संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
नानाधर्माः

अध्याय १६५ - नानाधर्माः

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.



अग्निरुवाच
ध्येय आत्मा स्थितो योऽसौ हृदये दीपवत्प्रभुः ॥१॥
अनन्यविषयं कृत्वा मनो बुद्धिस्मृतीन्द्रियं ॥१॥
श्राद्धन्तु ध्यायिने देयं(३) गव्यं दधि घृतं पयः ॥२॥
प्रियङ्गवो मसूराश्च वार्ताकुः कोद्रवो न हि ॥२॥
सैंहिकयो यदा सूर्यं ग्रसते पर्वसन्धिषु ॥३॥
हस्तिच्छाया तु सा ज्ञेया श्राद्धदानादिकेऽक्ष्या ॥३॥
टिप्पणी
१ सदा दुःस्थ इति ख.. , छ.. च
२ मनुष्याणामिति ङ..
३ व्यापिने देयमिति ङ..
पित्रे चैव यदा सोमो हंसे चैव करे स्थिते ॥४॥
तिथिर्वैवस्वतो नाम सा छाया कुञ्जरस्य तु ॥४॥
अग्नौकरणशेषन्तु न दद्याद्वैश्वदेविके ॥५॥
अग्न्यभावे तु विप्रस्य हस्ते दद्यात्तु दक्षिणे ॥५॥
न स्त्री दुष्यति जारेण न विप्रो वेदकर्मणा ॥६॥
बलात्कारोपभुक्ता चेद्वैरिहस्तगतापि वा(१) ॥६॥
सन्त्यजेद्दूषितान्नारीमृतुकाले न शुद्ध्यति ॥७॥
य आत्मत्र्यतिरेकेण द्वितीयं नात्र पश्यति(२) ॥७॥
ब्रह्मभूतः स एवेह योगी चात्मरतोऽमलः ॥८॥
विषयेन्द्रियसंयोगात्केचिद्योगं वदन्ति वै ॥८॥
अधर्मो धर्मबुद्ध्या तु गृहीतस्तैरपण्डितैः ॥९॥
आत्मनो मनसश्चैव संयोगञ्च तथा परे ॥९॥
वृत्तिहीनं मनः कृत्वा क्षेत्रज्ञं परमात्मनि ॥१०॥
एकीकृत्य विमुच्येत बन्धाद्योगोऽयमुत्तमः ॥१०॥
कुटुम्बैः पञ्चभिर्यामः षष्ठस्तत्र महत्तरः ॥११॥
देवासुरमनुष्यैर्वा स जेतुं नैव शक्यते(३) ॥११॥
वहिर्मुखानि सर्वाणि कृत्वा चाभिमुखानि वै ॥१२॥
मनस्येवेन्द्रियग्रामं मनश्चात्मनि योजयेत् ॥१२॥
सर्वभावविनिर्मुक्तं क्षेत्रज्ञं ब्रह्मणि न्यसेत् ॥१३॥
एतज्ज्ञानञ्च ध्यानञ्च शेषोऽन्यो ग्रन्थविस्तरः(४) ॥१३॥
टिप्पणी
१ चौरहस्तगतापि वेति ख.. , घ.. , ञ च
२ द्वितीयं नानुपश्यतीति घ.. , ट.. च
३ स जेतुं न च शक्यत इति ग.. , ङ.. च
४ शेषा ये ग्रन्थविस्तरा इति ङ
यन्नास्ति सर्वलोकस्य तदस्तीति विरुध्यते ॥१४॥
कथ्यमानं तथान्यस्य हृदये नावतिष्ठते ॥१४॥
असंवेद्यं हि तद्ब्रह्म(१) कुमारी स्त्रीमुखं यथा ॥१५॥
अयोगी नैव जानाति जात्यन्धो हि घटं यथा ॥१५॥
सत्र्यसन्तं द्विजं दृष्ट्वा स्थानाच्चलति भास्करः ॥१६॥
एष मे मण्डलं भित्त्वा परं ब्रह्माधिगच्छति ॥१६॥
उपवासव्रतञ्चैव स्नानन्तीर्थं फलन्तपः ॥१७॥
द्विजसम्पादनञ्चैव सम्पन्नन्तस्य तत्फलं ॥१७॥
एकाक्षरं परं ब्रह्म प्राणायामः परन्तपः ॥१८॥
सावित्र्यास्तु परं नास्ति पावनं परमं स्मृतः ॥१८॥
पूर्वं स्त्रियः सुरैर्भुक्ताः सोमगन्धर्ववह्निभिः ॥१९॥
भुञ्जते मानुषाः पश्चान्नैता दुष्यन्ति केनचित् ॥१९॥
असवर्णेन यो गर्भः स्त्रीणां योनौ निषिच्यते ॥२०॥
अशुद्धा तु भवेन्नारी यावत्छल्यं न मुञ्चति ॥२०॥
निःसृते तु ततः शल्ये रजसा शुद्ध्यते ततः ॥२१॥
ध्यानेन सदृशन्नास्ति शोधनं पापकर्मणां ॥२१॥
श्वपाकेष्वपि भुञ्जानो ध्यानेन हि विशुद्ध्यति ॥२२॥
आत्मा ध्याता मनो ध्यानं ध्येयो विष्णुः फलं हरिः ॥२२॥
अक्षयाय यतिः श्राद्धे पङ्क्तिपावनपावनः ॥२३॥
आरूढो नैष्ठिकन्धर्मं यस्तु प्रच्यवते द्विजः ॥२३॥
टिप्पणी
१ स्वसंवेद्यं हि तद्ब्रह्म इति ग.. , ङ.. च । सुसंवेद्यं हि तद्ब्रह्म इति ज.. , ट.. च । स्वयं वेद्यं हि तद्ब्रह्म इति घ.. , ञ.. च
प्रायश्चित्तं न पश्यामि येन शुद्ध्येत्स आत्महा ॥२४॥
ये च प्रव्रजिताः पत्न्यां या चैषां वीजसन्ततिः ॥२४॥
विदुरा नाम चण्डाला जायन्ते नात्र संशयः ॥२५॥
शतिको म्रियते गृध्रः श्वासौ द्वादशिकस्तथा ॥२५॥
भासो विंशतिवर्षाणि सूकरो दशभिस्तथा ॥२६॥
अपुष्पो विफलो वृक्षो जायते कण्टकावृतः ॥२६॥
ततो दावाग्निदग्धस्तु स्थाणुर्भवति सानुगः ॥२७॥
ततो वर्षशतान्यष्टौ द्वे तिष्ठत्यचेतनः ॥२७॥
पूर्णे वर्षसहस्रे तु जायते ब्रह्मराक्षसः ॥२८॥
प्लवेन लभते मोक्षं कुलस्योत्सादनेन वा ॥२८॥
योगमेव निषेवेतेत नान्यं मन्त्रमघापहम् ॥२९॥२९॥

इत्याग्नेये महापुराणे नानाधमा नाम पञ्चषष्ट्यधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 18, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP