संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
धनुर्वेदकथनम्

अध्याय २५२ - धनुर्वेदकथनम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
भ्रान्तमुद् भ्रान्तमाविद्धमाप्लुतं विप्लुतं सृतं ।
सम्पातं समुदीशञ्च श्येनपातमथाकुलं ॥१॥

उद्‌धूतमवधूतञ्च सव्यं दक्षिणमेव च ।
अनालक्षितविस्फोटौ करालेन्द्रमहासखौ ॥२॥

विकरालनिपातौ च विभीषणभयानकौ ।
समग्रार्द्धतीयांशपादपादार्द्धवारिजाः ॥३॥

प्रात्यालीढमथालीढं वराहं लुलितन्तथा ।
इति द्वात्रिंशतो ज्ञेयाः खड्गचर्मविधौ रणे ॥४॥

परवृत्तमपावृत्तं गृहीतं लघुसञ्ज्ञितं ।
ऊद्‌र्ध्वात् क्षइप्तमधः क्षिप्तं सन्धारितविधारितं ॥५॥

श्येनपातं गजपानं ग्राहग्राह्यन्तथैव च ।
एवमेकादशविधा ज्ञेयाः पाशविधा रणाः ॥६॥

ऋज्वायतं विशालञ्च तिर्य्यग्‌भ्रामितमेव च ।
पञ्चकर्म विनिर्द्दिष्टं व्यस्ते पाशे महात्मभिः ॥७॥

छेदनं भेदनं पातो भ्रमणं शयनं तथा ।
विकर्त्तनं कर्त्तऩञ्च चक्रकर्मेदमेव च ॥८॥

आस्फोटः क्ष्वेडनं भेदस्त्रासान्दोलितकौ तथा ।
शूलकर्माणि जानीहि षष्ठमाघातसञ्ज्ञितं ॥९॥

दृष्टिघातं भुजाघातं पार्श्वघातं द्विजोत्तम ।
ऋजुपक्षेषुणा पातं तोमरस्य प्रकीर्त्तितं ॥१०॥

आहतं विप्र गोमूत्रप्रभूतङ्कमलासनं ।
ततोर्द्धगात्रं नमितं वामदक्षिणमेव च ॥११॥

आवृत्तञ्च चपरावृत्तं पादोद्धतमवप्लुतं ।
हंसमर्द्दं विमर्दञ्च३ गदाकर्म प्रकीर्त्तितं ॥१२॥

करालमवघातञ्च दंशोपप्लुतमेव च ।
क्षिप्तहस्तं स्थितं शून्यं परशोस्तु विनिर्दिशेत् ॥१३॥

ताडनं छेदनं विप्र तथा चूर्णनमेव च ।
मुद्‌गरस्य तु कर्माणि तथा प्लवनघातनं ॥१४॥

सं श्रान्तमथ विश्रान्तं गोविसर्गं सुदुर्द्धरं ।
भिन्दिपालस्य कर्माणि लगुडस्य च तान्यपि ॥१५॥

अन्त्यं मध्यं परावृत्तं निदेशान्तं द्विजोत्तम ।
वज्रस्यैतानि कर्माणि लगुडस्य च तान्यपि ॥१६॥

हरणं छेदनं घातो बलोद्धारणमायतं ।
कृपाणकर्म निर्दिष्टं पातनं स्फोटनं तथा ॥१७॥

त्रासनं रक्षणं घातो बलोद्धरणमायतम् ।
क्षेपणीकर्म निर्दिष्टं यन्त्रकर्मैतदेव तु ॥१८॥

सन्त्यागमवदंशश्च वराहोद्धूतकं तथा ।
हस्तावहस्तमालीनमेकहस्तावहस्तके ॥१९॥

द्विहस्तवाहुपाशे च कटिरेचितकोद्‌गते ।
उरोललाटघाते च भुजाविधमनन्तथा ॥२० ।

द्विहस्तवाहुपाशे च कटिरेचिककोद्‌गते ।
गात्रसंश्लेषणं शान्तं तथा गात्रविपर्य्ययः ॥२१॥

ऊद्‌र्ध्वप्र्हारं घातञ्च गोमूत्रं सव्यदक्षिणे ।
पारकन्तारकं दण्डं४ करवीरन्धमाकुलं ॥२२॥

तिर्य्यग्बन्धमपामार्गं५ भीमवेगं सुदर्शनं ।
सिंहाक्रान्तं गजाक्रान्तं गर्द्दभाक्रान्तमेव च ॥२३॥

गदाकर्माणि जानीयान्नियुद्धस्याथ कर्म च ।
आकर्षणं विकषञ्च बाहूनां मूलमेव च ॥२४॥

ग्रीवाविपरिवर्त्तञ्च पृष्ठभङ्गं सुदारुणं ।
पर्य्यासनविपर्य्यासौ पशुमारमजाविकं ॥२५॥

पादप्रहारमास्फोटं ककटिरेचितकन्तथा ।
गात्रश्लेषं स्कन्धगतं महीव्याजनमेव च ॥२६॥

उरोललाटघातञ्च विस्पष्टकरणन्तथा ।
उद्‌धूतमवधूतञ्च तिर्य्यङ्मार्गगतं तथा ॥२७॥

गजस्कन्धमवक्षेपमपराङ्‌मुखमेव च ।
देवमार्गमधोमार्गममार्गगमनाकुलं ॥२८॥

यष्टिघातमवक्षेपो वसुधादारणन्तथा ।
जानुबन्धं भुजाबन्धं गात्रबन्धं सुदारुणं ॥२९॥

विपृष्ठं सोदकं शुभ्रं भुजावेष्टितमेव च ।
सन्नद्धैः संयुगे भाव्यं सशस्त्रैस्तैर्गजादिभिः ॥३०॥

वराङ्कुशधरौ चोभौ एको ग्रीवागतोऽपरः ।
स्कन्धगौ द्वौ च धानुष्कौ द्वौ च खड्‌गधरौगजे ॥३१॥

रथे रणे गजे चैव तुरङ्गाणां त्रयं भवेत् ।
धानुष्काणान्त्रयं प्रोक्तं रक्षआर्थे तुरगस्य च ॥३२॥

धन्विनो रक्षणार्थाय चर्मिणन्तु६ नियोजयेत् ।
स्वमन्त्रैः शस्त्रमभ्यर्च्य शास्त्रान्त्रैलोक्यमोहनं ॥३३॥

यो युद्धे याति स जयेदरीन् सम्पालयेद्भुवं॥

इत्यादिमहापुराणे आग्नेये नाम द्विपञ्चाशदधिकद्विशततमोऽध्यायः ।

N/A


References : N/A
Last Updated : September 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.