संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीहरिस्तुति:

श्रीहरिस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


दीनानम्रानुपमकरुनावारिराशिस्वचित्तौ
ब्रह्माण्डालीसृजिमुखकृतिव्यापृतौ लोकनाथौ ।
ब्रह्मानङ्गप्रमुखदिविभूसेवितस्वीयपादौ
ब्रह्मानन्दामृतरसधनौ नौमि लक्ष्मीरमेशौ ( श्री हरी भावयेsहम् ) ॥१॥
भवतव्रातेप्सितवरततिश्राणनासक्तचितौ
हस्त्यश्वालीप्रमुखदह्रणीनाथसंपत्प्रदाङ्घ्री ।
सान्द्रप्रेमप्रचुरनिगडान्योsन्यभक्तिप्रधानौ
ब्रह्मनन्दामृतरसघनौ नौमि लक्ष्मीरमेशौ ॥२॥
ईहाशून्यस्वहृदयसरोजातलभ्याङ्घ्रिपद्मौ
नम्रानन्दामृतजलनिधे : पूर्णपीयूषरश्मी ।
विश्वभ्राजन्निखिलविषयाशेषविद्याधिनाथौ
ब्रह्मनन्दामृतरसघनौ नौमि लक्ष्मीरमेशौ ॥३॥
अम्भोजन्मस्वशयनमहाभोगिराड्भोगपलपौ
पाथोराशिप्रभवसहभूभामताभासिताङ्गौ ।
पादानम्रव्रजहृदयगाभीष्टदानव्रताढ्यौ
ब्रह्मनन्दामृतरसघनौ नौमि लक्ष्मीरमेशौ ॥४॥
कादाचित्कस्वनतिफलिताशेषभूतिव्रजेभ्यौ
गीर्वाणाली ( मर्त्यान्याली ) ( अस्वप्नालो )
मुकुटगमणिव्रातनीराजिताङ्घ्री ।
क्षोणीधृन्न्यक्कृदुरसिभवक्षोणिधृद्भेद्युरस्कौ
ब्रह्मनन्दामृतरसघनौ नौमि लक्ष्मीरमेशौ ॥५॥
स्वप्नेsप्याशाल्यविषयमहाभूतिदायिप्रसादौ
बाधाषट्कप्रमुखनिखिलक्लेशनिर्वापणाङ्घ्री ।
अब्जोद्भूताम्बुजरिपुकलाधृन्मुखार्च्यस्वपादौ
ब्रह्मनन्दामृतरसघनौ नौमि लक्ष्मीरमेशौ ॥६॥
निर्व्याजाङ्घ्रिप्रणतिनिरतव्रातकारुण्यसिन्धू
दुष्कर्मालीफलनिटिलगब्रह्मलेखालिनाशी ।
श्रीवाग्देवीगिरिजनिशचीमुख्यगीतापदानौ
ब्रह्मनन्दामृतरसघनौ नौमि लक्ष्मीरमेशौ ॥७॥
वर्ष्मस्वान्तप्रभृतिसकलस्वाङ्गलावण्यवार्थी
एणाम्भोजप्रसृमरमदोन्मूलकच्छायनेत्रौ ।
काणादाक्षस्वचरणमुखाशेषशास्त्रावलीदौ
ब्रह्मनन्दामृतरसघनौ नौमि लक्ष्मीरमेशौ ॥८॥
अङ्गच्छायानिहितनिखिलाहङ्कृतिस्वर्णवार्दो ( मेघौ )
बिम्बाशेषाभिमतदलनौत्सुक्यधृत्स्वाधरोष्ठौ ।
अङ्गोद्भूतप्रसृमरमहाविक्रमीद्घोषिविश्वौ
ब्रह्मनन्दामृतरसघनौ नौमि लक्ष्मीरमेशौ ॥९॥
पादाम्भोजप्रणतजनताक्लेशविध्वंसपूर्वं
तत्तत्काङ्क्षाधिकशुभततिश्राणकाङ्घ्रिप्रसादौ ।
वैराग्यादिप्रथितगुणयुक्संयमिव्रातलभ्यौ
ब्रह्मनन्दामृतरसघनौ नौमि लक्ष्मीरमेशौ ॥१०॥
ओमित्याख्यां गदति निगम:स्वान्तयुक्तो यदीयॉं
लोके लोके जनुषि जनुषि स्वच्छसौख्यानि दत्त्वा ।
ओंकारार्थप्रवणमनसां मोक्षदानैकदीक्षौ
ब्रह्मनन्दामृतरसघनौ नौमि लक्ष्मीरमेशौ ॥११॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP