संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीकल्किस्तव:

श्रीकल्किस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भवभवभयभञ्जनप्रवीणं
भजददितिप्रभवावनीप्रजातम् ।
कलिमलशमनं भजामि कल्किं
भ्रमरभुजङ्गमनीरदाभकेशम् ॥१॥
शरदृतुजलदाभवस्त्रवोतं
कररुचिह्रापिताम्बुजातदर्पम् ।
कलिमलशमनं भजामि कल्किं
श्रितजनवत्सलताप्रमुख्यरम्यम् ॥२॥
अहिरिपुमुखदेवतालिनम्यं
सपदि वितीर्णनिजाङ्घ्रिनम्रकाम्यम् ।
कलिमलशमनं भजामि कल्किं
वरनिकरस्पृशिसक्तनैजचित्तम् ॥३॥
विहतनतकृतान्तमुख्यभीतिं
सकरुणलालितकृष्णभक्तपूगम् ।
कलिमलशमनं भजामि कल्किं
बहुलकृपार्द्रमनोsमृतप्रजातम् ॥४॥
अजसुतशुकमुख्यगीतकीर्त्तिं
सुररमणीनिकरस्तुतापदानम् ।
कलिमलशमनं भजामि कल्किं
कनकमुखाखिलकाङ्क्षितं स्पृशन्तम् ॥५॥
भवजलनिधिपारदाङ्घ्रिसक्तं
वरदकटाक्षपवित्रितात्मभक्तम् ।
कलिमलशमनं भजामि कल्किं
मधुकरवायुभुगम्बुधर्तृकेशम् ॥६॥
पदनतविनतातनूजवाहं
विनतजनालिसमस्तपापदाहम् ।
कलिमलशमनं भजामि कल्किं
बहुजनवादिवरेण्यवाहनाढ्यम् ॥७॥
नयनचरणमुख्यपूजिताङ्घ्रिं
करविलसद्वरदानयादिमुद्रम् ।
कलिमलशमनं भजामि कल्किं
मुनिजनतापहृताब्धिजातगर्वम् ॥८॥
विनयदनमदिष्टदानशीलं
सपदिनिवारितकष्टजाललीलम् ।
कलिमलशमनं भजामि कल्किं
निजचरणाष्टकपाठतुष्टबुद्धिम् ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP