संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्री सीतारामस्वरमाला स्तुति: ।

श्री सीतारामस्वरमाला स्तुति: ।

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


अङ्गदसुगलविभीषनमुख्य - स्तुतनिजपादपयोजनियुग्मौ ।
कोटिब्रह्माण्डावलिजनकौ हृदये कलये सीतारामौ ॥१॥
आशापूरणविधिनिर्धृत - स्वर्भूरुहडम्बरसर्वस्वौ ।
अव्याजामितकरुनासिन्धू हृदये कलये सीतारामौ ॥२॥
इन्द्रानलयमनिरृतिवरुणाद्याशापालनसर्वाशादौ ।
इभरथहयनरमुख्यश्रीदौ हृदये कलये सीतारामौ ॥३॥
ईशानाखिलत्रैलोक्यान्त - र्गतनयविद्याव्रातनिकायौ ।
निष्कामानतमोदनिदाने हृदये कलये सीतारामौ ॥४॥
उपनिषदुक्तामृतवारांनिध्युडुपतिपादानुग्रहलेशौ ।
उरगाधिपमुखवर्ण्यमहत्त्वौ हृदये कलये सीतारामौ ॥५॥
ऊहापोहसमर्थसुरव्रज - मौकुटरत्ननिघृष्टपदाब्जौ ।
ऊरीकृतनतकाङ्क्षापूर्त्ती हृदये कलये सीतारामौ ॥६॥
ऋक्षाधीश्वररक्ष:सत्तम - मुख्याराधितपादाम्भोजौ ।
ऋद्धिसमृद्धिस्पर्शिकटाक्षौ हृदये कलये सीतारामौ ॥७॥
ऋकारादिस्वरसङ्घातै: शङ्करमुख्यध्यातस्वाङ्घ्री ।
लावण्यकरकारुण्याब्धी हृदये कलये सीतारामौ ॥८॥
पाथ:सम्भवसम्भवपाथो - जातधरस्तुतपदवार्जातौ ।
विनतातनुसम्भवमुखविनतौ हृदये कलये सीतारामौ ॥९॥
एन:पन्नगतार्क्ष्यायितनिज - शोणाब्जन्यक्कृत्पदविनती ।
एणाक्षीमणिसलिलभवाक्षौ हृदये कलये सीतारामौ ॥१०॥
ऐच्छिंकमुख्यप्रारब्धादिककर्मदपोषकरुणाकणिकौ ।
कणभुड्मुखनयबोधदनमनौ हृदये कलये सीतारामौ ॥११॥
ॐ युततत्तन्मन्त्रविशेषद्वारासाक्षात्करणीयपदौ ।
ओमिति विश्वादृतनैजाज्ञौ हृदये कलये सीतारामौ ॥१२॥
औदार्यादिगुणव्रजसिन्धु - स्वीयस्वान्ताख्यामृतजनुषौ ।
औदासीन्यादिमसद्गुणदौ हृदये कलये सीतारामौ ॥१३॥
अन्तकपाशग्रस्तनताल्या अन्तकसूदनदत्तस्वमनू: ।
अङ्गजसूपितृनव्याकारौ हृदये कलये सीतारामौ ॥१४॥
अश्च्योतितनिजवर्णिव्रतहनुमन्मुखसन्ततकीर्त्तितसञ्ज्ञौ ।
अशुभोन्मूलकशुभदपदाब्जौ हृदये कलये सीतारामौ ॥१५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP