संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|
श्रीगोपीमण्डलगोपालस्तव:

श्रीगोपीमण्डलगोपालस्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


अरविन्दच्छविनिजपदयुगलौ शरदभ्रपटौ वरविश्राणनपरधिषणौ
भक्तजनामरधरणीजनुषौ भवभयशमनौ भृङ्गभुजङ्गमघनचिकुरौ ।
सद्य:स्पर्शितनतजनकाम्यौ सुरततिनम्यौ तनुलावण्यादिमरम्यौ
वन्दे रासक्रीडाविलुलितगात्रौ श्रीमद्गोपीमण्डलगोपालौ ॥१॥
कृष्णादीडितनिजमाहात्म्यौ कृतभीनाशौ करुणाम्भोनिधिहृदयाब्जौ
मेनारम्भासूयिततनुभौ सनकादीड्यौ कनकवनप्रदकान्तितनू ।
चरणानम्राभीप्सितवरदौ करजितकमलौ नीरदनिभनिजचिकुरभरौ
वन्दे रासक्रीडाविलुलितगात्रौ श्रीमद्गोपीमण्डलगोपालौ ॥२॥
एणीपङ्कजजित्वरनयनौ पाणिजिताब्जौ वाणीहुङ्कृतपिकदर्पौ
विनताखिलजनपापहरौ विनताजनुतौ स्तनसङ्घर्षभवानन्दौ ।
कष्ठोन्मूलककरुणाम्भोधी इष्टदनमनावष्टैश्वर्यस्पृशिनिपुणौ
वन्दे रासक्रीडाविलुलितगात्रौ श्रीमद्गोपीमण्डलगोपालौ ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP