संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
देवालयनिर्म्माणफलम्

अध्याय ३८ - देवालयनिर्म्माणफलम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
वासुदेवाद्यालयस्य कृतौ वक्ष्ये फलादिकम् ।
चिकीर्षोर्द्देवधामादि सहस्नजनिपापनुत् ॥१॥

मनसा सद्मकर्त़णां शतजन्माघनाशनम् ।
येनुमोदन्ति कृष्णस्य क्रियमाणं नरा गृहम् ॥२॥

तेपि पापैर्व्विनिर्मुक्ताः प्रयान्त्यच्युतलोकताम् ।
समतीतं भविष्यञ्च कुलानामयुतं नरः ॥३॥

विष्णुलोकं नयत्याशु कारयित्वा हरेर्गृहम् ।
वसन्ति पितरो दृष्ट्वा विष्णुलोके ह्यलङ्‌कृताः ॥४॥

विमुक्ता नारकैर्दुः खैः कर्त्तुः कृष्णस्य मन्दिरम् ।
ब्रह्महत्यादिपापौघघातकं देवतालयम् ॥५॥

फलं यन्नाप्यते यज्ञैर्द्धाम कृत्वा तदाप्यते ।
देवागारे कृते सर्व्वतीर्थस्नानफलं लभेत् ॥६॥

देवाद्यर्थे हतानाञ्च रणे यत्तत्‌फलादिकम् ।
शाठ्येन पांशुना वापि कृतं धाम च नाकदम् ॥७॥

एकायतनकृत् स्वर्गी त्र्यगारी ब्रह्मलोकभाक् ।
पञ्चागारी शम्भुलोकमष्टागाराद्धरौ स्थितिः ॥८॥

षोडशालयकारी तु भुक्तिमुक्तिमवाप्नुयात् ।
कनिष्ठं मध्यमं श्रेष्ठं कारयित्वा हरेर्गृहम् ॥९॥

स्वर्गं च वैष्णवं लोकं मोक्षमाप्नोति च क्रमात् ।
श्रेष्ठमायतनं विष्णोः कृत्वा यद्धनवान् लभेत् ॥१०॥

कनिष्ठेनैव तत् पुण्यं प्राप्नोत्यधनवान्नरः ।
समुत्पाद्य धनं कृत्वा स्वल्पेनापि सुरालयम् ॥११॥

कारयित्वा हरेः पुण्यं सम्प्राप्नोत्यधिकं वरम् ।
लक्षेणाथ सहस्नेण शतेनार्द्धेन वा हरेः ॥१२॥

कारयन् भबनं याति यत्रास्ते गरुडध्वजः ।
बाल्ये तु क्रीडमाना ये पांशुभिर्भवनं हरेः ॥१३॥

वासुदेवस्य कुर्व्वन्ति तेपि तल्लोकगामिनः ।
तीर्थे चायतने पुण्ये सिद्धक्षेत्रे तथाष्टमे ॥१४॥

कर्त्तुरायतन विष्णोर्यथोक्तात् त्रिगुणं फलम् ।
बन्धूकपुष्पविन्यासैः सुधापङ्केन वैष्णवम् ॥१५॥

ये विलिम्पन्ति भवनं ते यान्ति भगवत्‌पुरम् ।
पतितं पतभानन्तु तथार्द्धपतितं नरः ॥१६॥

समुद्धत्य हरेर्द्धाम प्राप्नोति द्विगुणं फलम् ।
पतितस्य तु यः कर्त्ता पतितस्य च रक्षिता ॥१७॥

विष्णोरायतनस्येह स नरो विष्णुलोकभाक् ।
इष्टकानिचयस्तिष्ठेद् यावदायतने हरेः ॥१८॥

सकुलस्तस्य वै कर्त्ता विष्णुलोके महीयते ।
स एव पुण्यवान् पूज्य इह लोके परत्र च ॥१९॥

कृष्णस्य वासुदेवस्य यः कारयति केतनम् ।
जातःस एव सुकृती कुलन्तेनैव पावितम् ॥२०॥

विष्णुरुद्रार्कदेव्यादेर्गृहकर्त्ता स कीर्त्तिभाक् ।
किं तस्य वित्तनिचयैर्मूढस्य परिरक्षिणः ॥२१॥

दुः खार्ज्जितैर्यः कृष्णस्य न कारयति केतनम् ।
नोपभोग्यं धनं यस्य पितृविप्रदिवौकसाम् ॥२२॥

नोपभोगाय बन्धूनां व्यर्थस्तस्य धनागमः ।
यथा ध्रुवो नृणां मृत्युर्वित्तनाशस्तथा ध्रुवः ॥२३॥

मूढस्तत्राऽनुबध्नाति जीवितेथ चले धने ।
यदा वित्तं न दानाय नोपभोगाय देहिनाम् ॥२४॥

नापि कीर्त्यै न धर्मार्थं तस्य स्वाम्येथ को गुणः ।
तस्माद्वित्तं समासाद्य दैवाद्वा पौरुषादथ ॥२५॥

दद्यात् सम्यग् द्विजाग्रथेभ्यः कीर्त्तनानि च कारयेत् ।
दानेभ्यस्चाधिकं यस्मात् कीर्त्तनेभ्यो वरं यतः ॥२६॥

अतस्तत्‌कारयेद्धीमान् विष्ण्वादेर्म्मन्दिरादिकम् ।
विनिवेश्य हरेर्द्धाम भक्तिमद्भिर्न्नरोत्तमैः ॥२७॥

निवेशितं भवेत् कृत्स्नं त्रैलोक्यं सचराचरम् ।
भूतं भव्यं भविष्यञ्च स्थूलं सूक्ष्मं तथेतरत् ॥२८॥

आब्रह्मस्तम्बपर्य्यन्तं सर्व्वं विष्णोः समुद्भवम् ।
तस्य देवादिदेवस्य सर्वगस्य महात्मनः ॥२९॥

निवेश्य भवनं विष्णोर्न्न भूयो भुवि जायते ।
यथा विष्णोर्द्धामकृतौ फलं तद्वद्दिवौकसाम् ॥३०॥

शिवब्रह्मार्क्कविध्नेशचण्डीलक्षग्यादिकात्मनाम् ।
देवालयकृतेः पुण्यं प्रतिमाकरणेधिकम् ॥३१॥

प्रतिमास्थापने यागे फलस्यान्तो न विद्यते ।
मृण्मयाद्दारुजे पुण्यं दारुजादिष्टकाभवे ॥३२॥

इष्टकोत्थाच्छैलजे स्याद्धेमादेरधिकं फलम् ।
सप्तजमन्मकृतं पापं प्रापम्भादेव नश्यति ॥३३॥

देवालयस्य स्वर्गी स्यान्नरकं न स गच्छति ।
कुलानां शतमुद्धृत्य विष्णुलोकं नयेन्नरः ॥३४॥

यमो यमभटानाह देवमन्दिरकारिणः ।
यम उवाच
प्रतिमापूजादिकृतो नानेया नरकं नराः ॥३५॥

देवालयाद्यकर्त्तार आनेयस्ते तु गोचरे
विचरध्वं यथान्यायन्नियोगो मम पाल्यताम् ॥३६॥

नाझाभङ्गं करिष्यन्ति भवतां जन्तवः क्कचित् ।
केवलं ये जगत्तातमनन्तं समुपाश्रिताः ॥३७॥

भवद्भिः परिहर्त्तव्यास्तेषां नात्रास्ति संस्थितिः ।
येच भागवता लोके तच्चित्तास्तत्‌परायमाः ॥३८॥

पूजयन्ति सदा विष्णुं ते वस्त्याज्याः सुदूरतः ।
यस्तिष्ठन् प्रस्वपन् गच्छन्नुत्तिष्ठन् स्खलिते स्थिते ॥३९॥

सङ्गीर्त्तयन्ति गोविन्दं ते वस्त्याज्याः सुदूरतः ।
नित्यनैमित्तिकैर्द्देवं ये यजन्ति जनार्द्दनम् ॥४०॥

नावलोक्या भचवद्भिस्ते तद्‌गता यान्ति तद्गतिम् ।
ये पुष्पधूपवासोभिर्भूषणैश्चातिवल्लभैः ॥४१॥

अर्च्ययन्ति न ते ग्राह्या नराः कृष्णालये गताः ।
उपलेपनकर्त्तारः सम्मार्जनपरश्च ये ॥४२॥

कृष्णालये परित्याज्यास्तेषां पुत्रास्तथा कुलम् ।
येन चायतनं विष्णोः कारितं तत् कुलोद्भवम् ॥४३॥

पुंसां शतं नावलोक्यं भवद्भिर्दुष्टचेतसा ।
यस्तु देवालयं विष्णोर्द्दारुशौलमयं तथा ॥४४॥

कारयेन्मृण्मयं वापि सर्वपापैः प्रमुच्यते ।
अहन्यहनि यज्ञेन यजतो यन्महाफलम् ॥४५॥

प्राप्नोति तत् फलं विष्णोर्यः कारयति केतनम् ।
सप्तलोकमयो विष्णुस्तस्य यः कुरुते गृहम् ॥४६॥

कारयन् भगवद्धाम् नयत्यच्युतलोकताम् ।
सप्तलोकमयो विष्णुस्तस्य यः कुरुते गृहम् ॥४७॥

तारयत्यक्षयांल्लोकानक्षयान् प्रातिपद्यते ।
इष्टकाचयविन्यासो यावनत्यब्दानि तिष्ठति ॥४८॥

तावद्वर्षसहस्नाणि तत्‌कर्त्तु र्द्दि वि संस्थितिः ।
प्रतिमाकृद्विष्णुलोकं स्थापको लीयते हरौ॥

देवसद्मप्रतिकृतिप्रतिष्ठाकृत्तु गोचरे ॥४९॥

अग्निरुवाच
यमोक्ता नानयंस्तेथ प्रतिष्ठादिकृतं हरेः ।
हयशीर्षः प्रतिष्ठार्थं देवानां ब्रह्मणेऽब्रवीत् ॥५०॥

इत्यादिमहापुराणे आग्नेये देवालयादिमाहत्म्यवर्णनं नाम अष्टत्रिंशोऽध्यायः॥

N/A

References : N/A
Last Updated : September 15, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.