संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
पिण्डिकालक्षणकथनम्

अध्याय ४५ - पिण्डिकालक्षणकथनम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


भगवानुवाच
पिण्डिकालक्षणं वक्ष्ये दैर्घ्यैण प्रतिमासमा ।
उच्छायं प्रतिमार्द्धन्तु चतुः षष्टिपुटां च ताम् ॥१॥

त्यक्त्वा पङ्‌क्तिद्वयं चाधस्तदूद्‌र्ध्वं यत्तु कोष्ठकम् ।
समन्तादुभयोः पार्श्वे अन्तस्थं परिमार्जयेत् ॥२॥

ऊद्‌र्ध्वं पङ्‌क्तिद्वयं त्यक्त्वा अधस्ताद् यत्तु कोष्ठकम् ।
अन्तः सम्मार्जयेत् यत्नात् पार्श्वयोरुभयोः समम् ॥३॥

तयोर्मध्यगतौ तत्र चतुष्कौ मार्जयेत्ततः ।
चतुर्द्धा भाजयित्वा तु ऊद्‌र्ध्वपङ्‌क्तिद्वयं बुधः ॥४॥

मेखला भागमात्रा स्यात् खातं तस्यार्द्धमानतः ।
भागं भागं परित्यज्य पार्श्वयोरुभयोः समम् ॥५॥

दत्त्वा चैकं पदं बाह्ये प्रमाणं कारयेद् बुधः ।
त्रिभागेण च बागस्याग्रे स्यात्तोयविनिर्गमः ॥६॥

नानाप्रकारभेदेन भद्रेयं पिण्डिका शुभा ।
अष्टताला तु कर्त्तव्या देवी लक्ष्मीस्तथा स्त्रियः ॥७॥

भ्रुवौ यवाधिके कार्य्ये यवहीना तु नासिका ।
गोलकेनाधिकं वक्त्रमूद्‌र्ध्वं तिर्य्यग्विवर्जितम् ॥८॥

आयते नयने कार्य्यं त्रिभागोनैर्यवैस्त्रिभिः ।
तदर्द्धेन तु वैपुल्यं नेत्रयोः परिकल्पयेत् ॥९॥

कर्णपाशोऽधिकः कार्य्यः सृक्कणीसमसूत्रतः ।
नम्रं कलाविहीनन्तु कुर्य्यादंशद्वयं तथा ॥१०॥

ग्रीवा सार्द्धकला कार्य्या तद्विस्तारोपशोभिता ।
नेत्रं विना तु विस्तारौ ऊरू जानू च पिण्डिका ॥११॥

अङ्‌घ्निपृष्ठौ स्फिचौ कट्यां यथायोगं प्रकल्पयेत् ।
सप्तांशोनास्तथाङ्गुल्यो दीर्घं विष्कम्भनाहतम् ॥१२॥

नेत्रैकवर्जितायामा जङ्घोरू च तथा कटिः ।
मध्यपार्श्वं च तद्‌वृत्तं घनं पीनं कुचद्वयम् ॥१३॥

तालमात्रौ स्तनौ कार्य्यौ कटिः सार्द्धकलाधिका ।
लक्ष्म शेषं पुरावत्स्यात् दक्षिणे चाम्बुजं करे ॥१४॥

वामे विल्वं स्वियौ पार्श्वे शुभे चामरहस्तके ।
दीर्घघोणस्तुगरुडश्चक्राङ्गाद्यानथो वदे ॥१५॥

इत्यादिमहापुराणे आग्नेये पिण्डिकालक्ष्मादिलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः ।

N/A


References : N/A
Last Updated : September 15, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.