संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीमधुसूदनतीर्थस्तोत्रम्

श्रीमधुसूदनतीर्थस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भवभीतिघ्नान्भक्तजनामरभूमिरुहान्
करजितकमलान्कमलासहजनिनिजकेशान् ।
आस्तिकनम्यान्नतकाम्यव्रजदान्कलये
गोवर्धनमठभूगुरुमधुसूदनतीर्थान् ॥१॥
कमलेशपरान्नमदघनाननदावशुचीन्
धर्मधुरीणान्कणभुड्मुखनमपारीणान् ।
विमलमनोsब्घाञ्छमलनिहन्तृन्कलयेsहं
गोवर्धनमठभूगुरुमधुसूदनतीर्थान् ॥२॥
[ बोधकम् ]
व्याजविवर्जितपारविहीन -
क्लिष्टजनालिकृपाणॅंवचित्तम् ।
नम्रजनेष्टवितारिकटाक्षं
नौमि गुरुं मधुसूदनसंज्ञम् ॥१॥
ऊऍंप्रमुखाखिलतारकमन्त्र -
व्रातसमर्थितनिर्गुणतत्त्वम् ।
ऊऍंमनुगूहिततत्त्वनिषक्तं
नौमि गुरुं मधुसूदनसंज्ञम् ॥२॥
इन्द्रियमानसवृत्तिनिरोध -
व्वंसितवासनलभ्यपदाब्जम् ।
अङ्गपराजितकान्तिशशाङ्कं
नौमि गुरुं मधुसूदनसंज्ञम् ॥३॥
[ द्रुतविलम्बितम् ]
जितमन:सुलभान्नतमोददान्
अधिगतात्मकलान्हरिसेवनान ।
शिवपदाब्जरतान्निखिलेष्टकान्
हृदि दधे मधुसूदनदेशिकान् ॥१॥
यमिनिकायनुतान्परमर्द्धिदान्
उपनिषन्निरतान्विभवप्रदान् ।
भुवननाथपुरीमठपीठगान्
हृदि दधे मधुसूदनदेशिकान् ॥२॥
करुणनैजहृदो भसिताञ्चकान् -
स्थिरसुखाभिरतान् प्रणवप्रियान् ।
शुभकदम्बकदान् जगतीगुरून्
हृदि दधे मधुसूदनदेशिकान् ॥३॥
( रुचिरा )
शुकास्यनिर्गलितसुधारसप्रदान् र्निरक्षरे विहितपराक्षरज्ञतान् ।
सकामसङ्गतसजलेप्सितप्रदान् विभावये हृदि मधुसूदनाभिघान् ॥१॥
श्रीमच्छङ्करदेशिकपुङ्गवकरपाथोरुहसंस्थापितरम्य -
श्रीगोवर्धनपीठाधिष्ठितधात्रीशङ्करमणिदेवान् ।
श्रीमच्छङ्करसाक्षान्नव्याकृतिसाक्षात्कृतिकृतभक्ता -
ञ्छ्रीमधुसूदनतीर्थगुरूत्तमगङ्गापावनचरणान् हृदि कलये ॥२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP