संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
सभास्थापनकथनं

अध्याय ६५ - सभास्थापनकथनं

अग्निदेवाच्या मुखातून हे पुराण सांगितले गेले म्हणून ह्या पुराणाचे नाव 'अग्नि पुराण' पडले.


भगवानुवाच
सभादिस्थानं वक्ष्ये तथैव तेषां प्रवर्तनं ॥१॥
भूमौ परीक्षितायाञ्च वास्तुयागं समाचरेत् ॥१॥
स्वेच्छया तु सभां कृत्वा स्वेच्छया स्थापयेत्सुरान् ॥२॥
चतुष्पथे ग्रामादौ(१) च न शून्ये कारयेत्सभां ॥२॥
निर्मलः कुलमुद्धृत्य कर्ता स्वर्गे विमोदते ॥३॥
अनेन विधिना कुर्यात्सप्तभौमं हरेर्गृहं ॥३॥
यथा राज्ञां तथान्येषां पूर्वाद्याश्च ध्वजादयः ॥४॥
कोणभुजान् वर्जयित्वा चतुःशालं तु वर्तयेत् ॥४॥
त्रिशालं वा द्विशालं वा एकशालमथापि वा ॥५॥
व्ययाधिकं न कुर्वीत व्ययदोषकरं हि तत् ॥५॥
आयाधिके भवेत्पीडा तस्मात्कुर्यात्समं द्वयं ॥६॥
करराशिं समस्तन्तु कुर्याद्वसुगुणं गुरुः ॥६॥
सप्तार्चिषा हृते भागे गर्गविद्याविचक्षणः ॥७॥
अष्टधा भाजिते तस्मिन् यच्छेषं स व्ययो गतः ॥७॥
अथवा करराशिं तु हन्यात्सप्तार्चिषा बुधः ॥८॥
वसुभिः संहृते भागे पृथ्व्यादि(२) परिकल्पयेत् ॥८॥
ध्वजो धूम्रस्तथा सिंहः श्वा वृषस्तु खरो गजः ॥९॥
तथा ध्वाङ्क्षस्तु पूर्वादावुद्भवन्ति विकल्पयेत् ॥९॥
त्रिशालकत्रयं शस्तं उदक्पूर्वविवर्जितं ॥१०॥
याम्यां परगृहोपेतं द्विशालं लभ्यते सदा ॥१०॥
याम्ये शालैकशालं तु प्रत्यक्शालमथापि वा ॥११॥
एकशालद्वयं शस्तं शेषास्त्वन्ये भयावहाः ॥११॥
चतुःशालं सदा शस्तं सर्वदोषविवर्जितं ॥१२॥
एकभौमादि कुर्वीत भवनं सप्तभौमकं ॥१२॥
द्वारवेद्यादिरहितं पूरणेन विवर्जितं ॥१३॥
देवगृहं देवतायाः प्रतिष्ठाविधिना सदा ॥१३॥
टिप्पणी
१ पूश्चतुष्पथग्रामादाविति ख, चिह्नितपुस्तकपाठः
२ ध्वजादि इति ख, चिह्नितपुस्तकपाठः
संस्थाप्य मनुजानाञ्च समुदायोक्तकर्मणा ॥१४॥
प्रातः सर्वौषधीस्नानं कृत्वा शुचिरतन्द्रितः ॥१४॥
मधुरैस्तु द्विजान् भोज्य पूर्णकुम्भादिशोभितं ॥१५॥
सतोरणं स्वस्ति वाच्य द्विजान् गोष्ठहस्तकः(१) ॥१५॥
गृही गृहं प्रविशेच्च दैवज्ञान् प्रार्च्य(२) संविशेत् ॥१६॥
गृहे पुष्टिकरं मन्त्रं पठेच्चेमं समाहितः ॥१६॥
ओं नन्दे नन्दय वाशिष्ठे वसुभिः प्रजया सह ॥१७॥
जये भार्गवदायदे प्रजानां विजयावहे ॥१७॥
पूर्णेऽङ्गिरसदायादे पूर्णकामं कुरुध्व मां ॥१८॥
भद्रे काश्यपदायादे कुरु भद्रां मतिं मम ॥१८॥
सर्ववीजौषधीयुक्ते सर्वरत्नौषधीवृते ॥१९॥
रुचिरे नन्दने नन्दे वासिष्ठे रम्यतामिह ॥१९॥
प्रजापतिसुते देवि चतुरस्रे महीयसि ॥२०॥
सुभगे सुव्रते देवि गृहे काश्यपि रम्यतां ॥२०॥
पूजिते परमाचार्यैर्गन्धमाल्यैरलङ्कृते ॥२१॥
भवभूतिकरे देवि गृहे भार्गवि रम्यतां ॥२१॥
अव्यक्ते व्याकृते पूर्णे मुनेरङ्गिरसः सुते ॥२२॥
इष्टके त्वं प्रयच्छेष्टं प्रतिष्ठां कारयाम्यहं ॥२२॥
देशस्वामिपुरस्वामिगृहस्वामिपरिग्रहे ॥२३॥
मनुष्यधनहस्त्यश्वपशुवृद्धिकरी भव ॥२३॥

इत्यादिमहापुराणे आग्नेये सभागृहस्थापनं नाम पञ्चषष्टितमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 16, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP