संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
युद्धयात्रा

अध्याय २२८ - युद्धयात्रा

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


पुष्कर उवाच
यदा मन्येत नृपतिराक्रन्देन बलीयसा ।
पार्ष्णिग्राहोऽभिभूतो मे तदा यात्रां प्रयोजयेत् ॥१॥

पुष्टा योधा भृता भृत्याः प्रभूतञ्च बलं मम ।
मूलरक्षासमर्थोऽस्मि तैर्गत्वा१ शिविरे व्रजेत् ॥२॥

शत्रोर्वा व्यसने यायात् दैवाद्यैः पीडितं परं ।
भूकम्पो यान्दिशं याति याञ्च केतुर्व्यदूषयत् ॥३॥

विद्विष्टनाशकं सैन्यं सम्भूतान्तःप्रकोपनं२ ।
शरीरस्फुरणे धन्ये तथा सुस्वप्नदर्शने ॥४॥

निमित्ते शकुने धन्ये जाते शत्रुपुरं व्रजेत् ।
पदातिनागबहुलां सेनां प्रावृषि योजयेत् ॥५॥

हेमन्ते शिशिरे चैव रथवाजिसमाकुलां ।
चतुरङ्गबलोपेतां वसन्ते वा शरनमुखे३ ॥६॥

सेना पदातिबहुला शत्रून् जयति सर्वदा ।
अङ्गदक्षिणभागे तु शस्तं प्रस्फुरणं भवेत् ॥७॥

न शस्तन्तु तथा वामे पृष्ठस्य हृदयस्य च ।
लाञ्छनं पिटकञ्चैव विज्ञेयं स्फुरणं तथा ॥८॥


विपर्य्ययेणाभिहितं सव्ये स्त्रीणां शुभं भवेत् ।

इत्यादिमहापुराणे आग्नेये यात्रा नाम अष्टाविंशत्यधिकद्विशततमोऽध्यायः ।

N/A

References : N/A
Last Updated : September 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP