संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीगणेशहयकण्ठनृसिंहकल्किस्तोत्रम्

श्रीगणेशहयकण्ठनृसिंहकल्किस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


स्कन्दस्मरादिकलितान् कृतलोकरक्षान्
नम्रेष्टदाननिरतान् करुणासुधाब्धीन् ।
ऋद्धिप्रमुख्यनिजनैजकलत्रयुक्तान्
वन्दे गणेशहयकण्ठनृसिंहकल्कीन् ॥१॥
भोगीशवर्ण्यचरितान् सकलाखिलज्ञान्
सर्वर्द्धिसंस्पृशिपटून निखिलामरार्च्यान् ।
आनन्दसिन्धुशशिनो विजिताक्षलभ्यान्
वन्दे गणेशहयकण्ठनृसिंहकल्कीन् ॥२॥
इष्टाधिकप्रदपदान् गुरुशुक्रवन्द्यान्
योगाद्यभीष्टदनतीन् कृतभक्तमोक्षान् ।
ब्रह्मामरेन्द्रमुखपूजितपादपद्मान्
वन्दे गणेशहयकण्ठनृसिंहकल्कीन् ॥३॥
ओङ्कारमध्यवसतीन् प्रणवादितुष्टान्
कारुण्यजन्मनिलयान् कलिकल्मषध्यान् ।
काणादमुख्यनयदान् विधुजिष्णुहासान्
वन्दे गणेशहयकण्ठनृसिंहकल्कीन् ॥४॥
शश्वतसुखप्रदनतीन् रुचिरस्वमूर्तीन्
प्रालेयनी रथररक्तपयोदवर्णान् ।
फालाक्षपद्मजमुखैरपि पूज्यपादान्
वन्दे गणेशहयकण्ठनृसिंहकल्कीन् ॥५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP