संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीकुडलीस्तुति:

श्रीकुडलीस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


कामक्रोधादिमदूरस्वान्तावाप्यस्वीयपदान् ।
वन्दे मलिनाशयदूरान् वाणीविधुधरसिकतेशान् ॥१०॥
पादनतदुर्मरणजराभस्मीकरणपटुस्वार्चान् ।
वन्दे मघवाद्यमरार्च्यान् वाणीविधुधरसिकतेशान् ॥२॥
रङ्का मूका अपि येषां करुणाकणतो धनगीर्भ्याम् ।
जितगुरुधनपा हृदि कलये वानीविधुधरसिकतेशान् ॥३॥
सकृदपि कृतनतिजनतार्त्तिव्रातहकरुणानीरनिधीन् ।
वन्देsजोमोमारमणान् वाणीविधुधरसिकतेशान् ॥४॥
नानाहन्मसु निजभक्त्यानुष्ठितपापव्रजहर्तॄन् ।
वन्दे रथगजमुखमादान् वाणीविधुधरसिकतेशान् ॥५॥
पारदपीयूषांशुकलानिधिजिन्निजविग्रहकान्तीन् ।
वन्दे नुतिकुण्ठितशेषान् वाणीविधुधरसिकतेशान् ॥६॥
तङ्गाभद्रास्गलसत्क्षेत्रजगद्गुरुतत्यर्च्चान् ।
वन्दे दत्ताक्षरबोधान् वाणीविधुधरसिकतेशान् ॥७॥
ऐहिकपारत्रिकभूति - प्रापकपादार्चनलेशान् ।
वन्दे पूरितभक्ताशान् वाणीविधुधरसिकतेशान् ॥८॥
श्रुत्युक्ताखिलपुरुषार्थश्राणनसक्तस्वस्वान्तान् ।
वन्दे सुमललितस्वाङ्गान् वाणीविधुधरसिकतेशान् ॥९॥
पाथ:शेवधिनिजरशनाक्ष्मानार्थाकृतपदनिरतान् ।
वन्देsखिलभुवनाधिपतीन् वाणीविधुधरसिकतेशान् ॥१०॥
ज्वरमुखरोगच्रजहन्तृस्वीयपदाभस्मृतिकणिकान् ।
कलयाम्यानानासुरहान् वाणीविधुधरसिकतेशान् ॥११॥
आश्रितभीतिहसर्ववरश्राणनमुद्राङ्चितहस्तान् ।
कलयाम्यविकृतधीकलितान् वाणीविधुधरसिकतेशान् ॥१२॥
जलनिधिकन्यातद्रमणप्रमुखसुरोत्तममण्डाल्या ।
पूजितपादान् हृदि कलये वाणीविधुधरसिकतेशान् ॥१३॥
संसृतिसम्भवतान्तिभयोन्मूलनदक्षिणपादनतीन् ।
वन्दे शममुखसाधनदान् वाणीविधुधरसिकतेशान् ॥१४॥
प्रणतजनालीकृतपापव्रातक्षान्तिव्रजरुचिरान् ।
वन्दे यममुखभीतिहरान् वाणीविधुधरसिकतेशान् ॥१५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP