संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
भूमिवनौषध्यादिवर्गाः

अध्याय ३६३ - भूमिवनौषध्यादिवर्गाः

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
वक्ष्ये भूपुराद्रिवनौषधिसिंहादिवर्गकान् ।
भूरनन्ता क्षमा धात्री क्ष्माप्या कुः स्याद्धरित्र्यपि ॥१॥

मृन्मृत्तिका प्रशस्ता तु मृत्सा मृत्स्ना च मृत्तिका ।
जगत्त्रिपिष्टपं लोकं भुवनं जगती समा ॥२॥

अयनं वर्त्म मार्गाध्वपन्थानः पदवी सृतिः ।
सरणिः पद्धतिः पद्या वर्त्तन्येकपदीति च ॥३॥

पूः स्त्री पुरीनगर्य्यौ वा पत्तनं पुटभेदनम् ।
स्यानीयं निगमोऽन्यत्तु यन्मूलनगरात्पुरम् ॥४॥

तच्छाशानगरं वेशो वेश्याजनसमाश्रयः ।
आपणस्तु निषद्यायां विपणिः पण्यवीथिका ॥५॥

रथ्या प्रतोली विशिखा स्याच्चयो वप्रमस्त्रियां ।
प्राकारो वरणः शालः प्राचीरं प्रान्ततो वृतिः ॥६॥

भित्तिः स्त्री कुड्यमेडूकं यदन्तर्नस्तकीकसं ।
वासः कुटी द्वयोः शाला सभा सञ्जवनन्त्विदम् ॥७॥

चतुःशालं मुनीनान्तु पर्णशालोटजोऽस्त्रियां ।
चैत्यमायतनन्तुल्ये वाजिशाला तु मन्दुरा ॥८॥

हर्म्यादि धनिनां वासः प्रासादो देवभूभुजां ।
स्त्री द्वार्द्वारं प्रतीहारः स्याद्वितर्द्दिस्तु वेदिका ॥९॥

कपोतपालिकायान्तु विटङ्कं पुंनपुंसकं ।
कवाटमवरन्तुल्ये निःश्रेणिस्त्वधिरोहिणी ॥१०॥

सम्मार्जनी सोधनी स्यात् सङ्‌रोऽवकरस्तथा ।
अद्रिगोत्रगिरिग्रावा गहनं काननं वनं ॥११॥

आरामः स्यादुपवनं कृत्रिमं वनमेव यत् ।
स्यादेतदेव प्रमदवनमन्दः पुरोचितं ॥१२॥

वीथ्यालिरावलिः पङ्‌क्तिश्रेणीलेखास्तु राजयः ।
वानस्पत्यः फलैः पुष्पात्तैरपुष्पाद्वनस्पतिः ॥१३॥

ओषध्यः फलपाकान्ताः पलाशी द्रुद्रुमागमाः ।
स्थाणु वा ना ध्रुवः शङ्कुः प्रफुल्लोत्फुल्लसंस्फुटाः ॥१४॥

पलाशं छदनं पर्णमिध्ममेधः समित् स्त्रियां ।
बोधिद्रुमश्चलदलो दधित्थग्राहिमन्मथाः ॥१५ ।

तस्मिन् दधिफलः पुष्पफलदन्तशठावपि ।
उडुम्बरे हेमदुग्धः कोविदारे द्विपत्रकः ॥१६॥

सप्तपर्णो विशालत्वक् कृतमालं सुवर्णकः ।
आरेवतव्याधिघातसम्पाक चतुरङ्गुलाः ॥१७॥

स्याज्जम्बीरे दन्तशठो वरुणे तिक्तशावकः ।
पुन्नागे पुरुषस्तुङ्गः केशरो देववल्लभः ॥१८॥

पारिभद्रे निम्बतरुर्मन्दारः पारिजातकः ।
वञ्जुलश्चित्रकृच्चाथ द्वौ पीतनकपीतनौ ॥१९॥

आम्रातके मधूके तु गुडपुष्पमधुद्रुमौ ।
पीलौ गुड़फलः स्रंसी नीदेयी चाम्बुवेतसः ॥२०॥

शोभाञ्जने शिग्रुतीक्ष्णगन्धकाक्षीरमोचकाः ।
रक्तोऽसौ मधुशिग्रुः स्यादरिष्टः फेणिलः समौ ॥२१॥

गालवः शावरो लोध्रस्तिरीटस्तिल्वमार्जनौ ।
शेलुः श्लेष्मातकः शीत उद्दालो बहुवारकः ॥२२॥

वैकङ्कतः श्रुवावृक्षो ग्रन्थिलो व्याघ्रपादपि ।
तिन्दुकः स्फूर्जकः कालो नादेयी भूमिजम्बुकः ॥२३॥

काकतिन्दौ पीलुकः स्याकत् पाटलिर्मोक्षमुष्ककौ ।
क्रमुकः पट्टिकाख्यः स्यात् कुम्भी कैटर्य्यकट्फले ॥२४॥

वीरवृक्षोऽरुष्करोऽग्निमुखी भल्लातकी त्रिषु ।
सर्जकासनजीवश्च पीतसालेऽथ मालके ॥२५॥

सर्जाश्वकर्णौ वीरेन्द्रौ इन्द्रद्रुः ककुभोऽर्जुनः ।
इङ्गुदी तापसतरर्मोचा शाल्मलिरेव च ॥२६॥

चिरविल्वो नक्तमालः करजश्च करञ्चके ।
प्रकीर्य्यः पूतिकरजो मर्कट्यङ्गरवल्लरी ॥२७॥

रोही रोहितकः प्लीहशत्रुर्दाड़िमपुष्पकः ।
गायत्री बालतनयः खदिरो दन्तधावनः ॥२८॥

अरिमेदो विट्‌खदिरे कदरः खदिरे सिते ।
पञ्चाङ्गुलो वर्द्धमानस्चञ्चुर्गन्धर्वहस्तकः ॥२९॥

पिण्डीतको मरुवकः पीतदारु च दारु च ।
देवादारुः पूतिकाष्ठं श्यामा तु महीलाह्वया ॥३०॥

लता गोवन्दनी गुन्दा प्रियङ्गुः फलिनी फली ।
मण्डूकपर्णपत्रोर्णनटकट्वङ्गटुण्टुकाः ॥३१॥

श्योनाकशुकनासर्क्षदीर्घवृन्तकुटन्नटाः ।
पीतद्रुः सरलश्चाथ निचुलोऽम्बुज इज्जलः ॥३२॥

काकोडुम्बरिका फल्गुररिष्टः पिचुमर्दकः ।
सर्व्वतोभद्रको निम्बे शिरीषस्तु कपीतनः ॥३३॥

वकुलो वञ्जुलः प्रोक्तः पिच्छिलाऽगुरुशिंशपाः ।
जया जयन्ती तर्कारी कणिका गणिकारिका ॥३४॥

श्रीपर्णमग्निमन्धः स्याद्वत्सको गिरिमल्लिका ।
कालस्कन्धस्तमालः स्यात् तण्डुलीयोऽल्पमारिषः ॥३५॥

सिन्धुवारस्तु निर्गुण्डी सैवास्फोता वनोद्भवा ।
गणिका यूथिकाऽम्बष्ठा सप्तला नवमालिका ॥३६॥

अतिमुक्तः पुण्ड्रकः स्यात्कुमारी तरणिः सहा ।
तत्र शोणे कुरुवकस्तत्र पीते कुरुष्टकः ॥३७॥

नीला झिण्टी द्वयोर्वाणा भ्क्तिण्टी सैरीयकस्तथा ।
तस्मिन् रक्ते कुरुवकः पीते सहचरी द्वयोः ॥३८॥

धुस्तूरः कितवो धूर्त्तो रुचको मातुलङ्गके ।
समीरणो मरुवकः प्रस्थपुष्पः फणिज्भ्क्तकः ॥३९॥

कुठेरकस्तु पर्णासेऽथास्फोतो वसुकार्कके ।
शिवमल्ली पाशुपतो वृन्दा वृक्षादनी तथा ॥४०॥

जीवन्तिका वृक्षरुहा गुडूची तन्त्रिकाऽमृता ।
सोमवल्ली मधुपर्णी मूर्वा तु मोरटी तथा ॥४१॥

मधूलिका मधुश्रेणी गोकर्णी पीलुपर्ण्यपि ।
पाठाऽम्बष्ठा विद्धकर्णी प्राचीना वनतिक्तिका ॥४२॥

कटुः कटुम्भरा चाथ चक्राङ्गी शकुलादनी ।
आत्मगुप्ता प्रावृषायी कपिकच्छुश्च मर्कटी ॥४३॥

अपामार्गः शैखरिकः प्र्त्यक्पर्णी मयूरकः ।
फञ्चिका ब्राह्मणो भार्गी द्रवन्ती शम्भरी वृषा ॥४४॥

मण्डूकपर्णी भण्डीरी समङ्गा कालमेषिका ।
रोदनी कच्छुराऽनन्ता समुद्रान्ता दुरालभा ॥४५॥

पृश्निपर्णी पृथक्पर्णी कलशिर्धावनिर्गुहा ।
निदीग्धिका स्पृशी व्याघ्री क्षुद्रा दुस्पर्श्या सह ॥४६॥

अवल्गुजः सोमराजी सुवल्लिः सोमवल्लिका ।
कालमेषी कृष्णाफ्ला वाकुची पूतिफल्यऽपि ॥४७॥

कणोषणोपकुल्या स्याच्छ्रेयसी गजपिप्पली ।
चव्यन्तु चविका काकचिञ्ची गुञ्चे तु कृष्णला ॥४८॥

विश्वा विषा प्रतिविषा वनश्रृङ्गाटगोक्षुरौ ।
नारायणी शतमूली कालेयकहरिद्रवः ॥४९॥

दार्वी पचम्पचा दारु शुक्ला हैमवती वचा ।
वचोग्रगन्धा षड्‌ग्रन्था गोलोमी शतपर्विंका ॥५०॥

आस्फोता गिरिकर्णी स्यात् सिंहास्यो वासको वृषः ।
मिशी मधुरिकाच्छत्रा कोकिलाक्षेक्षुरक्षुरा ॥५१॥

विडङ्गोऽस्त्री कृमिघ्नः स्यात् वज्रद्रुस्रुक्स्नुही सुधा ।
गृद्वीका गोस्तनी द्राक्षा वला वाट्यालकस्तथा ॥५२॥

काला मसूरविदला त्रिपुटा त्रिवृत् ।
मधुकं क्लीतकं यष्टिमधुका मधुयष्टिका ॥५३॥

विदारी क्षीरशुक्लेक्षुगन्धा क्रोष्ट्री च या सिता ।
गोपी श्यामा शारिवा स्यादनन्तोत्पलशारिवा ॥५४॥

मोचा रम्भा च कदली भष्टाकी दुष्प्रधर्षिणी ।
स्थिरा ध्रुवा सालपर्णी श्रृङ्गी तु वृषभो वृषः ॥५५॥

गाङ्गेरुकी नागबला मुषली तालमूलिका ।
ज्योत्स्नी पटोलिका जाली अजश्रृङ्गी विषाणिका ॥५६॥

स्याल्लाङ्गलिक्यग्निशिखा ताम्बूली गगवल्ल्यपि ।
हरेणू रेणुका कौन्ती ह्रीवेरो दिव्यनागरं ॥५७॥

कालानुसार्य्यवृद्धाश्मपुष्पशीतशिवानि तु ।
शिवा तामलकी चाथ हनुर्हट्टविलासिनी ॥५८॥

ग्रन्थिपर्णं शुकं वर्हि वला तु त्रिपुटा त्रुटिः ।
शिवा तामलकी चाथ हनुर्हट्टविलासिनी ॥५९॥

कुटं नटं दशपुरं वानेयं परिपेलवम् ।
तपस्विनी जटामांसी पृक्का देवी लता लक्षू ॥६०॥

कर्चुरको द्राविड़को गन्धमूली शठी स्मृता ।
स्यादृक्षगन्धा छगलान्त्रा वेगी वृद्धदारकः ॥६१॥

तुण्डिकेरी रक्तफला विम्बिका पीलुपर्ण्यऽपि ।
चाङ्गेरी चुक्रिकाम्बष्ठा स्वर्णक्षीरी हिमावती ॥६२॥

सहस्रवेधी चुक्रोऽम्लवेतसः शतवेध्यपि ।
जीवन्ती जीवनी जीवा भूमिनिम्बः किरातकः ॥६३॥

कूर्चशीर्षो मधुकरश्चन्द्रः कपिवृकस्तथा ।
दद्रुघ्नः स्यादेड़गजो वर्षाभूः शोथहारिणी ॥६४॥

कुनन्दती निकुम्भस्त्रा१ यमानी वार्षिका तथा ।
लशुनङ्गृञ्जनारिष्टमहाकन्दरसोनकाः ॥६४॥

वाराही वदरा गृष्टिः काकमाची तु वायसी ।
शतपुष्पा सिचच्छत्राऽतिच्छत्रा मधुरा मिसिः ॥६६॥

अवाक्पुष्पी कारवी च सरणा तु प्रसारणी ।
कटम्भरी भद्रवला कर्व्वूरश्च शटी ह्यथ ॥६७॥

पटोलः कुलकस्तिक्तः कारवेल्लः कटिल्लकः ।
कुष्माण्डकस्तु कर्कारुरिर्वारुः कर्कटी स्त्रियौ ॥६८॥

इक्ष्वाकुः कटुतुम्बी स्याद्विशाला त्विन्द्रावरुणी ।
अर्शोघ्नः शूरणः कन्दो मुस्तकः कुरुविन्दकः ॥६९॥

वंशे त्वक्सारकर्म्मारवेणुमस्करतेजनाः ।
छत्रातिच्छत्रपालघ्नी मालातृणकभूस्तृणे ॥७०॥

तृणराजाह्वयस्तालो घोण्टा क्रमुकपुगकौ ।
शार्दूलद्वीपिनौ व्याघ्ने हर्य्यक्षः केशरी हरिः ॥७१॥

कोलः पोत्री वराहः स्यात् कोक ईहामृगो वृकः ।
लूतोर्णनाभौ तु समौ तन्तुवायश्च मर्कटे ॥७२॥

वृश्चिकः शूककीटः स्यात्सारङ्गस्तोककौ समौ ।
कृकवाकुस्ताम्रचूड़ः पिकः कोकिल इत्यपि ॥७३॥

काके तु करटारिष्टौ वकः कह्व उदाहृतः ।
कोकश्चक्रश्चक्रवाको कादम्बः कलहंसकः ॥७४॥

पतङ्गिका पुत्तिका स्यात्सरघा मधुमक्षइका ।
द्विरेफपुष्पलिड्‌भृङ्गषट्पदभ्रमराऽलयः ॥७५॥

केकी शिख्यस्य वाक्केका शकुन्तिशकुनिद्विजाः ।
स्त्री पक्षतिः पक्षमूलञ्चञ्चूस्तोटिरुभे स्त्रियौ ॥७६॥

गतिरुडडीनसण्डीनौ कुलायो नीड़मस्त्रियां ।
पेशी कोषो द्विहीनेऽण्डं पृथुकः शावकः शिशु ॥७७॥

पोतः पाकोऽर्भको डिम्भः सन्दोहव्यूहको गणः ।
स्तोमौवनिकरव्राता निकुरम्बं कदम्बकं॥

सङ्घातसञ्चयौ वृन्दं पुञ्जरीशी तु कूटकं ॥७८॥

इत्यादिमहापुराणे आग्नेये भूमिवनौषध्यादिवर्गा नाम त्रिषष्ट्यधिकत्रिशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 23, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP