संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
कृत्‌सिद्धरूपम्

अध्याय ३५९ - कृत्‌सिद्धरूपम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


कुमार उवाच
कृतस्त्रिष्वपि विज्ञेया भावे कर्म्मणि कर्त्तरि ।
अज्ल्युट् क्तिन् घञो भावे युजकारत एव च ॥१॥

अचि धर्म्मस्य विनय उत्करः प्रकरस्तथा ।
देवो भद्रः श्रीकरश्च त्लुटि रूपन्तु शोभनम् ॥२॥

क्तिनि वृद्धिस्तुतिमतो घञि बावोऽथ युच्यपि ।
कारणा भावनेत्यादि अकारे च चिकित्सया ॥३॥

तथा तव्यो ह्यनीयश्च कर्त्तव्यं करणीयकम् ।
देयं ध्येयञ्चैव यति ण्यति कार्य्यञ्च कृत्यकाः ॥४॥

कर्त्तरि क्तादयो ज्ञेया भावे कर्म्मणि च क्कचित् ।
गतो ग्रामं गतो ग्रम आश्लिष्टश्च गुरुस्त्बया ॥५॥

शतृङ्‌शानचौ भवन् एधमानो भवन्त्यपि ।
पुण् तृचौ सर्व्बधातुभ्यो भावको भविता तथा ॥६॥

क्किबन्तश्च स्वयम्भूश्च भूते लिटः क्कन्सु कान च ।
बभूविवान् पेचिवांश्च पेचानः श्रद्दधानकः ॥७॥

अणि स्युः कुम्भकाराद्या भूतेप्युणादयः स्मृताः ।
वायुः पायुश्च कारुः स्याद्वहुलं छन्दसीरितं ॥८॥

इत्यादिमहापुराणे आग्नेये व्याकरणे कृत्‌सिद्धरूपं नामोनषष्ट्यधिकत्रिशततमो।ध्यायः ।

N/A

References : N/A
Last Updated : September 23, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP