संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीतिथिपतिस्तुति:

श्रीतिथिपतिस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


देवव्रातनुतान् मनोमलहरान् नम्रोक्तिलक्ष्मीजित:
स्वर्गीयक्षितिपान् जराकुमृतिहॉंस्त्यक्तैषणाप्याङ्घ्रिकान् ।
स्पष्टेभप्रमुखान् कृपासलिलधीन् कष्टक्षमाध्रस्वरून्
श्रीमत्तिथ्यधिपान् नताघशमनान् सम्भावये सन्ततम् ॥१॥
मोक्षान्तेप्सितदान् प्रबोधननतीन् भक्ताखिलेस्पृशो
व्यासादिप्रणुतान् भुजङ्गचिकुरान् कान्तिच्छटाभास्वरान् ।
राजीभूतनतान् सुमार्चितपदान् विज्ञानविश्राणकान्
श्रीमत्तिथ्यधिपान् नताघशमनान् सम्भावये सन्ततम् ॥२॥
भक्तेष्टाभयदान् रुगालिहरणान् सर्वत्रिलोकीप्रजा -
पूज्यस्वीयपदान् यमिव्रजनुतान् नम्रालिदुर्बुद्धिहान् ।
मन्तुक्षान्तिनिधीन् शमादिगुणदान् श्रान्तिव्रजध्वंसकान्
श्रीमत्तिथ्यधिपान् नताघशमनान् सम्भावये सन्ततम् ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP