संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
भुवनकोषः

अध्याय १२० - भुवनकोषः

भगवान् अग्निदेवांनी या अग्नि पुराणात चौसष्ट योगनींचे का सविस्तार वर्णन केले आहे.


अग्निरुवाच
विस्तारस्तु स्मृतो भूमेः सहस्राणि च सप्ततिः ॥१॥
उच्छ्रायो दशसाहस्रं पातालञ्चैकमेककं ॥१॥
अतलं वितलञ्चैव नितलञ्च गभस्तिमत् ॥२॥
महाख्यं सुतलञ्चाग्र्यं पातालञ्चापि सप्तमं ॥२॥
कृष्णपीतारुणाः शुक्लशर्कराशैलकाञ्चनाः ॥३॥
भूमयस्तेषु रम्येषु सन्ति दैत्यादयः सुखं ॥३॥
पातालानामधश्चास्ते शेषो विष्णुश्च तामसः ॥४॥
गुणानन्त्यात्स चानन्ततः शिरसा धारयन्महीं ॥४॥
भुवोऽधो नरका नैके न पतेत्तत्र वैष्णवः ॥५॥
रविणा भासिता पृथ्वी यावत्तायन्नभो मतं ॥५॥
भूमेर्योजनलक्षन्तु विशिष्ठरविमण्डलं ॥६॥
रवेर्लक्षेण चन्द्रश्च लक्षान्नाक्षत्रमिन्दुतः ॥६॥
द्विलक्षाद्भाद्बुधश्चास्ते बुधाच्छुक्रो द्विलक्षतः ॥७॥
द्विलक्षेण कुजः शुक्राद्भौमाद्द्विलक्षतो गुरुः ॥७॥
गुरोर्द्विलक्षतः सौरित्ल्लक्षात्सप्तर्षयः शनेः ॥८॥
लक्षाद्ध्रुवो ह्यृषिभ्यस्तु त्रैलोक्यञ्चोच्छ्रयेण च ॥८॥
ध्रुवात्कोट्या महर्लोको यत्र ते कल्पवासिनः ॥९॥
जनो द्विकोटितस्तस्माद्यत्रासन्(१) सनकादयः ॥९॥
जनात्तपश्चाष्तकोट्या वैराजा यत्र देवताः ॥१०॥
षणवत्या तु कोटीनान्तपसः सत्यलोककः ॥१०॥
अपुनर्मारका यत्र ब्रह्मलोको हि स स्मृतः ॥११॥
पादगम्यस्तु भूल्लोको भुवः सूर्यान्तरः स्मृतः ॥११॥
स्वर्गलोको ध्रुवान्तस्तु नियुतानि(२) चतुर्दश ॥१२॥
एतदण्डकटाहेन वृतो ब्रह्माण्डविस्तरः ॥१२॥
वारिवह्न्यनिलाकाशैस्ततो भूतादिना वहिः ॥१३॥
वृतं दशगुणैरण्डं भूतादिर्महता तथा ॥१३॥
दशोत्तराणि शेषाणि एकैकस्मान्मामुने ॥१४॥
महान्तञ्च समावृत्य प्रधानं समवस्थितं ॥१४॥
अनन्तस्य न तस्यान्तः सङ्ख्यानं नापि विद्यते(३) ॥१५॥
हेतुभूतमशेषस्य प्रकृतिः सा परा मुने ॥१५॥
असङ्ख्यातानि शाण्डानि तत्र जातानि चेदृशां ॥१६॥
दारुण्यग्निर्यथा तैलं तिले तद्वत्पुमानिति(४) ॥१६॥
प्रधाने च स्थितो(५) व्यापी चेतनात्मात्मवेदनः ॥१७॥
प्रधानञ्च पुमांश्चैव सर्वभूतात्मभृतया(६) ॥१७॥
विष्णुशक्त्या महाप्राज्ञ वृतौ संश्रयधर्मिणौ ॥१८॥
तयोः(७) सैव पृथग्भावे कारणं संश्रयस्य च ॥१८॥
- -- - -- - - -- - -- - - -- - - - -- - -- -- --
टिप्पणी
१ यत्र वै इति ङ..
२ अयुतानि इति ज..
३ सङ्ख्यानं नैव विद्यते इति घ.. , झ.. च । सङ्ख्यानं न च विद्यते इति ग.
४ पुमानपि इति घ.. , झ.. च
५ प्रधानेऽवस्थितं इति ख.. , ग.. , ङ.. च
६ सर्वभूतानुभूतया इति ङ..
७ द्वयोरिति झ..
- -- - -- - - -- - -- - - -- - - - -- - -- -- --
क्षोभकारणभूतश्च सर्गकाले महामुने ॥१९॥
यथा शैत्यं जले वातो विभर्ति कणिकागतं ॥१९॥
जगच्छक्तिस्तथा विष्णोः प्रधानप्रतिपादिकां ॥२०॥
विष्णुशक्तिं समासाद्य देवाद्याः सम्भवन्ति हि ॥२०॥
स च विष्णुः स्वयं ब्रह्म यतः सर्वमिदं जगत् ॥२१॥
योजनानां सहस्राणि भास्करस्य रथो नव ॥२१॥
ईशादण्डस्तथैवास्य द्विगुणो मुनिसत्तम ॥२२॥
सार्धकोटिस्तथा सप्तनियुतान्यधिकानि वै ॥२२॥
योजनानान्तु तस्याक्षस्तत्र चक्रं प्रतिष्ठितं ॥२३॥
त्रिनाभिमतिपञ्चारं षण्णेमि द्व्ययनात्मकं ॥२३॥
संवत्सरमयं कृत्स्नं कालचक्रं प्रतिष्ठितं ॥२४॥
चत्वारिंशत्सहस्राणि द्वितीयाक्षो विवस्वतः ॥२४॥
पञ्चान्यानि तु सार्धानि स्यन्दनस्य महामते ॥२५॥
अक्षप्रमाणमुभयोः प्रमाणन्तदद्युगार्धयोः ॥२५॥
ह्रस्वोऽक्षस्तद्युगार्धञ्च ध्रुवाधारं रथस्य वै ॥२६॥
हयाश्च सप्त छन्दांसि गायत्र्यादीनि सुव्रत ॥२६॥
उदयास्तमनं ज्ञेयं दर्शनादर्शनं रवेः ॥२७॥
यावन्मात्रप्रदेशे तु वशिष्ठोऽवस्थितो ध्रुवः ॥२७॥
स्वयमायाति तावत्तु भूमेराभूतसम्प्लवे(१) ॥२८॥
ऊर्ध्वोत्तरमृषिभ्यस्तु ध्रुवो यत्र व्यवस्थितः ॥२८॥
एतद्विष्णुपदं दिव्यं तृतीयं व्योम्नि भास्वरं ॥२९॥
निर्धूतदोषपङ्कानां यतीनां स्थानमुत्तमं ॥२९॥
- -- - -- - - -- - -- - - -- - - - -- - -- -- --
टिप्पणी
१ भूमेराहूतसम्प्लवे इति घ.. , ज.. च
- -- - -- - - -- - -- - - -- - - - -- - -- -- --
ततो गङ्गा प्रभवति स्मरणात्पाशनाशनी(१) ॥३०॥
दिवि रूपं हरेर्ज्ञेयं शिशुमाराकृति प्रभो ॥३०॥
स्थितः पुच्छे ध्रुवस्तत्र भ्रमन् भ्रामयति ग्रहान् ॥३१॥
स रथोऽधिष्ठिता देवैरादित्यैर्ऋषिभिर्वरैः(२) ॥३१॥
गन्धर्वैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः(३) ॥३२॥
हिमोष्णवारिवर्षाणां कारणं भगवान् रविः ॥३२॥
ऋग्वेदादिमयो विष्णुः स शुभाशुभकारणं ॥३३॥
रथस्त्रिचक्रः सोमस्य कुन्दाभास्तस्य वाजिनः(४) ॥३३॥
वामदक्षिणतो युक्ता दश तेन चरत्यसौ ॥३४॥
त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च ॥३४॥
त्रयस्त्रिंशत्तथा देवाः पिबन्ति क्षणदाकरं(५) ॥३५॥
एकां कलाञ्च पितर एकामारश्मिसंस्थिताः ॥३५॥
वाय्वग्निद्रव्यसम्भूतो रथश्चन्द्रसुतस्य च ॥३६॥
अष्टाभिस्तुरगैर्युक्तो बुधस्तेन चरत्यपि ॥३६॥
शुक्रस्यापि रथोऽष्टाश्वो भौमस्यापि रथस्तथा ॥३७॥
बृहस्पते रथोऽष्टाश्वः शनेरष्टाश्वको रथः ॥३७॥
स्वर्भानोश्च रथोऽष्टाश्वः केतोश्चाष्टाश्वको रथः ॥३८॥
यदद्य वैष्णवः कायस्ततो विप्र वसुन्धरा ॥३८॥
- -- - -- - - -- - -- - - -- - - - -- - -- -- --
टिप्पणी
१ सर्वपापप्रणाशिनीति ज..
२ ऋषभो रवेरिति ग.. , घ.. , ङ.. , ज.. च
३ सरथ इत्यादिः, राक्षसैरित्यन्तः पाठः झ.. पुस्तके नास्ति
४ कुन्दाभास्तत्र वाजिन इति क.. , घ.. , ङ.. च
५ क्षणदाचरमिति झ..
- -- - -- - - -- - -- - - -- - - - -- - -- -- --
पद्माकरा समुद्भूता पर्वताद्यादिसंयुता ॥३९॥
ज्योतिर्भुवननद्यद्रिसमुद्रवनकं हरिः ॥३९॥
यदस्ति नास्ति तद्विष्णुर्विष्णुज्ञानविजृम्भितं(१) ॥४०॥
न विज्ञानमृते किञ्चिज्ज्ञानं विष्णुः परम्पदं ॥४०॥
तत्कुर्याद्येन विष्णुः स्यात्सत्यं ज्ञानमनन्तकं ॥४१॥
पठेद्भुवनकोषं हि यः सोऽवाप्तसुखात्मभाक् ॥४१॥
ज्योतिःशास्त्रादिविध्याश्च शुभाशुभाधिपो हरिः(२) ॥२४॥४२॥

इत्याग्नेये महापुराणे भुवनकोषो नाम विंशत्यधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 17, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP