संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
व्रतदानादिसमुच्चयः

अध्याय २०८ - व्रतदानादिसमुच्चयः

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
व्रतदानानि सामान्यं प्रवदामि समासतः ॥१॥
तिथौ प्रतिपदादौ च सूर्यादौ कृत्तिकासु च ॥१॥
विष्कम्भादौ च मेषादौ काले च ग्रहणादिके ॥२॥
यत्काले यद्व्रतं दानं यद्द्रव्यं नियमादि यत् ॥२॥
तद्द्रव्याख्यञ्च कालाख्यं सर्वं वै विष्णुदैवतं ॥३॥
रवीशब्रह्मलक्ष्म्याद्याः(२) सर्वे विष्णोर्विभूतयः ॥३॥
तमुद्दिश्य व्रतं दानं पूजादि स्यात्तु सर्वदं ॥४॥
जगत्पते समागच्छ आसनं पाद्यमर्घ्यकं ॥४॥
मधुपर्कं तथाचामं स्नानं वस्तञ्च गन्धकं ॥५॥
टिप्पणी
१ भोजनानि इति ग.. , ज.. च
२ रवीशब्रह्मलोकेशा इति ज..
पुष्पं धूपश्च दीपश्च नैवेद्यादि नमोऽस्तु ते ॥५॥
इति पूजाव्रते दाने दानवाक्यं समं शृणु ॥६॥
अद्यामुकसगोत्राय विप्रायामुकशर्मणे ॥६॥
एतद्द्रव्यं विष्णुदैवं सर्वपापोपशान्तय्२०८.००७॥
आयुरारोग्यवृद्ध्यर्थं सौभाग्यादिविवृद्धये(१) ॥७॥
गोत्रसन्ततिवृद्ध्यर्थं विजयाय धनाय च ॥८
धर्मायैश्वर्यकामाय तत्पापशमनाय च ॥८॥
संसारमुक्तये दानन्तुभ्यं सम्प्रददे ह्यहं ॥९॥
एतद्दानप्रतिष्ठार्थं तुभ्यमेतद्ददाम्यहं ॥९॥
एतेन प्रीयतां नित्यं सर्वलोकपतिः प्रभुः ॥१०॥
यज्ञदानव्रतपते विद्याकीर्त्यादि देहि मे ॥१०॥
धर्मकामार्थमोक्षांश्च देहि मे मनसेप्सितं ॥११॥
यः पठेच्छृणुयान्नित्यं व्रतदानसमुच्चयं ॥११॥
स प्राप्तकामो विमलो भुक्तिमुक्तिमवाप्नुयात् ॥१२॥
तिथिवारर्क्षसङ्क्रान्तियोगमन्वादिकं व्रतं ॥१२॥
नैकधा वासुदेवादेर्नियमात्पूजनाद्भवेत् ॥१३॥

इत्यागेन्ये महापुराणे व्रतदानसमुच्चयो नाम अष्टाधिकद्विशततमोऽध्यायः ॥
टिप्पणी
१ सौभाग्याय सुष्टद्वये इति क.. , छ.. , ट, च । सौभाग्याय सुबुद्धये इति घ.. , ज.. , ञ.. च

N/A

References : N/A
Last Updated : September 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP