संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्री शिवनृसिंहचरणस्तुति

श्री शिवनृसिंहचरणस्तुति

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


परमविबोधकान् यतमनोनिकायविनुतान् कृपाजनिमही:
प्रणमदभीष्टहस्तिरथमुख्यदपदान् विमुक्तिरमणान् ।
यमिसुलभाङ्घ्रिकान् नतमुदासुधाब्धिशशिनो विबोधितकलान्
शिवनवनृसिंहचरणान् भजे निजहृदि भारतीकुलमणीन् ॥१॥
उरगधवासनोडुपतिधृन्निजाकृतिजुष: प्रणम्रवरदान्
बहुयमिपूजितान् नतततेर्महर्द्धिसहितं विमुक्तिदपदान् ।
विभववितारकान् कमलदृक्पदाव्जमधुपान् अजाध्वधिषणान्
शिवनवनृसिंहचरणान् भजे निजहृदि भारतीकुलमणीन् ॥२॥
नतकरुणार्णवान् निटिलदृक्समाननियमान् जिताक्षहृदयान्
तनुमतिसुन्दरान् हरिणदृक्पराड्मुखमतीन् समस्तनयदान् ।
पदजितपङ्कजान् भुवि दिवि प्रकृष्टसुखदान् सुवर्णतनुभान्
शिवनवनृसिंहचरणान् भजे निजहृदि भारतीकुलमणीन् ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP