संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीवल्लीश्रीदेवसेनास्तुति:

श्रीवल्लीश्रीदेवसेनास्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


सुमशररुषामुख्याधीन स्वनित्तसुदुर्लभे
विरतिवनिताकान्तस्वान्तव्रजाप्यपदाम्बुजे ।
अमरनिकराधीशाब्धीशप्रमुख्यसुरादृते
मनसि निदधे नित्यं वल्लीसुराधिपपुत्रिके ॥१॥
प्रणतजनतावाणी लक्ष्मीनिकृत्तनिजाखिला -
भिमतनिकरीजातस्वर्गि व्रजार्यधनाधिपे ।
नतजनजरादुर्मृत्यादिप्रशामकसंस्मृती
मनसि निदधे नित्यं वल्लीसुराधिपपुत्रिके ॥२॥
भवभवमहाकष्टादित्यप्रतप्तकृपाम्बुदौ [ धी ]
गिरिपतिसुताचन्द्रोत्तंसप्रजातमनोहरे ।
करिमुखरमादानासक्ते करीन्द्रमुखादृते
मनसि निदधे नित्यं वल्लीसुराधिपपुत्रिके ॥३॥
विनमदघहृद्धूलीलेशस्वकीयपदाम्बुजे
तनुरुचिजितस्वर्णाम्भोभूधराभिमतव्रजे ।
स्वरवकणिकाधूतस्वाहङ्कृ तान्यभृतोत्तमे
मनसि निदधे नित्यं वल्लीसुराधिपपुत्रिके ॥४॥
भुजगशयनस्वास्त्रेयाहिस्वभोजनवाहने
प्रणतिसुलभीभूतब्रह्मराक्षरबोधने ।
अमरपृतनाव्राताधीशप्रमोदवितारिके
मनसि निदधे नित्यं वल्लीसुराधिपपुत्रिके ॥५॥
इहपरसुखाकाङ्क्षात: स्वप्रणामकृदिष्टदे
श्रुति८गदितपुसम्प्रार्थव्रजप्रदचिन्तने ।
प्रणतहृदयाम्भोजाताशुप्रफुल्लकघस्त्रपौ [ भास्करौ ]
मनसि निदधे नित्यं वल्लीसुराधिपपुत्रिके ॥६॥
विकसितनभद्धृत्पाथोजप्रकाशिततत्त्विके
सपदि शानितप्राणम्रालीज्वराद्यखिलामये ।
करधृतभयव्रातध्नेष्टप्रदानविबोधिके
मनसि निदधे नित्यं वल्लीसुराधिपपुत्रिके ॥७॥
विजितविकृतिस्वान्तध्यातस्वपादपयोजनी [ रुहे ]
कुसुमशरसूवाणीगौरीशचीप्रमुखेडिते ।
शमदममुखस्वान्ताच्छत्वप्रदायकदायिके
मनसि निदधे नित्यं वल्लीसुराधिपपुत्रिके ॥८॥
श्रमततिहरस्वाङ्घ्रिद्वन्द्वप्रजानतमस्कृते
सदयहृदयक्षान्तानम्रखिलाघकलापके ।
यममुखभयोच्छेदप्रौढे यमप्रमुखप्रदे
मनसि निदधे नित्यं वल्लीसुराधिपपुत्रिके ॥९॥
धरणिधवतामुख्यस्पर्शिस्वधूलिलवाङ्घ्रिके
धरणिसुतलस्वर्गादिस्थाखिलादृतशासने ।
धरणिधरणीजामात्रङ्गप्रजन्युपगूहिते
मनसि निदधे नित्यं वल्लीसुराधिपपुत्रिके ॥१०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP