स्नातकव्रतलोपे च कर्मत्यागे ह्यभोजनं ॥१४॥
हुङ्कारं(४) ब्राह्मणस्योक्त्वा त्वङ्करञ्च गरीयसः ॥१४॥
स्नात्वानश्नन्नहःशेषमभिवाद्य प्रसादयेत् ॥१५॥
अवगूर्य चरेक्षच्छ्रमतिकृच्छ्रन्निपातने ॥१५॥
कृच्छ्रातिकृच्छ्रं कुर्वीत विप्रस्योत्पाद्य शोणितं ॥१६
टिप्पणी
१ न युज्येतेति ख..
२ कृच्छ्रैर्विशुद्ध्यति इति ग.. , घ.. , ङ.. च
३ नरोष्टविड्वराहैश्चेति ङ..
४ क्रूङ्कारमिति ख.. , घ.. , छ.. च । ओङ्कारमिति ग.. , ङ.. च । हङ्कारञ्चेति ख..
चाण्डालादिरविज्ञातो यस्य तिष्ठेत वेश्मनि ॥१६॥
सम्यग्ज्ञातस्तु कालेन तस्य कुर्वीत शोधनं ॥१७॥
चान्द्रायणं पराकं वा द्विजानान्तु विशोधनं ॥१७॥
प्राजापत्यन्तु शूद्राणां शेषन्तदनुसारतः ॥१८॥
गुंडङ्कुसुम्भं लवणं तथा धान्यानि यानि च ॥१८॥
कृत्वा गृहे ततो द्वारि तेषान्दद्याद्धुताशनं ॥१९॥
मृणमयानान्तु भाण्डानां त्याग एव विधीयते ॥१९॥
द्रव्याणां परिशेषाणां द्रव्यशुद्धिर्विधीयते ॥२०॥
कूपैकपानसक्ता ये स्पर्शात्सङ्कल्पदूषिताः(१) ॥२०॥
शुद्ध्येयुरुपवासेन पञ्चगव्येन वाप्यथ ॥२१॥
यस्तु संस्पृश्य चण्डालमश्नीयाच्च स्वकामतः ॥२१॥
द्विजश्चान्द्रायणं कुर्यात्तप्तकृच्छ्रमथापि वा ॥२२॥
भाण्डसङ्कलसङ्कीर्णश्चाण्डालादिजुगुप्सितैः ॥२२॥
भुक्त्वापीत्वा तथा तेषां षड्रात्रेण विशुद्ध्यति ॥२३॥
अन्त्यानां भुक्तशेषन्तु भक्षयित्वा द्विजातयः ॥२३॥
व्रतं चान्द्रायणं कुर्युस्त्रिरात्रं शूद्र एव तु ॥२४॥
चण्डालकूपभाण्डेषु अज्ञानात्पिवते जलं ॥२४॥
द्विजः शान्तपनं कुर्याच्छूद्रश्चोपवसेद्दिनं ॥२५॥
चण्डालेन तु संस्पृष्टो(२) यस्त्वपः पिवते द्विजः ॥२५॥
त्रिरात्रन्तेन कर्तव्यं शूद्रश्चोपवसेद्दिनं ॥२६
उच्छिष्टेन यदि(३) स्पृष्टः शुना शूद्रेण वा द्विजः ॥२६॥
टिप्पणी
१ स्पर्शसङ्कल्पभूषिता इति झ..
२ संसृष्ट इति क..
३ यदेति ख.. , ग.. , घ.. , ङ.. , छ.. च
उपोष्य रजनीमेकां पञ्चगव्येन शुद्ध्यति ॥२७॥
वैश्येन क्षत्रियेणैव स्नानं नक्तं समाचरेत् ॥२७॥
अध्वानं प्रस्थितो विप्रः कान्तारे यद्यनूदके ॥२८॥
पक्वान्नेन गृहीतेन मूत्रोच्चारङ्करोति वै ॥२८॥
अनिधायैव तद्द्रव्यं अङ्गे कृत्वा तु संस्थितं ॥२९॥
शौचं कृत्वान्नमभ्युक्ष्य अर्कस्याग्नेयश्च दर्शयेत् ॥२९॥
म्लेच्छैर्गतानां चौरैर्वा कान्तारे वा प्रवासिनां ॥३०॥
भक्ष्याभक्ष्यविशुद्ध्यर्थं(१) तेषां वक्ष्यामि निष्कृतिं ॥३०॥
पुनः प्राप्य स्वदेशञ्च वर्णानामनुपूर्वशः ॥३१॥
कृच्छ्रस्यान्ते ब्राह्मणस्तु पुनः संस्कारमर्हति ॥३१॥
पादोनान्ते क्षत्रियश्च अर्धान्ते वैश्य एव च ॥३२॥
पादं कृत्वा तथा शूद्रो दानं दत्वा विशुद्ध्यति ॥३२॥
उदक्या तु सवर्णा या स्पृष्टा चेत्स्यादुदक्यया ॥३३॥
तस्मिन्नेवाहनि स्नाता शुद्धिमाप्नोत्यसंशयं ॥३३॥
रजस्वला तु नाश्नीयात्संस्पृष्टा हीनवर्णया ॥३४॥
यावन्न शुद्धिमाप्नोति शुद्धस्नानेन शुद्ध्यति ॥३४॥
मूत्रं कृत्वा व्रजन्वर्त्म स्मृतिभ्रंशाज्जलं पिवेत् ॥३५॥
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्ध्यति ॥३५॥
मूत्रोच्चारं द्विजः कृत्वा अकृत्वा शौचमात्मनः ॥३६॥
मोहाद्भुक्त्वा(२) त्रिरात्रन्तु यवान् पीत्वा विशुद्ध्यति ॥३६॥
ये प्रत्यवसिता विप्राः प्रव्रज्यादिबलात्तथा ॥३७॥
टिप्पणी
१ भक्ष्यभोज्यविशुद्ध्यर्थमिति झ..
२ लोभाद्भुक्त्वेति ख.. , ग.. , घ.. , ङ.. , छ.. च
अनाशकनिवृताश्च तेषां शुद्धिः प्रचक्ष्यते ॥३७॥
चारयेत्त्रीणि कृच्छ्राणि चान्द्रायणमथापि वा ॥३८॥
जातकर्मादिसंस्कारैः संस्कुर्यात्तं तथा पुनः ॥३८॥
उपानहममेध्यं च यस्य संस्पृशते मुखं ॥३९॥
मृत्तिकागोमयौ तत्र पञ्चगव्यञ्च शोधनं ॥३९॥
वापनं विक्रयञ्चैव नीलवस्त्रादिधारणं ॥४०॥
तपनीयं हि विप्रस्य त्रिभिः कृछ्रैर्विशुद्ध्यति ॥४०॥
अन्त्यजातिश्वपाकेन(१) संस्पृष्टा स्त्री रजस्वला ॥४१॥
चतुर्थेऽहनि शुद्धा सा त्रिरात्रं तत्र आचरेत्(२) ॥४१॥
चाण्डालश्वपचौ स्पृष्ट्वा तथा पूयञ्च सूतिकां ॥४२॥
शवं तत्स्पर्शिनं स्पृष्ट्वा(३) सद्यः स्नानेन शुद्ध्यति ॥४२॥
नारं स्पृष्ट्वास्थि सस्नेहं स्नात्वा विप्रो विशुद्ध्यति ॥४३॥
रथ्यार्कद्दमतोयेन अधीनाभेर्मृदोदकैः ॥४३॥
वान्तो विविक्तः स्नात्वा तु घृतं प्राश्य विशुद्ध्यति ॥४४
स्नानात्क्षुरकर्मकर्ता कृच्छ्रकृद्ग्रहणेऽन्नभुक् ॥४४॥
अपाङ्क्तेयाशी गव्याशी शुना दष्टस्तथा शुचिः ॥४५॥
कृमिदष्टश्चात्मघाती कृच्छ्राज्जप्याच्च होमतः ॥४५॥
होमाद्यैश्चानुतापेन पूयन्ते पापिनोऽखिलाः(४) ॥४६॥॥४६॥
टिप्पणी
१ अन्त्यजैश्च स्वपाकेनेति ङ.
२ अन्त्यजातिश्वपाकेनेत्यादिः, तत्र आचरेदित्यन्तः पाठः छ.. पुस्तके नास्ति
३ शवन्ततत्स्पर्शिनं श्वानमिति ख.. । शवन्तत्स्पृष्टिनं श्वानमिति घ.. , ज.. च
४ मूत्रोच्चारं द्विजः कृत्वेत्यादिः, पूयन्ते पापिनोऽखिला इत्यन्तः पाठः ज.. , झ.. पुस्तके नास्ति

इत्याग्नेये महापुराणे प्रायश्चित्तानि नाम सप्तत्यधिकशततमोऽध्यायः ॥

N/A


References : N/A
Last Updated : September 18, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.